औपयिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपयिकः, त्रि, (उपायेन सञ्जातः । उपाय + ठक् + ह्रस्वश्च ।) न्याय्यः । उपयुक्तः । इत्यमरः ॥ (यथा, महाभारते विदुरागमनपर्ब्बणि १ । २०५ । १२ । “एतत्तव महाराज तेषु पुत्त्रेषु चैव ह । वृत्तमौपयिकं मन्ये भीष्मेण सह मारत” ! ॥ तथा रामायणे २ । ५४ । ३९ । “वासमौपयिकं मन्ये तव राम महाबल” । स्त्रियां तु ङीप् । यथा महाभारते वैवाहिक- पर्ब्बणि १ । १९४ । ११ । “न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः” ॥ स्वार्थे विनयादिभ्यष्ठक्प्रत्यये कृते उपायएव औप- यिंकम् । यथा भारविः, ३५ । “शिवमौपयिकं गरीयसीम्” इति ॥

"https://sa.wiktionary.org/w/index.php?title=औपयिकः&oldid=121644" इत्यस्माद् प्रतिप्राप्तम्