औपसर्गिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपसर्गिकः, पुं, (उपसर्ग + ठक् ।) सन्निपातरोग- विशेषः । तस्य लक्षणम् । यथा, -- “कफोऽनुलोमवातेन यदि पित्तानुगो भवेत् । स्वेदशैत्यादिभिर्जुष्टस्तदा भवति मानवः ॥ प्रतिलोमः पुनस्तेन स्वास्थ्यमायाति तत्क्षणात् । औपसर्गिक एवान्यः सन्निपात उदाहृतः” ॥ इति वैद्यकम् ॥ उपसर्गसम्बन्धिनि त्रि ॥ (“तत्रौपसर्गिको यः पूर्ब्बोत्पन्नंव्याधिं जघन्यकाल- जातो व्याधिरुपसृजति स तन्मूलएवोपद्रव- संज्ञः” । इति सुश्रुते सूत्रस्थाने । ३५ अध्याये ॥ “प्रसङ्गात् गात्रसंस्पर्शान्निश्वासात् सहभोजनात् । सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ॥ कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च । औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्” ॥ इति च सुश्रुते निदानस्थाने । ५ अध्याये ॥ माधवसंग्रहस्य व्याख्यायां कुष्ठाधिकारे यथा । “औपसर्गिकरोगा इति औपसर्गिकाः पापरोगा- दयो भूतोपसर्गजाः संक्रामन्ति आविशन्ति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपसर्गिक¦ त्रि॰ उपसर्गाय प्रभवति सन्तापा॰ ठञ्। उप-सर्गसमर्थे। स च सुश्रुतोक्तः रोगभदः यथा
“व्याधि-विशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्यायाप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेतकिमसावौपसर्गिकः प्राक्कबलोऽन्यलक्षण इति तत्रौप-सर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधि-रुपसृजति स तन्मूल एवोपद्रव सम्भवः” इति। वैद्यकान्तरेतु
“कफोऽनुलोमवातेन यदि पित्तानुगो भवेत्। स्वेद-शैत्य{??}ष्टस्तदा भवति मानवः। प्रतिलोमः पुनस्तेनस्वास्थ्यमायाति तत्क्षणात्। औपसर्गिक एवान्यः सन्निपातउदाहृतः” इत्युक्ते

२ वातादिसन्निपाते च।

३ दैवारिष्टसूचके ग्रहदौस्थ्यादौ।

४ उपसर्गसम्बन्धिनि त्रि॰ शब्द-कल्पद्रुमः। तन्मूलं मृग्यम् सम्बन्धिन्यर्थे ठकोऽस्मरणात्कोषान्तराभावाच्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपसर्गिक¦ mfn. (-कः-की-कं)
1. Portentous.
2. Prepositive, connected with a preposition.
3. Relating to change, &c. m. (-कः) Irregular action of the humors of the body, producing cold sweats, &c. E. उपसर्ग a portent, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपसर्गिक [aupasargika], a. (-की f.) [उपसर्ग-ठञ्]

Able to cope with adversity.

Portentous.

Relating to change &c.

Superinduced (as a disease).

Connected with a preposition, prepositive. -कः Irregular action of the humours of the body, producing cold sweats &c. (वातादिसंनिपात).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपसर्गिक mfn. (fr. उप-सर्ग) , superior to adversity , able to cope with calamity g. संतापा-दिPa1n2. 5-1 , 101 superinduced , produced in addition to (or out of another disease) Sus3r.

औपसर्गिक mfn. infectious (as a disease) Sus3r. i , 271 , 13

औपसर्गिक mfn. connected with a preposition , prepositive

औपसर्गिक mfn. portentous

औपसर्गिक mfn. relating to change etc. W.

औपसर्गिक m. irregular action of the humors of the body (producing cold sweat etc. ) L.

"https://sa.wiktionary.org/w/index.php?title=औपसर्गिक&oldid=494252" इत्यस्माद् प्रतिप्राप्तम्