औपाधिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औपाधिक¦ त्रि॰ तेन निर्वृत्तः बा॰ ठञ्। उपाधिकृतेस्त्रियां ङीप्
“रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” शब्दश॰( पुरुषस्य बन्धस्तु औपाधिक एव न नैमित्तिकः नापितात्त्विकः इत्येतत् सां॰ सू॰ माष्ययोर्मिर्ण्णीतं यथा
“न स्वभावतो वद्धस्य मोक्षसाधनोपदेशविधिः” सू॰(
“दुःखात्यन्तनिवृत्तेर्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयो-गएव तस्य बन्धस्य पुरुषे न स्वांभाविकत्वं वक्ष्यमाणलक्षणणमस्ति यतो न स्वभावतो बद्धस्य मोक्षाय साधनोपदेश-स्य विधिरनुष्ठानं नियोज्यानां घटते। न ह्यग्नेः स्वाभाविकादौष्ण्यान्मोक्षः सम्भवति। स्वाभाविकस्थ यावद्-द्रव्यभावित्वादित्यर्थः। तदुक्तमीश्वरगीतायाम्। (
“यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः। न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि”। [Page1576-b+ 38](
“यस्मिन् सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौन भवति तस्य तत् स्वाभाविकमिति स्वाभाविकत्वलक्षणम्। ननु सर्वदोपलम्भापत्तेर्दुःखस्य स्वाभाविकत्व-शङ्कैव नास्तीति चेन्न त्रिगुणात्मकत्वेन चित्तस्य दुःख-स्वभावत्वेऽपि सत्वाधिक्येनाभिभवात् सदा दुःखानुपलब्धि-वदात्मनोऽपि तदनुपलब्धिसम्भवात्। दुःखस्वाभाविकत्व-वादिभिर्बौर्द्धश्चित्तस्यैवात्मताभ्युपगमाच्च। अथैवमात्मना-शादेव मोक्षोऽस्त्विति चेन्न। अहं बद्धो{??}मुक्तः स्यामितिबन्धसामानाधिकरण्येनैव मोक्षस्य पुरुषार्थत्वादिति। मवत्वननुष्ठानं तेन किमित्यत आह” भा॰।
“स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्” सू॰। (
“स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षासम्भवेन तत्साध-नोपदेशश्रुतेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यर्थः भा॰। ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह।
“नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः” सू॰। (
“नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति। यतउपदिष्टेऽपि विहितेऽप्यशक्यओपाये स उपदेशो न भवति। किन्तूपदेशाभास एव
“बाधितमर्थं वेदोऽपि न बोधय-तीति” न्यायादित्यर्थः” भा॰। अत्र शङ्कते।
“शुक्लपटवद्वीजवच्चेत्” सू॰। (
“ननु स्वाभाविकस्याप्यपायो दृश्यते। यथा शुक्लपटस्यस्वाभाविकं शौक्ल्यं रागेणापनीयते। यथा च वोजस्यस्वाभाविक्यप्यङ्कुरशक्तिरग्निनापनीयते। अतः शुक्लपटवद्बीजवच्च स्वाभाविकस्य बन्धस्याप्यपायः पुरुषे सम्भवती{??}तद्वदेव तत्साधनोपदेशः स्यादिति चेदित्यर्थः” भा॰समाधत्ते।
“शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः” सू॰। (
“उक्तदृष्टान्तयोरपि नाशक्याय स्वाभाविकायोपदेशो लोकानां मवति। कुतः शक्त्यद्भवानुद्भवाभ्याम्दृष्टान्तद्वये हि शौक्ल्यादेराविर्भावतिरोभावावेव भवतःन तु शौक्ल्याङ्कुरशक्त्योरभावो भवति। रजकादिव्यापा-रैर्योगिसङ्कल्पादिभिश्च रक्तपटभृष्टवीजयोः पुनः शौक्ल्याङ्कु-रशक्त्याविर्भावादित्यर्थः। नन्वेवं पुरुषेऽपि दुःखशक्तिति-रोभाव एव मोक्षोऽस्त्विति चेन्न दुःखात्यन्तनिवृत्तेरेव लोकेपुरुषर्थत्वानुमानात् श्रुतिस्मृत्योः पुरुषार्थत्वसिद्धेश्च न तुदृष्टान्तयोरिव तिरोभावमात्रस्येति। किञ्च दुःखशक्तिति-रीभावमात्रस्य मोक्षत्वे कदाचिद्यीगीश्वरसङ्कल्पादिनाशक्त्युद्भवस्य भृष्टवीजेष्विव मुक्तेष्वपि सम्भवेनानिर्मोक्षाप-[Page1577-a+ 38] त्तिरिति” मा॰। स्वभावतो बन्धं निराकृत्य निमित्तेभ्यो-ऽपि बन्धमपाकरोति सूत्रजातेन। पुरुषे दुःखस्य नैमि-त्तिकत्वे ज्ञानाद्युपायोच्छेद्यत्वं न घटेत। अनागता-वस्थसूक्ष्मदुःखस्य{??}द्रव्यभावित्वादित्याशयेन नैमित्ति-कत्वं निराक्रियते।
“न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात्” सू॰। (
“नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः कुतः?व्यापिनो नित्यस्य कालस्य सर्व्वावच्छेदेन सर्व्वदा मुक्ता-मुक्तसकलपुरुषसम्बन्धात् सर्व्वावच्छेदेन सदा सकल-पुरुषाणां बन्धाषत्तेरित्यर्थः। अत्र च प्रकरणे कालदेश-कर्मादीनां निमित्तत्वसामान्यं नापलप्यते श्रुतिस्मृतियुक्ति-मिः सिद्धत्वात्। किन्तु यन्नैमित्तिकत्वं पाकजरूपादिव-न्निमित्तजन्यत्वं तदेब बन्धे प्रतिषिध्यते पुरुषे बन्धस्यौपाधि-कत्वाभ्युपगमात्। ननु कालादिनिमित्तकत्वेऽपि सहकार्य-न्तरसम्भवासम्भवाभ्यां व्यवस्था स्यादिति चेत् एवं सतियत्संयोगे सत्यवश्यं बन्धस्तत्रैव सहकःरिणि लाघवाद्बन्धोयुक्तः पुरुषे बन्धव्यवहारस्यौपाधिकत्वेनाप्युपपत्तेरिति कृतंनैमित्तिकत्वेनेति” भा॰
“न देशयोगतोऽप्यस्मात्” सू॰।
“देशयोगतोऽपि न बन्धः कुतः? अस्मात् पूर्व्वसूत्रो-क्तान्मुक्तामुक्तसर्व्वपुरुषसम्बन्धात् मुक्तस्यापि बन्धापत्तेरि-त्यर्थः” भा॰।
“नावस्थातो देहघर्मत्वात् तस्याः” सू॰।
“सङ्घातविशेषरूपताख्या देहरूपा यावस्था न तन्निमि-चतोऽपि पुरुषस्य बन्धः। कुतः? तस्या अवस्थाया देह-धर्मत्वात् अचेतनधर्मत्वादित्यर्थः। अन्यधर्मस्य साक्षाद-न्यबन्धकत्वेऽतिप्रसङ्गात्। मुक्तस्यापि बन्धापत्तेरित्यर्थः” भा॰। ननु पुरुषस्याप्यवस्थायां किं बाधकं तत्राह।
“असङ्गोऽयं पुरुष इति” सू॰।
“इति शब्दो हेत्वर्थे। पुरुषस्यासङ्गत्वादवस्थाया देह-मात्रधर्मत्वमिति पूर्वसूत्रेणान्वयः। पुरुषस्यावस्थारूप-विकारस्वीकारे विकारहेतुसंयोगाख्यः सङ्गः प्रसज्येतेतिभावः। असङ्गत्वे च श्रुतिः।
“स यदत्र किञ्चित् पश्य-त्यनन्वागतस्तेन भवति असङ्गो ह्ययं पुरुष” इति। सङ्गश्चसंयोगमात्रं न भवति। कालदेशसम्बन्धस्य पूर्वमुक्तत्वात्। श्रतिस्मृतिषु पद्मपत्रस्थजलेनेव पद्मपत्रस्यासङ्गतायाः पुरुषासङ्गतायां दृष्टान्तताश्रवणाच्च” भा॰।
“न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च” सू॰।
“न हि बिहितनिषिद्धकर्मणापि पुरुषस्य बन्धः कर्म[Page1577-b+ 38] णामनात्मधर्मत्वात्। अन्यधर्मेण साक्षादन्यस्य बन्धे चमुक्तस्यापि बन्धापत्तेः। ननु स्वस्वोपाधिकर्मणा बन्धाङ्गी-कारे नायं दोष इत्याशयेन हेत्वन्तरमाह। अतिप्रसक्ते-श्चेति। प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः। सहकार्य्यन्तरविलम्बतो विलम्बकल्पनं च प्रागेव निराकृतं नकालयोगत इत्यादिसूत्र इति” भा॰। ( नन्वेवं दुःखयेगरूपोऽपि बन्धः कर्मसामानाधिकर-ण्यानुरोधेन चित्तस्यैवास्तु दुःखस्य चित्तधर्मतायाः सिद्ध-त्वात्। किमर्थं पुरुषस्यापि कल्प्यते बन्ध इत्याशङ्कायामाह
“विचित्रभोगानुपपत्तिरन्यधर्मत्वे” सू॰।
“दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रभोगानुप-पत्तिः। पुरुषस्य हि दुःखयोगं विनापि दुःखसाक्षात्का-राख्यभोगस्वीकारे सर्व्वपुरुषदुःखादीनां सर्वपुरुषभोग्यतास्यान्नियामकाभावात्। ततश्चायं दुःखभोक्तायं च सुख-भोक्तेत्यादिरूपभीगवैचित्र्यं नोपपद्येतेत्यर्थः। अतोभोगवैचित्र्योपपत्तये भोगनियामकतया दुःखादियोगरूपोबन्धः पुरुषेऽपि स्वीकार्यः। स च पुरुषे दुःखयोगः प्र-तिविम्बरूप एवेति प्रागेवोक्तम्। प्रतिविम्बश्च स्वोपाधि-वृत्तेरेव भवतीति न सर्वपुंसां सर्वदुःखभोगः इति भावः।
“चित्तवृत्तिभोगे च पुरुषस्यानादिः स्वस्वामिभावः सम्बन्धोहेतुरिति” योगभाष्यादयं सिद्धान्तः सिद्धः। चित्ते च पुरु-षस्य स्वत्वं स्वभुक्तवृत्तिवासनावत्त्वमिति। यत त चित्त-स्यैव बन्धमोक्षौ न पुरुषस्येति श्रुतिस्मृतिषु गीयते तद्विम्ब-रूपदुःखयोगरूपं पारमार्थिकं बन्धमादाय बोध्यम्” भा॰। साक्षात् प्रकृतिनिमित्तकत्वमपि बन्धस्यापाकरोति।
“प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यम्” सू॰।
“ननु प्रकृतिनिमित्ताद्बन्धो भवत्विति चेन्न यतस्तस्याअपि बन्थकत्वे संयोगपारतन्त्र्यमुत्तरत्र वक्ष्यमाणमस्ति। संयोगविशेषं विनापि बन्धकत्वे प्रलयादावपि दुःखसम्बन्धप्रस-ङ्गादित्यर्थः। प्रकृतिनिबन्धना चेदिति पाठे तु प्रकृतिनि-बन्धना चेद्बद्धतेत्यर्थः” भा॰। अतो यत्परतन्त्रा प्रकृ-तिर्बन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिकोबन्धोऽग्निसंयोगाज्जलौष्ण्यवदिति स्वसिद्धान्तमनेनैव प्रस-ङ्गेनान्तराल एवावधारयति।
“न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते” सू॰।
“तस्मात् तद्योगादृते प्रकृतिसंयोगं विना न पुरुषस्यतद्योगो बन्धसम्पर्कोऽस्ति। अपि तु स एव बन्धहेतुः। बन्ध-स्यौपाधिकत्वलाभाय नञ्द्वयेन वक्रोक्ति। यदि हि बन्धः[Page1578-a+ 38] प्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत् तदा तद्बदेब त-द्वियोगेऽप्यनुवर्त्तेत। न च द्वितीयक्षणादेर्दुःखनाशकत्वंकल्प्यं कारणनाशस्य कार्यनाशकतायाः कॢप्तत्वेन तेनैवो-पपत्तावधिकाऽकल्पनात्। वृत्तिर्हि दुःखादेरुपादानम्। अतो दीपशिखावत् क्षणभद्भुराया वृत्तेराशुविनाशित्वेनैवतद्धर्माणां दुःखेच्छादीनां विनाशः सम्भवतीति। अतःप्रकृतिवियोगे बन्धाभावादौपाधिक एव बन्धो न तु स्वाभा-विको नैमित्तिको वेति। तथा तत्संयोगनिवृत्तिरेवसाक्षाद्धानोपाय इत्यपि वक्रोक्तिफलम्। तथा च स्मृतिः
“यथा ज्वलद्गृहाश्लिष्टं गृहं विच्छिद्य रक्ष्यते। तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति”। वैशेपिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो माभूदित्येतदर्थं नित्येत्यादि। यथा स्वभावशुद्धस्य स्फटिकस्यरागयोगो न जपायोगं विना घटते तथैव नित्यशुद्धा-दिस्वभावस्य पुरुषस्योपाधिसंयोगं विना दुःखसंयोगो नघटते स्वतो दुःखाद्यसम्भवादित्यर्थः तथाह सौरे
“यथा हि केवलो रक्तः स्फटिको लक्ष्यते जनैः”। रञ्जकाद्युपधानेन तद्वत् परमपूरुषः”। नित्यत्वं कालानवच्छिन्नत्वम्। शुद्धादिस्वभावत्वं चनित्यशुद्धत्वादिकम्। तत्र नित्यशुद्धत्वं सदा पाप-पुण्यशून्यत्वम्। नित्यबुद्धत्वमलुप्तचिद्रूपत्वम्। नित्य-मुक्तत्वं सदा पारमार्थिकदुःखायुक्तत्वम्। प्रतिविम्बरूपदुः-खयोगस्त्वपारगार्थिको बन्धः इति भावः। आत्मनो नि-त्यशुद्धत्वादौ च श्रुतिः।
“अयमात्मा सन्मात्रो नित्यशुद्धः बुद्धः सत्यो मुक्तो निरञ्जनो विभुरित्यादिः” भा॰। ( अयमेव पक्षो वेदान्तिभिरप्यङ्गीकृतः
“तद्गुणसारत्वा-दित्यादि” शा॰ सूत्रभाष्ये
“न हि बुद्धेर्गुणैर्विना केवल-स्यात्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्म्माध्यासनिमित्तंहि कर्त्तृत्वभोक्तृत्वलक्षणं संसारित्वमकर्त्तुरभोक्तुश्चासंसा-रिणोनित्यमुक्तस्य सत आत्मनः” इति
“यावदात्मभावि-त्वादित्यादि” शा॰ सूत्रभाष्ये च
“यावदेव चायं बुद्ध्यु-पाधिसम्बन्धस्तावदेव चास्य जीवत्वं संसारित्वञ्च। पर-मार्थतस्तु न जीवोनाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यति-रेकेण” इति च संसारित्वस्य बुद्ध्युपाधिसंबन्धाधीनतयौपा-धिकत्वस्योक्तेः। इवांस्तु विशेषः एतन्मते बन्धस्येव जीवभेद-स्यापि औपाधिकत्वं तदपि शां॰ सू॰ भाष्ययोर्निर्ण्णीतं यथा
“अतएव चोपमा(जल)सुर्य्यकादिवत्” सू॰
“अतएव चाय-मात्मा चैतन्यस्वरूपोनिर्विशेषो वाङ्मनसातीतः परप्रति-[Page1578-b+ 38] षेधेनोपदिश्यते अतएव चास्योपाधिनिमित्तामपारमार्थि-कीं विशेषवत्तामभिप्रेत्य जलसूर्य्यकादिवदित्युपमोपा दी-यते मोक्षशास्त्रेषु
“यथाह्ययं ज्योतिरात्मा विवस्वानपो-भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपोदेवःक्षेत्रेष्वेवमजोऽयमात्मेति”।
“एकएव तु भूतात्मा भूतेभूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवदितिचैवमादिषु। अत्र पत्यवस्थीयते” भा॰।
“अम्बुवदग्रहणा-त्तु न तथात्वम्” सू॰।
“न जलसूर्य्यादितुल्यत्वमिहोपपद्यतेतद्वदग्रहणात्। सूर्य्यादिभ्योहि मूर्त्तेभ्यः पृथगभूतं विप्र-कृष्टदेशं मूर्त्तञ्च जलं गृह्यते तत्र युक्तः सूर्य्यादिप्रति-विम्बोदयोनत्वात्मा मूर्त्तः नचास्मात् पृथग्भूता विप्रकृष्टदेशा-श्चोपाधयः, सर्व्वगतत्वात् सर्व्वानन्यत्वाच्च तस्मादयुक्तोऽयंदृष्टान्त इति। अत्र प्रतिविधीयते। भा॰
“वृद्ध्विह्रासमात्रमन्तर्भावादुभयसामञ्जस्यादेवम्” सू॰। युक्त एव त्वयं दृष्टान्तःविवक्षितांशसम्भवात् न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित्-कञ्चिद्विवक्षितममंशं मुक्त्वा सर्व्वसारूप्यं केनचिद्दर्शयितुंशक्यते सर्व्वसारूप्ये हृइ दृष्टान्तदार्ष्टान्तिकभावोच्छेद एवस्यात्। न चेदं स्वमनीषया जलसूर्य्यकादिदृष्टान्तप्रणयनम्। शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते। किंपु-नरत्र विवक्षितं सारूप्यमिति? तदुच्यते वृद्धिह्रासमात्रमिति। जलगतं हि सूर्य्यप्रतिविम्बं जलवृद्धौ वर्द्धते जल-ह्रासे ह्रसते जलचलने चलति जलभेदे भिद्यते इत्येवं ज-लधर्म्मानुविधायि भवति न तु परमार्थतः सूर्य्यस्य तथा-त्वमस्ति एवं परमार्थतोऽविकृतमेकरूपमपि सद्ब्यह्म देहा-द्युपाध्यन्तर्भावाद्भजतएवोपाधिधर्म्मान् वृद्धिह्नासादीन्एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः” भा॰।
“दर्शनाच्च” सू॰।
“दर्शयति च श्रुतिः परस्यैव ब्रह्मणोदेहादि{??}पाधिष्वनुप्रवेशम्
“पुरः स चक्रे द्विपदः पुरश्चक्रे चतुष्-पदः। पुरः स पक्षी भूत्वा पुरः पुरुष अविशदिति”
“अनेन जीवेनात्मनानुप्रविश्येति” च तद्युक्तमेतत्”। ( उपाधिरेव विनया॰ स्वार्थे ठञ्। साध्यसमव्यापकत्वे सतिसाधनाव्यापकत्वरूपे प्रागुक्ते उपाधौ
“अनौपाधिको-व्याप्तिः” , अनुमा॰ चि॰।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औपाधिक [aupādhika], a. (-की f.) [उपाधि-ठञ्]
Conditional.
Pertaining to attributes or properties; an effect produced.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औपाधिक mfn. (fr. उपा-धि) , relating to or depending on special qualities , limited by particular conditions , valid only under particular suppositions Sarvad. Comm. on RV. and S3Br. etc.