औपासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपासन¦ त्रि॰ उपास्यते प्रतिदिनमित्युपासनो गृह्यो-ऽग्निस्तत्र भवः अण्। गृह्याग्नौ कर्त्तव्ये सायंप्रात-र्होमादौ कर्म्मणि। गृह्याग्निश्च विवाहाग्निः। तत्र कर्त्तव्यं दर्शितं
“नौपासनश्रुतेः” कात्या ॰

१ ,

१ ,

२ ,
“यदुक्तम् वैतानिकेष्वेवाग्निषुश्रौतं स्मार्तं च कर्त्तव्यमितितन्न कुतः? औपासनश्रुतेः यत आहिताग्नेरप्यौपासनःश्रूयते पितृमेधे
“अद्वारेणौपासनं निरस्यतीति” यदि स्मार्त-मपि वैतानिकेष्वेव क्रियते तदा आहिताग्नेः पितृमेधेऔपासनदर्शनं न स्यात् अस्ति च। तस्मात् स्मार्त्तान्यौपा-सने कर्त्तव्यानीति तथा च स्मृतिः स्मार्त्तं कर्म्म विवाहाग्नौकुर्व्वीत प्रत्यहं गृही। दायकालाहृते वापि श्रौतं वैतानि-काग्निष्विति”।
“तस्मिन् गृह्याणीत्यापस्तम्बस्मरणाच्च”। गृहाय हितं गृह्यम् गृहशब्दश्च दम्पत्योर्वर्त्तते तस्मि-न्नित्यावसथ्ये। अतश्च यत्किञ्चिद्दम्पत्योर्हितं कर्म शान्तिकपौष्टिक व्रताङ्गहोमादिकं स्मार्त्तं तत् सर्वमावसथ्येऽग्नौभवतीति। तथा च खादिरगृह्यसूत्रकारिकायाम्
“हो-मानात्मार्थपत्न्यर्थान् कृत्स्नानौपासने न च। परार्थाने-कदेशेऽग्नौ स चान्ते लौकिको भवेत्” अत एव कात्यायनः(कर्मप्रदापे)
“न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहु-तिम्। स्वकर्म्म सत्क्रियार्थश्च यावन्नासौ प्रजायते। अग्नि-स्तु नामघेयादौ होमे सर्व्वत्र लौकिकः। न हि पित्रासमानीत पुत्रस्य भवति क्वचित्”। अतश्च सीमन्तोन्नयनमपिस्मार्ताग्नावेव कार्य्यम्। अपिच आधानेनोत्पादितानांगार्हपत्यादीनामग्नीनाम् प्रयोजनापेक्षायां सत्यां
“गार्हपत्येहर्वीषि श्रपयत्याहवनीये जुहोति दक्षिणाग्नावन्वाहार्य्यंपवतीति” प्रत्यक्षवचननिर्द्दिष्टैरेव प्रयोजनैर्निराक ङ्क्षाणाम्न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते”। तस्मात् स्मार्तान्यौपासन एव कार्य्याणि इति” कर्कः। ( विधानपा॰ तस्यारम्भकालादि निरूपितं यथा गृह्यपरि-शिष्टे
“अथ नित्यौपासनं तस्य सतयमारम्भं” इति। शौनकोऽपि यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्यतु। परिचर्य्यां विवाहाग्नेर्विदधीत स्वयं द्विजः। यदिरात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति। उपक्रमोत्तरस्याह्नः सायं परिचरेदमुमिति”। इदमपि नवनाड्यतिक्रमे-दृष्टव्यम्। तथा चापस्तम्बसूत्रे भाष्यकृत्सुदर्शनाचार्य्यः।
“अस्यचारम्भणं रात्रावेव यदि नव नाड्योनातीताः। [Page1579-b+ 38] अतीताश्चेत् परेद्युः सायमेवाग्निहोत्रबेलायामारम्भइति”। अन्यत्रापि।
“प्रातर्होमे सङ्गवान्तः कालस्त्वनु-दिते ऽथ वा। सायमस्तमिते होमः कालस्तु नवनाडि-केति”। अत्रानुदितहोमकालस्तु वाजसनेयिनां वेदितव्यः। तथा च कात्यायनसूत्रम्।
“औपासनस्य परिचरणमस्त-मितानुदितयोरिति”। तेषामौपासनसमारम्भोऽपि चतु-र्थीहोमानन्तरमाहितेऽग्नौ भवति न तु विवाहाग्नौ
“आव-सथ्याधानं दारकाले दायाद्यकाले वेति” कात्यायनसूत्रात्तद्भाष्यमपि।
“दारकालश्चतुर्थ्युत्तरकालः। दायाद्यकालो-धनविभागकाल इति” औपासनात्पूर्ब्बं यदि विवा-हाग्निः शाम्येत तदा प्रायश्चितमुक्तं विश्वादर्शे
“उद्वा-हौपासनात् पूर्ब्बमनले शान्तिमागते। स्थालीपाकं ततःकृत्वा ह्यौपासनमथाचरेत्। नवनाडीभ्य ऊर्द्द्वं चेत्स्थाली-पाकोभवेत्तु वै। औपासने तदा कुर्य्यात् परेद्युः सायमेव-चेति”। तस्य प्रादुष्करणकाल उक्तः आश्वलायनसूत्रे
“तस्याग्निहीत्रेण प्रादुष्करणहोममकालौ व्याख्याताविति” तत्कारिकायामपि।
“ज्वालयेदपराह्णेऽग्निमस्तं याते दि-वाकरे। पर्य्युह्याग्निं परिस्तीर्य्य पर्य्युक्ष्य च ततः पर-मिति”। स्पष्टमाह कात्यायनः।
“सूर्य्ये तु शैलमप्राप्तेषड्विंशद्भिरिहाङ्गुलैः। पादुष्करणमग्नीनां प्रातरासोम-दर्शनम्”। तथा
“दुहित्रा स्तुषया वाग्निविंहारो नविरुध्यते। निलेपनं च पात्राणामुपलेपनमेव चेति”। उक्तकाले प्रादुष्करणाभावे प्रायश्चित्त मुक्तम् आश्वलायनकारिकायाम्।
“प्रायश्चित्तं विशेषेण यत्र नोक्तंभवेद्बिधिः। होतव्याज्याहुतिस्तत्र भूर्भुवःस्वरितीतिचेति”। कात्यायनः अनुदितास्तमयलक्षणमाह।
“रात्रेस्तु षोडशे भागे ग्रहक्षनत्रभूषिते। कालं त्वनु-दितं ज्ञात्वा तत्र होमं प्रकल्पयेत्”। तथा
“यावत्सम्यङ्ग-भासन्ते नभस्यृक्षाणि सर्वतः। न च लौहित्यमायातितावत्सायं तु हूयते”। अत्राश्वलायनादीनां होमे मुख्य-कालमाह चन्द्रिकायामत्रिः
“हस्तादूर्द्ध्वं रविर्यावद्भूभिं-हित्वा न गच्छति। तावद्धोमविधिः पुण्योनान्योऽभ्युदित-होमिनाम्। रात्रौ प्रदोषो मुख्यःस्यादिति वेदविदो विदु-रिति”। अत्र गौणकालमाह शौनकः
“पश्चादस्तमया-त्कालोयोभवेत्त्रिमूहूर्त्तकः। स सायंहोमकालःस्यात् प्रदो-षान्त उदाहृतः। यस्तु षड्नाडिकाकालः पश्चादेवोदया-द्रवेः। स होमकालो विप्राणां सङ्गवान्त इति स्मृत” इति। यदि गौणकालोऽप्यतोतस्तदा गृह्यपरिशिष्टेप्रायश्चित्तमुक्तम्[Page1580-a+ 38]
“नित्यहोममतीत्य मनस्वत्या चतुर्गृहीतं जुहुयात्द्वादशूरात्रादूर्द्ध्वं पुनराधानमिति”। केचित्तुप्रायश्चित्तंकृत्वा प्रातर्होमकालात् पूर्व्वं सायंहोमः कार्य्यः सायंहोमात्पूर्ब्बं प्रातर्होमः कार्य्यैत्याहुः
“आसायकर्मणःपातराप्रातः सायकर्म्मणः। आहुतिं नातिपद्येत पार्वणंपार्वणान्तरादिति” बौधायनस्मृतेरिति। अस्याग्निहोत्र-वद् विधानं प्रदर्शितं शौनकेन।
“अग्निहीत्रवदि-त्यतेच्छौनकेन प्रपञ्चितम्। पुनः पर्य्युक्ष्य चाङ्गारानुदगग्नेरपोह्य च। हौम्यानां द्वादशानां तु पक्वमेते-ष्टधिंश्रयेत्। पयोयवागूः सर्पिश्च ओदनं दधि तुण्डलाः। सोमस्तैलमपो व्रीहिर्द्वादशैते तिलायवाः। पयआदीनि चचारि विदुः पक्वानि याज्ञिकाः। दध्यादीनाम-पक्वानामधिश्रयणमिष्यते। उल्मुकेनैव ज्वलयेदपक्वंपक्वमेव च। अधिश्रिते स्नुवेणापः परिषिञ्चेन्नवाधि-काः। पुनस्त्रिर्ज्वलता तेन परिव्युह्य प्रहृत्य तत्। उद-र्क्कषं त्रिधोद्वास्याप्यङ्गारानतिसृज्य च। अग्नेःपश्चात्तृणेष्वेव निधाय समिधा सह। त्रिवारमेकं संस्कृत्य गृहीत्वासायमग्नये (तेषां द्वादशद्रव्याणां मध्वे एकं द्रव्यमित्यर्थः)। स्वाहेति मन्त्रमुद्दार्य्य कुर्व्वीत प्रथमप्राहुतिम्! प्रातर्होमेतु सूर्य्याय स्वाहेति प्रथमाहुतिम्। तूष्णीं प्रजापतिंध्यायन्नुभयत्र द्वितीयिकामिति”। अत्रान्योविशेषः स्वशा-खोक्तोऽवगन्तव्यः। होमस्थानं स्मृत्यर्थसारे
“बहुशुष्केन्धनेनाग्नो सुसमिद्धे हुताशने। अङ्गारे लेलिहाने च हो-तव्यं नान्यथा क्वचित्। योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारेचैव मानवः। मन्दाग्निरामयावीच दरिद्रश्चोपजायते। अग्निः प्रदक्षिणावर्त्तः शर्मदश्च शुवावहः” इति। अग्न्युप-स्थानमन्त्रानाह शौनकः
“परिसमुह्य च पर्य्युक्ष्याप्यु-पतिष्ठेद्धविर्भुजम्। अग्नेः सूक्तैश्च सौरैश्च प्राजापत्यैश्च-नित्यशः” याज्ञ॰। हुत्वाग्नीन् सूर्यदेवत्यान् जपेन्मन्त्रान्समाहितः” एतद्धोमं प्रशंसत्यङ्गिराः
“यद्दद्यात्काञ्चनंमरुं पृथिवीं च ससागराम्। तत्सायं प्रातर्होमस्य तुल्यंभवति वा नवेति”। अन्यत्रापि
“नाग्निहोत्रात्परोधर्म्मोनाग्निहोत्रात्परं तपः। नग्निहोत्रात्परं स्नानं नाग्नि-होत्रात्परा गतिरिति” अकरणे प्रत्यवायमाह गर्नः
“कृत-दारोन तिष्ठेत क्षणमप्यग्निना विना। तिष्ठेत चेहिजोव्रात्य-स्तथा च पतितो भवेत्। यथा स्नानं यथा सन्ध्या वेद-स्याध्ययनं यथा। तयैवौपासनं कार्य्यं न स्थितिस्तद्वि-योगतः। यो हि हित्वा विवाहाग्निं गृहस्थ इति म-[Page1580-b+ 38] न्यते। अन्नं तस्य न भोक्तव्यं वृथापाकोहि स स्मृतः। वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत। प्राणा-यामशतं कृत्वा घृतं प्राश्य विशुध्यतीति”। तस्याशौचेऽपि कर्त्तव्यतामाह याज्ञ॰।
“वैतानौपासनाःकार्य्याः क्रियाश्च श्रुतिनोदनात्”। ङीबभाव आर्षःलोके तु औपासनीत्येव

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपासन¦ mfn. (-नः-नी-नं) Devotional, holy, connected with or belonging to worship or service. E. उपासना, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपासन [aupāsana], a. (-नी f.) [उपासन-अण्]

Ralating to गृह्याग्नि or household fire.

Belonging to worship or service; holy, sacred.

नः A fire used for domestic worship.

A small rice-ball (पिण्ड) offered to the manes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपासन m. ( scil. अग्नि) , (fr. उपा-सन) , the fire used for domestic worship S3Br. xii Ka1tyS3r. Pa1rGr2. etc.

औपासन m. ( scil. पिण्ड)a small cake offered to the Manes S3a1n3khBr. and S3a1n3khS3r.

औपासन mf( आ)n. relating to or performed at an औपासनfire (as the evening and morning oblations) Ya1jn5. iii , 17 HirGr2.

"https://sa.wiktionary.org/w/index.php?title=औपासन&oldid=494257" इत्यस्माद् प्रतिप्राप्तम्