औरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरसः, पुं स्त्री, (उरसा निर्म्मितः । उरस् अण् ।) स्वजातपुत्त्रः । तत्पर्य्यायः । औरस्यः २ । इत्य- मरः ॥ उरस्यः ३ । इति तट्टीका ॥ द्वादशविध- पुत्त्रान्तर्गतश्रेष्ठपुत्त्रोऽयम् । स तु सवर्णायां भा- र्य्यायां म्वयं जनितः । यथा । “सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं विद्यात्” । इति बौधायनः ॥ (तथा मनुः । ९ । १६६ । “स्वे क्षेत्रे संस्कृतायान्तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात् पुत्त्रं प्रथमकल्पितम्” ॥) “औरसो धर्म्मपत्नीजः” इत्यादि याज्ञवल्क्यः ॥ २ । १३१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस पुं।

स्वस्माज्जातपुत्रः

समानार्थक:उरस्य,औरस

2।6।28।2।2

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस¦ पु॰ उरसा निर्म्मितः यदभावे अण्।
“सवर्ण्णायांसंस्कृतायां स्वयमुत्पादयेत्तु यम्। औरसं तं विजानीयात्पुत्रं प्रथमकल्पितम्” मनूक्ते पुत्रभेदे
“औरसः क्षेत्रजश्चैवदत्तः कृत्रिम एव च” मनुना द्वादशविधपुत्रमध्ये तस्यप्राथम्योक्तेः
“अङ्गादङ्गात् सम्भवति” आत्मा वै जायतेपुत्र” श्रुतेश्च स्वदेहजातत्वेनास्य तथात्वम्।

१ उरसा-निर्म्मितमात्रत्वेन असवर्ण्णागुत्रे परपूर्व्वापुत्रेऽपि औरस-शब्दस्य वृत्तिः अतएव
“अर्जुनस्य परपूर्व्वायां नागकन्या-यामुत्पन्नमैरावतमभिप्रेत्य” भा॰ भी॰

९१ अ॰
“अजानन्अर्जुनश्चापि निहतं पुत्रमौरसम्” ऐरावतस्य औरसत्व-विशेषणम्।
“एकएवौरस पुत्रः सर्व्वस्य वसुनः प्रभुः” मनुः[Page1581-a+ 38]
“औरसः क्षेत्रजः पुत्रौ पितृरिक्थस्य भागिनौ” स्मृतिःऔरसे पुनरुत्पन्ने तृतीयांशहराः सुताः” मनुः उरसइदमण्।

२ हृदयभवे त्रि॰ उरसा नाम पुरोभेदः तत्रभवः सिन्ध्वा॰ अण्।

३ औरस उरसापुरोभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस¦ mf. (-सः-सी) A legitimate child, i. e. by a wife of the same tribe. E. उरस् the best, and अण affix; the best of the twelve sons; also उरस्य and औरस्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस [aurasa], a. (-सी f.) [उरसा निर्मितः अण्]

Produced from the breast, born of oneself, legitimate; Ś.7; V.5; इत्थं नागस्त्रिभुवनगुरोरौरसं मौथिलेयम् R.16.88.

Physical, bodily; विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् Mb.3.11.31.

Natural; निदर्शयन् वै सुमहच्छिक्षौरसकृतं बलम् Mb.7.37.2.

Manly, virile; Mb.12.65.5. -सः, -सी A legitimate son or daughter; औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः Y.2.128.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औरस mf( ई)n. (fr. उरस्) , belonging to or being in the breast , produced from the breast MBh.

औरस mf( ई)n. innate , own , produced by one's self Sus3r.

औरस m. a sound produced from the breast Pa1rGr2. iii , 16

औरस m. an own son , legitimate son (one by a wife of the same caste married according to the prescribed rules) Mn. ix , 166 , etc. Ya1jn5. ii , 128 , etc. Hit. R. etc.

औरस mfn. coming from or belonging to उरशाg. सिन्ध्व्-आदिPa1n2. 4-3 , 93.

"https://sa.wiktionary.org/w/index.php?title=औरस&oldid=494265" इत्यस्माद् प्रतिप्राप्तम्