औषधम्
संस्कृतम्
[सम्पाद्यताम्]एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | औषधम् | औषधे | औषधानि |
सम्बोधनप्रथमा | औषध | औषधे | औषधानि |
द्वितीया विभक्तिः | औषधम् | औषधे | औषधानि |
तृतीया विभक्तिः | औषधेन | औषधाभ्याम् | औषधैः |
चतुर्थी विभक्तिः | औषधाय | औषधाभ्याम् | औषधेभ्यः |
पञ्चमी विभक्तिः | औषधात् | औषधाभ्याम् | औषधेभ्यः |
षष्ठी विभक्तिः | औषधस्य | औषधयोः | औषधानाम् |
सप्तमी विभक्तिः | औषधे | औषधयोः | औषधेषु |
- औषध, औषधविज्ञान, भेषज, भैषज्य, आस्रावभेषज, प्रतिक्षिप्त, भैषज, रोगघ्न, रोगहर, रोगिवल्लभ।
नामम्
[सम्पाद्यताम्]- औषधं नाम आयुर्विज्ञानः।
अनुवादाहः
[सम्पाद्यताम्]- drug ड्रग्
- medicament मॆडिकमॆन्ट्
- medicine मॆडिसिन्
- plantsप्लान्ट्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औषधम्, क्ली, (ओषधेरिदम् । ओषधिरेव वा “ओ- षधेरजातौ” ५ । ४ । ३७ । इत्यण् ।) रोगनाशकद्रव्यं । ओषधिभवं भवार्थे ष्णप्रत्ययः । तत्पर्य्यायः । भेष- जम् २ भैषज्यम् ३ अगदः ४ जायुः ५ । इत्यमरः ॥ जैत्रम् ६ आयुर्योगः ७ गदारातिः ८ अमृतम् ९ आयुर्द्रव्यम् १० । इति वैद्यकम् ॥ (“शोधनं शमनञ्चेति समासादौषधं द्विधा । शरीरजानां दोषाणां क्रमेण परमौषधम् ॥ वस्तिर्विरेको वमनं तथा तैलं घृतं मधु । धीर्धैर्य्यात्मादिविज्ञानं मनोदोषौषधम्परम्” ॥ इति वाभटे सूत्रस्थाने । १ अध्याये ॥ “धन्वसाधारणे देशे समे सन्मृत्तिके शुचौ । श्मशानचैत्यायतनश्वभ्रबल्मीकवर्ज्जिते ॥ मृदौ प्रदक्षिणजले कुशरोहिषसंस्मृते । अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः ॥ शस्यते भेषजं जातं युक्तवर्णरसादिभिः । जन्त्वदग्धं दवादग्धमविदग्धञ्च वैकृतैः ॥ भूतैश्छायातपाम्राद्यैर्यथाकालञ्च सेवितम् । अवगाढमहामूलमुदीचीं दिशमाश्रितम् ॥ अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः । गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत् ॥ सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम् । ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः” ॥ इति तत्रैव कल्पस्थाने । ६ अध्याये ॥ “यथाविधं यथाशस्त्रं यथाग्निरशनिर्यथा । तथौषधमविज्ञातं विज्ञातममृतं यथा ॥ औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः । विज्ञातमपि दुर्य्युक्तमनर्थायोपपद्यते ॥ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् । भेषजं वापि दुर्य्युक्तं तीक्ष्णं सम्पद्यते विषम् ॥ तस्मान्न भिषजा युक्तं युक्तिवाह्येन भेषजम् । धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा ॥ कुर्य्यान्निपतितो मूर्द्ध्नि सशेषं वासवाशनिः । सशेषमातुरं कुर्य्यान्नत्वज्ञमतमौषधम् ॥ तदेव युक्तं भैषज्यं यदारोग्याय कल्पते । स एव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्” ॥ इति चरके सूत्रस्थाने । १ अध्याये ॥