ककुत्स्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थः, पुं, (वृषरूपधरस्य देवेन्द्रस्य ककुदि तिष्ठति यः सः । ककुत् + स्था + कः ।) सूर्य्यवंशीयराजवि- शेषः । स तु अयोध्याधिपतिः । (पुरञ्जयनामायं ।) शशादराजपुत्त्रः । इक्ष्वाकुराजपौत्त्रश्च ॥ (येन चासौ ककुत्स्थनामासीत् तत्कथा हरिवंशे ऐलोत्पत्तौ । ११ । १९--२० ॥ “शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान् ॥ पूर्ब्बं देवासुरे युद्धे ककुत्स्थस्तेन सः स्मृतः । अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः” ॥ तथा च महाभारते १ । १ । २२९ । “पुरुः कुरुर्यदुः शूरो विश्वगश्वो महाद्युतिः । अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः” ॥) स्कन्धदेशस्थिते त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थ¦ पु॰ वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति स्था क। घुर-ञ्जया--ख्थे इक्ष्वाकुपुत्रशशादषुत्रे नृपभेदे। तन्नामनिरुक्ति-चरिते यथा
“इक्ष्वाकौ संस्थिते ताते शशादस्तामथावसत्। शशादस्य तु दायादः ककुत्स्थोनाम थीर्य्यवान। इन्द्रस्यवृषभूतस्य् ककुत्स्थोऽजयतासुरान्। पूर्वमाडीवके युद्वे कक-[Page1605-a+ 38] त्स्थस्तेन सः स्मृतः
“हरिवं॰

१० अ॰।
“शासदीजे हरिंयज्ञैः शशाद इति विश्रुतः। पुरञ्जयस्तस्य सुत इन्द्र-वाह्य इतीरितः। ककुत्स्थ इति चाप्युक्तः शृणु नामानिकर्मभिः। कृतान्त आसीत् समरोदेवान सह दानवैः। पार्ष्णिग्राहेवृतो वीरो देवैर्दैत्यपराजितैः। वचनाद्देवदेवस्यविष्णोर्विश्वात्मनः प्रभोः। वाहनत्वे वृतस्तस्य बभूवेन्द्रोमहावृषः। नमन्नथो धनुर्दिव्यमादाय विशिखान् शिता-न्। स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः। तेज-साप्यायितो विष्णोः पुरुषस्य परात्मनः। प्रतीच्यांदिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम्। तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम्। यमाय भल्लैरनयद्दैत्यान् येऽ-भिययुर्मृधे। तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्वणम्। विसृज्य दुद्रुवुर्दैत्याहन्यमानाःस्वमालयम्। जित्वा पुरंधनं सर्व्वमयच्छद्मज्रपाणये। प्रत्ययछत् स राजर्षिरितिनामभिराहुतः” भाग॰

९ ,

६ ,

११
“इक्ष्वाकुवंश्यः ककुदंनृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत्” रघुः। तस्यापत्यंशिवा॰ अण। काकुत्स्थ तदपत्ये।
“काकुत्स्थ ईषत्स्मयमान आस्त” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थ¦ m. (-स्थः) A prince, the grandson of IKSHWAKU, and ancestor of RAMA. E. ककुद् an emblem of royalty, and स्थ who resides.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुत्स्थ/ ककुत्-स्थ See. below.

ककुत्स्थ/ ककुत्--स्थ m. " standing on a hump " , N. of a son of शशादand grandson of इक्ष्वाकुMBh. Hariv. BhP. etc. (so called because in a battle he stood on the hump of इन्द्रwho had been changed into a bull ; according to the R. he is a son of भगीरथ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of शशाद; rode on Indra in the form of a bull in the आडीवक युद्ध। Father of Anenas. वा. ८८. २४-25; Br. III. ६३. २५; Vi. IV. 2. ३२-3.
(II)--a surname of Puramjaya (s.v.); a son of विकुक्षि; lust of, after more territory; eldest of ११४ ruling south of Meru. भा. IX. 6. १२; XII. 3. १०; M. १२. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAKUTSTHA : A son of Śaśāda, a King of the Ikṣvāku dynasty. He was the father of Anenas. (See under Kākutstha).


_______________________________
*4th word in left half of page 367 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ककुत्स्थ&oldid=427129" इत्यस्माद् प्रतिप्राप्तम्