ककुभः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ककुभः, पुं, (कस्य वातस्य कुः भूमिः स्थानं प्रकाश- रूपविशेष इति यावत् भात्यस्मात् । ककु + भा + कः । यद्वा कं वातं स्कुभ्नाति विस्तारयति । क + स्कुम्भ + कः + पृषोदरादित्वात् सलोपः ॥) अर्ज्जु- नवृक्षः । (यथा, चक्रपाणिदत्तकृतसंग्रहे ॥ “गोधूमककुभचूर्णं छागपयोगव्यसर्पिषा पक्वम् । मधुशर्करासमेतं समयति हृद्रोगमुद्धतं पुंसाम् ॥ मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत् । हृद्रोगश्वासकासघ्नं ककुभस्य च वल्कलम् ॥ रसायनं परं बल्यं वातजिन्मासयोजितम् । संवत्सरप्रयोगेन जीवेत् वर्षशतं नरः” ॥) वीणाङ्गम् । तत्पर्य्यायः । प्रसेवकः २ । इत्यमरः ॥ १ । ७ । ७ ॥ वीणाप्रान्तवक्रकाष्ठम् । दण्डाधःशब्द- गाम्भीर्य्यार्थंदारुमयं भाण्डं यच्चर्म्मणाच्छाद्य दीयते तत्रेत्यन्ये । वीणास्थितालावुफले इत्यपरे । इति भरतः ॥ रागविशेषः । इति मेदिनी ॥ (शिवः । यथा महाभारते १३ । शिवसहस्रनाम- कीर्त्तने १७ । १३० । “हर्य्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्” ॥)