कच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच रवे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं-- सेट् ।) कचति । रवः शब्दः । इति दुर्गादासः ॥

कच इ बन्धे । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां-- परं बन्धे सकं दीप्तौ अकं--इदित्--सेट् ।) इ कञ्चति । इति दुर्गादासः ॥

कच ङ बन्धे । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं बन्धे सकं दीप्तौ अकं--सेट् ।) ङ कञ्चते कचते । त्विट् दीप्तिः । इति दुर्गादासः ॥

कचः, पुं, (कचते शोभते शिरसीति । कच् + पचा- द्यच् । कच्यते बध्यते इति कच बन्धे + कर्म्मणि अप् वा ।) केशः । इत्यमरः ॥ २ । ६ । ९५ ॥ (यथा, महाभारते १ । १२८ । १९ ॥) “कचेषु च निगृह्यैतान् निविहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्” ॥) वृहस्पतिपुत्त्रः । (कचते दीप्यते तपस्तेजसेति कच् + दीप्तौ + पचाद्यच् । पुरा किल सुरासुर- संग्रामे असुराणां यानेव देवा निजघ्नस्तांश्चासुर- गुरुरुशनाः सञ्जीवनीविद्यया पुनर्जीवयामास । सुरगुरुर्वृहस्पतिः पुनस्तद्विद्यानभिज्ञतया सुरान् रणनिहतान् जीवयितुं न शशाक । तद्दर्शनभीता देवा गुरुपुत्रं कचमुपागम्य अर्थ्यामिर्वाग्मिः सन्तोष्य तं सञ्जीवनीलाभाय शुक्रसकाशं प्रेरया- मासुः । कचो ऽपि सुरकार्य्यसिद्धये गुरुत्वेनाङ्गी कृत्य नितरां भक्त्या परिचर्य्यया च काव्यं परितो- षयन् ब्रह्मचर्य्यमालम्ब्याधीतवान् । क्रूरप्रकृतयो दैत्याः खलु कचाभिसन्धिं विज्ञाय तं वारद्वयं निहत्यापि यदा पूर्णकामा नासन् तदा भूयोऽपि तन्मांसादिकं लवशः कृत्वा शुक्रमेव सुरयासह भोजयामासुः शुक्रस्तु स्वदुहितुर्देवयान्याः सस्नेह- निर्ब्बन्धांतिशयेन स्वोदरगतं कचं सञ्जीवनीविद्यां प्रदायाजीवयत् । ततः प्राप्तजीवः कृतार्थश्च कचो- ऽतीवहृष्टचित्तया देवयान्या पतित्वेन अनुरुद्धो- ऽपि सम्बन्धानुरोधात् नैव स्वीचकार । सुतरां क्रोधपरतन्त्रया तया निष्फलविद्यो भवेत्यभि- शप्तस्तेनापि त्वमपि क्षत्त्रियभार्य्या भविष्यसीति शप्ता देवयानी ॥ एतद्विवरणं सविस्तरं महाभार- तीयसम्भवपर्ब्बणि १ । ७६ अध्याये दर्शनीयम् ॥) बन्धः । शुष्कव्रणः । इति मेदिनी ॥ मेघः । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

2।6।95।2।4

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच¦ रवे भ्वा॰ पर॰ अक॰ सेट्। कचति अकचीत् अकाचीत्चकाच। प्रनिकचति।

कच¦ बन्धे सक॰ दीप्तौ अक॰ भ्वादि॰ पर॰ इदित् सेट्। कञ्चति अकञ्चीत् कचञ्च।

कच¦ बन्धे सक॰ दीप्तौ अक॰ भ्वादि॰ आत्म॰ सेट्। कचते अक-चिष्ट चकचे कचः।
“चचाम मधु माध्वीकं त्वक्त्रञ्चाचकचेवरम्” भट्टिः। कादित्वान्न णत्व प्रनिकचति।

कच¦ पु॰ कच--अच्।

१ केशे,

२ वृहस्पतिपुत्रे,

३ शुष् कव्रणे,

४ मेघे शब्दमा॰ हस्तिन्यां स्त्री॰ मेदिनी। भावे घ।

५ बन्धे

६ शोभायाञ्च। कचार्षचरितञ्च भा॰आ॰

७६ ,

७७ अ॰ यथा
“जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यन्तूशनसं परे। ब्राह्मणौतावुभौ नित्यमन्योन्यस्पर्द्धिनौ भृशम्। तत्र देवा निजघ्नु-र्यान् दानवान् युधि सङ्गतान्। तान् पुनर्जीवयामासकाव्यो विद्याबलाश्रयात्। ततस्ते पुनरुत्याय योधया-ञ्चक्रिरे सुरान्। असुरास्तु निजघ्नुर्यान् सुरान् सम-रमूर्द्धानि। न तान् संजीवयामास वृहस्पतिरुदा-रधीः। नहि वेद स तां विद्यां यां काव्यो वेत्ति वीर्य्य-वान्। सञ्जीवनीं ततो देवा विषादमगमन् परम्। ते तुदेवा भयोद्विग्नाः काव्यादुशनसस्तदा। ऊचुः कचमुपा-गम्य ज्येष्ठं पुत्रं वृहस्पतेः। भजमानान्मजस्वास्मान् कुरुनः साह्यमुत्तमम्। या सा विद्या निवसति ब्राह्मणेऽ-मिततेजसि। शुक्रे तामाहर क्षिप्रं भागभाङ्नो भवि-ष्यसि। वृषपर्व्वसमीपे हि शक्योद्रष्टुं त्वया द्विजः। रक्षते दानवांस्तत्र न स रक्षत्यदानवान्। तमारा-[Page1611-a+ 38] धयितुं शक्तो भवान् पूर्व्ववयाः कविम्। देवयानीञ्चदयितां सुतां तस्य महात्मनः त्वमाराधयितुं शक्तोनान्यः कश्चन विद्यते। शीलदाक्षिण्यमाधुर्य्यैराचारेण द-मेन च। देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसिध्रुवम्। तथेत्युक्त्वा ततः प्रायाद्वृहस्पतिसुतः कचः। तदाभिपूजितो देवैः समीपं वृषपर्व्वणः। स गत्वा त्व-रितो राजन्! देवैः सम्प्रेषितः कचः। असुरेन्द्रपुरे शुक्रंदृष्ट्वा वाक्यमुवाच ह। ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षात्वृहस्पतेः। नाम्ना कचमिति ख्यातं शिष्यं गृह्णातु मांभवान्। ब्रह्मचर्य्यं चरिष्यामि त्वय्यहं परमं गुरौ। अनु-मन्यस्व मां ब्रह्मन्! सहस्रं परिवत्सरान्। शुक्र उवाच। कच! सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्च्चयिष्ये-ऽहमर्च्च्यं त्वामर्च्चितोऽस्तु वृहस्पतिः। वैशम्पायन उवाचकचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्। आदिष्टंकविपुत्त्रेण शुक्रेणोशनसा स्वयम्। व्रतस्य प्राप्तकालंस यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवया-नीञ्च भारत!। नित्यमाराधयिष्यंस्तां युवायौवनगोचरे। गायन् नृत्यन् वादयंश्च देवयानीमतोषयत्। स शीलयन् देवयानीं कन्यां सम्प्राप्तयौवनाम्। पुष्पैः फलैःप्रेषणैश्च तोषयामास भारत!। देवयान्यपि तं विप्रंनियमव्रतधारिणम्। गायन्ती च ललन्ती च रहःपर्य्यचरत्तदा। पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्। गा रक्षन्तंवने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्व्वृहस्पतेर्द्वेषाद्वि-द्यारक्षार्थमेव च। हत्वा शालावृकेभ्यश्च प्रायच्छल्लवशःकृतम्। ततो गावो निवृत्तास्ता अगोपाः स्वन्निवेशनम्। ता दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्। उवाचवचनं काले देवयान्यथ भारत!। देवयान्युवाच। आहु-तञ्चाग्निहोत्रन्ते सूर्य्यश्चास्तङ्गतः प्रभो!। अगोपाश्चागतागावः कचस्तात! न दृश्यते। व्यक्तं हतो मृतो वापि कच-स्तात भविष्यति। तं विना न च जोवेयमिति सत्यंब्रवीमि ते। शुक्र उवाच। अयमेहीति संशब्द्य मृतंसंजीवयाम्यहम्। ततः सञ्जीवनीं विद्यां प्रयुज्य कच-माह्वयत्। आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया। हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया। स पुन-र्देवयान्योक्तः पुष्पाहारो यदृच्छया। वनं ययौ कचोविप्रोददृशुर्द्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्रा-म्भस्यमिश्रयन्। चिरं गत पुनः कन्या पित्रे तं सन्न्य-[Page1611-b+ 38] वेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा। ततस्तृतीयं हत्वा तंदग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन् व्राह्मणायैव सुरायामसुरास्तदा। देवयान्यथ भूयोऽपि पितरं वाक्यमव्रवीत्। पुष्पाहारः प्रेषणकृत् कचस्तात! न दृश्यते। शुक्र उवाच। वृहस्पतेः सुतः पुत्त्रि! कचः प्रेतगतिं गतः। विद्ययाजीवितीऽप्येवं हन्यते करवाणि किम्। भैवं शुचो मारूदो देवयानि! न त्वादृशी मर्त्यमनु प्रशोचेत्। यस्या-स्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च। सुरद्विषश्चैव जगच्च सर्व्वमुपस्थाने सन्नमन्ति प्रभावात्। अशक्योऽसौ जीवयितुं द्विजातिः सञ्जीवितो बध्यते चैव-भूयः। देवयान्युवाच। यस्याङ्गिरा वृद्धतमः पितामहोवृहस्पतिश्चापि पिता तपोनिधिः। ऋषेश्च पौत्त्रं तमथापि पुत्रं कथं न शोचेयमहं न रुद्याम्। स ब्रह्मचा-री च तपोधनश्च सदोत्थितः कर्म्मसु चैव दक्षः। कच-स्य मार्गंप्रतिपत्स्येन भोक्ष्ये प्रियो हि मे तात! कचोऽभ-रूपः। वैशम्पायन उबाच। स पीडितो देवयान्या म-हर्षिः ममाह्वयत् संरम्भाच्चैव काव्यः। असंशयं माम-सुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति। अब्राह्मणंकर्त्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि। अप्य-स्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्। गुरोर्मीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार। तमव्रवीत् केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र। कच उवाच। भवत्प्रसादान्न जहाति मां स्मृतिः स्मरामिसर्व्वं यच्च यथा च वृत्तम्। न त्वेवं स्यात्तपसः सङ्क्षयोमे क्लेशं ततो घोरमिमं सहामि। असुरैः सुरायां भवतो-ऽस्मिदत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य!। ब्राह्मींमा-यामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्त्तेत्। शुक्रउवाच। किन्ते प्रियं करवाण्यद्य वत्से! वधेन मे जीवितस्यात् कचस्य। नान्यत्र कुक्षेर्म्मम भेदनेन दृश्येत् कचोमद्गतो देवयानि!। देवयान्युवाच। द्वौ मां शोकावग्नि-तुल्यौ दहेतां कचस्य नाशस्तव चैवोपघातः। कचस्य नाशेमम नस्ति शर्म्म तवोपघाते जीवितुं नास्मि शक्ता। शुक्रउवाच। संसिद्धरूपोऽसि वृहस्पतेः सुत यत्वां भक्तं भजतेदेवयानी। विद्यामिमां प्राप्नुहि जीवनीं त्वं नचेदिन्द्रः कच-रूपी त्वमद्य। न निवर्त्तेत् पुनर्ज्जीवन् कश्चिदन्यो ममोद-रात्। ब्राह्मणं वर्ज्जयित्वैकं तस्माद्विद्यामवाप्नुहि। पुत्रोभूत्वाभावय भाबितो मामस्मद्देहादुपनिष्क्रम्य तात!। समी-[Page1612-a+ 38] क्षेथा धर्म्मवतीमवेक्षां गुरोः सकाशात् प्राप्य विद्यां स-विद्यः। वैशम्पायन उवाच। गुरोः सकाशात् समबाप्यविद्यां भित्त्वा कुक्षिं निर्व्विचक्राम विप्रः। कचोऽभिरूप-स्तत्क्षणं व्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः। दृष्ट्वा च तं पतितं व्रह्मराशिमुत्थापयामास मृतं कचो-ऽपि। विद्यां सिद्धां तामवाप्याभिवाद्य कचस्ततस्तं गुरु-मित्युवाच। यः श्रोत्रयोरमृतं स निषिञ्चेद्यो मे नवि-द्यस्य यथा ममायम्। तं मन्येऽहं पितरं मातरञ्चतस्मै न द्रुह्येत् कृतमस्य जानन्। ऋतस्य दातारमनु-त्तमस्य निधिं निधीनां चतुरन्वयानाम्। ये नाद्रियन्तेगुरुमर्च्चनीयं पापाल्लों कांस्ते व्रजन्त्यप्रतिष्ठाः। वैश-म्पायन उवाच। सुरापाणाद्वञ्चनां प्राप्य विद्वान् संज्ञा-वाशं चैव महातिघोरम्। दृष्ट्वा कचञ्चापि तथाभिरूपंपीतं तथा सुरया मोहितेन। समन्युरुत्थाय महानु-भावस्तदोशना विप्रहितं चिकीर्षुः। काव्यः स्वयं वाक्य-मिदं जगाद सुरापाणं प्रति वै जातशङ्कः। यो ब्राह्मणो-ऽद्यप्रभृतीह कश्चिन्मोहात् सुरां पास्यति मन्दवुद्धिः। अपेतधर्म्मो ब्रह्महा चैव स स्यादस्मिल्लों के गर्हितः स्यात्परे च। मया चेमां विप्रधर्म्मोक्तिसीमां मर्य्यादां वैस्थापितां सर्व्वलीके। सन्तो विप्राः शुश्रुवांसो गुरूणांदेवा लोकाश्चोपशृण्वन्तु सर्व्वे। इतीदमुक्त्वा स महानु-भावस्तपोनिधीनां निधिरप्रमेयः। तान् दानवान् दैव-विमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच। आचक्षे घो,दानवा वालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे। सञ्जीवनीं प्राप्य बिद्यां महार्थां तुल्यप्रभावो ब्राह्मणोब्रह्मभूतः। वैशम्पायन उवाच। एतावदुक्त्वा वचनंविरराम स भार्गवः। दानवा विस्मयाविष्टाः प्रययुः स्वंनिवेशनम्। गुरोरुष्य सकाशे तु दशवर्षशतानि सः। अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्। ( वैशम्पायन उवाच। समावृत्तव्रतं तन्तु विसृष्टं गु-रुणा तदा। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्। ऋषेरङ्गिरसः पौत्त्र! वृत्तेनाभिजनेन च। भ्राजसे वि-द्यया चैव तपसा च दमेन च। ऋषिर्यथाङ्गिरा मान्यःपितुर्म्मम महायशाः। तथा मान्यश्च पूज्यश्च मम भूयोवृहस्पतिः। एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपो-धन!। व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि। ससमावृत्तविद्यो मां भक्तां भजितुमर्हसि। गृहाण विधि-वत् पाणिं मम मन्त्रपुरस्कृतम्। कच उवाच। पूज्यो मा-[Page1612-b+ 38] न्यश्च भगवान् था तब पिता मम। तथा त्वमनवद्याङ्गि!पूजनीयतरा मस। प्राणेभ्योऽपि प्रियतरा भार्गवस्यमहात्मनः। त्वं भद्रे। धर्म्मतः पूज्या गुरुपुत्त्री सदामम। यथा मम गुरुर्न्नित्यं मान्यःशुकः पिता तव। देवयानि! तथैव त्वं नैवं मां वक्तुमर्हसि। देवयान्युवाच। गुरुपुत्त्रस्य पुत्त्रो वै ननु त्वमपि मे पितुः। तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम। असुरैर्हन्यमानेच कच! त्वयि पुनः पुनः। तदा प्रभृति या प्रीतिस्तांत्वमद्य स्मरस्व मे। सौहार्द्दे चानुरागे च वेत्थ मे भक्ति-मुत्तमाम्। न मामर्हसि धर्मज्ञ। त्यक्तुं भक्तामनागसम्। कच उवाच। अनियोज्ये नियोगे मां नियुनक्षि शुभ-व्रते!। प्रसीद सुभ्रु! त्वं मह्यं गुरोर्गुरुतरा शुभे!। यत्रो-षितं विशालाक्षि! त्वया चन्द्रनिभानने!। तत्राहमुषितोभद्रे! कुक्षौ काव्यस्य भाविनि!। भगिनी धर्मतो मे त्वंमैवं वोचः सुमध्यमे!। सुखमस्म्युषितो भद्रे न मन्यु-र्व्विद्यते मम। आपृच्छे त्वां गमिष्यामि शिवमाशंस मेपथि। अविरोधेन धर्मस्य स्मर्त्तव्योऽस्मि कथान्तरे। अप्र-मत्तोत्थिता नित्यमाराधय गुरुं मम। देवयान्युवाच। यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः। ततः कच!न ते विद्या सिद्धिमेषा गमिष्यति। कच उवाच। गुरु-पुत्त्रीति कृत्वाहं प्रत्याचक्षे न दोषतः। गुरुणा चाननु-ज्ञातः काममेवं शपस्व माम्। आर्षं धर्मं व्रुवाणोऽहंदेवयानि! यथा त्वया। शप्तो नार्होऽस्मि शापस्य काम-तोऽद्य न धर्मतः। तस्माद्भवत्या यः कामो न तथा सभविष्यति। ऋषिपुत्त्रो न ते कश्चिज्जातु पाणिं ग्रही-ष्यति। फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा। अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति। वैशम्पा-यन उवाच। एवमुक्त्वा द्विजश्रेष्ठो देवयार्नी कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच¦ r. 1st cl. (कचते)
1. To bind.
2. To shine.
3. To sound. (इ) कचि r. 1st cl. (कञ्चते)
1. To shine.
2. To bind; also काचि।

कच¦ m. (-चः)
1. The hair.
2. A proper name, the son of VRIHASPATI.
3. Binding or a binding.
4. A cicatrix, a dry or healed sore.
5. A cloud. f. (-चा)
1. A female elephant.
2. Beauty, brilliance. E. कच् to bind, &c. अच् affix, fem. टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचः [kacḥ], [कच्यन्ते बध्यन्ते इति कचः, कच्-अच्]

Hair (especially of the head); कचेषु च निगृह्यैतान् Mb.; see ˚ग्रह below; अलिनीजिष्णुः कचानां चयः Bh.1.5.

A dry or healed sore, scar.

A binding, band.

The hem of a garment.

A cloud.

N. of a son of Brihaspati. [In their long warfare with the demons, the gods were often times defeated, and rendered quite helpless. But such of the demons as would be slain in battle were restored to life by Śukrāchārya, their preceptor, by means of a mystic charm which he alone possessed. The gods resolved to secure, if possible, this charm for themselves, and induced Kacha to go to Śukrāchārya and learn it from him by becoming his disciple. So Kacha went to the preceptor, but the demons killed Kacha twice lest he should succeed in mastering the lore; but on both occasions he was restored to life by the sage at the intercession of Devayānī, his daughter, who had fallen in love with the youth. Thus discomfited the Asuras killed him a third time, burnt his body, and mixed his ashes with Śukra's wine; but Devayānī again begged her father to restore to life the youth. Not being able to resist his daughter's importunities, Śukra once more performed the charm, and, to his surprise, heard the voice of Kacha issuing from his own belly. To save his own life the sage taught him the muchcoveted charm, and, on the belly of Śukra being ripped open, Kacha performed the charm and restored his master to life. Devayānī thence forward began to make stronger advances of love to him, but he steadily resisted her proposals, telling her that she was to him as a younger sister. She thereupon cursed him that the great charm he had learnt would be powerless; he, in return, cursed her that she should be sought by no Brāhmaṇa, but would become a Kṣatriya's wife.]

चा A female elephant; करिण्यां तु कचा स्त्रियाम् । मेदिनी.

Beauty, splendour. -Comp. -अग्रम् curls, end of hair. -आचित a. having dishevelled hair; कचाचितौ विष्वगिवागजौ गजौ Ki.1.36. -आमोदः a. fragrant ointment of the hair (वाळा). -ग्रहः seizing the hair, seizing (one) by the hair; Mb.5.155.5; R.1.47, पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः R.19.31.

पः 'cloud drinker', grass.

a leaf. (-पम्) a vessel for vegetables. -पक्षः, -पाशः, -हस्तः thick or ornamented hair; (according to Ak. these three words denote a collection; पाशः, पक्षश्च हस्तश्च कलापार्थाः कचात्परे).-मालः smoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कच m. the hair ( esp. of the head) Ragh. Bhartr2. etc.

कच m. a cicatrix , a dry sore , scar L.

कच m. a band , the hem of a garment L.

कच m. a cloud L.

कच m. N. of a son of बृहस्पतिMBh. BhP. Ra1jat.

कच m. N. of a place

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of बृहस्पति; deputed by gods to learn सम्जीविनी विद्या from शुक्राचार्य; offered himself as a disciple and admitted as a pupil by शुक्र; conducted himself to the satisfaction of his teacher and his daughter देवयानी for a period of ५०० years. Once while out in the woods tending शुक्र's cows, the Asuras killed him and left his body to be devoured by dogs and jackals. The cows returned home but not Kaca. देवयानी suspected of foul play and reported his death. शुक्र brought him back to life. फलकम्:F1: M. २५. १४-37.फलकम्:/F On another occasion he went to the woods to gather flowers for देवयानी and this time the Asuras ground him to pieces and mixing them with सुरा offered it to शुक्र who drank it. Again देवयानी persisted wanting him back to life. This meant शुक्र's death for he had to come out by tearing open his belly. So he taught Kaca the सम्जीविनी विद्या so that he might restore him after his revival. Thus he did and so he learnt the विद्या। After a sojourn of ten hundred years he returned with due leave from his teacher. Now देवयानी offered to marry him but he pointed out that it was not proper to marry his preceptor's daughter. So [page१-299+ २५] she cursed that he would not get the fruits of his विद्या and he retorted that she would not find a ब्राह्मण husband but only a क्षत्रिय. Returned to the gods who gave him a share in their oblations; put to death by वृषपर्वन्'s men. फलकम्:F2: M. २५. ३८-69; chap. २६ whole; भा. IX. १८. २२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KACA : The first son of Bṛhaspati. That extremely beautiful boy was a great favourite of the devas.

1) Genealogy. Descending in order from Viṣṇu-- Brahmā--Aṅgiras--Bṛhaspati--Kaca.

2) How he studied the secret of Mṛtasañjīvanī. The Devas and Asuras always quarrelled with each other. Devas accepted Bṛhaspati as their guru and the asuras made Śukrācārya their guru. Śukrācārya knew an art which Bṛhaspati did not know, the secret of Mṛtasañ- jīvanī. When the devas cut the Asuras to pieces, Śukrācārya used to bring them back to life by his knowledge of Mṛtasañjīvanī. Mṛtasañjīvanī is the art of reviving the dead.

Devas were at a loss to know what to do. They wanted to learn the secret of Mṛtasañjīvanī from Śukrācārya somehow. It was imperative that they should learn it. Then they found out a way. They sent Kaca, son of Bṛhaspati, to Śukrācārya.

Kaca went to Śukrācārya and told him that he was the son of Bṛhaspati and had come to him to be his disciple for a period of a thousand years doing service to him. The modesty of the boy appealed to Śukrācārya and he accepted Kaca as his disciple.

Devayānī, daughter of Śukrācārya, fell in love with Kaca. They were always together as an inseparable couple. Asuras did not like the advent of Kaca to the Āśrama of Śukrācārya. They knew that he had come to study the secrets of the Asuras. Once Kaca went alone to look after the cows and the Asuras followed him stealthily. When Kaca entered deep into the forest the Asuras killed him and gave him to the wolves.

It became dusk. The cows returned to the Āśrama without the cowherd. Devayānī waited for a long time for Kaca to come. Not seeing him Devayānī went weeping to her father and said, “Oh, father, the sun has set. You have performed your nightly fire sacrifice. The cattle have come back by themselves and still Kaca has not returned home. I fear he is dead or has been killed. I cannot live without him.”

The affectionate Śukrācārya could not bear the sight of his dear daughter weeping and so he went to the forest with Devayānī and employing the art of Sañjīvanī he invoked the dead youth to appear. At once Kaca came back to life and stood before them. All the three then returned to the āśrama happily.

The anger of the Asuras against Kaca knew no bounds. On another occasion the Asuras seized him and after killing him pounded his body into a paste and mixed it up in sea-water. This time also, at the request of Devayānī, Śukrācārya brought him back to life.

The third time the Asuras burnt the body of Kaca and mixed the ashes in wine and served it to Śukrācārya to drink. The disciple thus went inside the belly of the guru. Dusk came, the cattle came and still Kaca did not return and Devayānī reported the matter to her father. Śukrācārya sat for some time in meditation and then he knew that Kaca was in his own stomach. If he got Kaca out, he would burst his stomach and Śukra would die and if he did not get him out his daughter would burst her heart and die. Śukrācārya was in a fix. He asked Kaca how he got in and he replied that it was through the wine. Śukra imparted to Kaca the art of Mṛtasañjīvanī and Kaca lying within the stomach repeated it. Then Śukrācārya called Kaca by name and Kaca came out bursting the stomach of his guru. The preceptor lay dead and by employing the art of Mṛtasañjīvanī he had learnt, Kaca brought his guru to life. Śukrācārya eschewed wine from that day onwards and declared it as a forbidden drink to brahmins. Śukrācārya said that because Kaca was reborn from his stomach he must be deemed his son.

3) Kaca was cursed. Kaca remained for some more time under the tutelage of Śukrācārya and when his education became complete he took leave of his preceptor and also Devayānī. Devayānī followed him for a long distance from the hermitage and requested him to marry her. Kaca replied he could not do so because he had become a brother to Devayānī. Devayānī got angry and cursed him saying that he would not be able to use the art of Mṛtasañjīvanī he had learnt from her father. Kaca cursed her back saying that none of the sons of sages would marry her. Kaca however felt relieved that though he would not be able to practise the art, his disciples would be able to do so. He went back to Devaloka and was heartily welcomed by all the Devas. He then imparted the art of Mṛtasañjīvanī to the devas. (Chapters 76 and 77, Ādi Parva, M.B.).

4) Kaca visits Bhīṣma. Kaca was also one among the several people who visited Bhīṣma while the latter was lying on a bed of arrows awaiting death. (Śloka 9, Chapter 47, Śānti Parva, M.B.).


_______________________________
*1st word in left half of page 362 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कच&oldid=494363" इत्यस्माद् प्रतिप्राप्तम्