कज्जल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज्जलम्, क्ली, (कु कुत्सितं जलं यस्मात् शुभ्रमपि जलं संयोगात् स्ववर्णत्वं नयतीति यावत् यद्वा कुत्सितं ऊर्द्ध्वगं चक्षुषोर्जलं दूरीभूतं भवत्यस्मात् । कोः कदादेशः ।) अञ्जनम् । इति हेमचन्द्रः ॥ काजल इति भाषा । तत्पर्य्यायः । लोचकः २ । इति त्रिकाण्डशेषः ॥ (“ततः साकारयद्भूरि चेटीभिः कुण्डकस्थितम् । कस्तूरिकादिसंयुक्तं कज्जलं तैलमिश्रितम्” ॥ इति कथासरित्सागरे । ४ । ४७ ॥ तथा, भाग- वते ६ । २ । २७ । “धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम्” ॥)

कज्जलः, पुं, (कत् कुत्सितं यथा तथा जालयति आच्छादयति आतपादिकं । यद्वा कुत्सितमपि लतागुल्मादिकञ्चेति यावत् जालयति जीवयति वर्षणेनेतिशेषः । कु + जल् + णिच् अच् ततो ह्रस्वः ।) मेघः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज्जल¦ न॰ कुत्सितं जलमस्मात् कोः कद्। अञ्जने(काजल) तस्य संयोगाच्छुभ्रमप्युदकमसितुं भवतीति तस्यतथात्वम् अञ्जनशब्दे

९४ पृ॰ विवृतिः।
“सकज्जलंताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनञ्च” सुश्रु॰।
“गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः” काव्यप्र॰।

२ लेखनसाधने द्रव्ये च (कालि)
“असित-गिरिनिभं स्यात् कज्जलं सिन्धुपात्रम्” पुष्पदन्तस्तवः। मेघेपु॰ शब्दमा॰ मत्स्यभेदेपुंस्त्री स्त्रियां गौ॰ ङीष्। शब्दर॰। कज्जलं जातमस्य इतच्। कज्जलित जातकज्जले त्रि॰। वमध्योऽपि एकाक्षरकोषेऽयं पठितः कज्जलमिवाचरतिकज्जल + क्विप् ततः अच् गौरा॰ ङीष्

५ भिश्रितरसगन्धकेस्त्री। स्वार्थे कन् तत्रार्थे
“शुद्धं सृतं तथा गन्धं खल्लेतावद् विमर्दयेत्। यावत् सूतं न दृश्येत किन्तु कज्जलवत्भवेत्। एषा कज्जलिका ख्याता वृंहणी वीर्य्यवर्द्धिनी। माभानुपानयोगेन सर्वव्याधिविनाशिनी” वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज्जल¦ m. (-लः)
1. A cloud. n. (-लं) Lampblack, considered as a colly- rium, being applied upon the eyelashes or eyelids, medicinally or ornamentatively; also sulphuret of lead or antimony, when so used. f. (-ली) Sulphuret of mercury, Æthiop's mineral. f. (-ला or -ली) A kind of flsh, (Cyprinus atratus,) or any kind peculiar to stagnant waters, whence the name. E. कत् for कुत् bad, and जल water or juice, as the moisture of the collyrium, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज्जलम् [kajjalam], [कुत्सितं जलमस्मात्प्रभवति, कोः कदादेशः]

Lampblack or soot, considered as a collyrium and applied to the eyelashes or eyelids medicinally, or sometimes as an ornament; यथा यथा चेयं चपला दीप्यते तथा तथा दीप- शिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति K.15; अद्यापि तां विधृत- कज्जललोलनेत्राम् Ch. P.15; ˚कालिमा Amaru.88.

Sulphuret of lead or antimony (used as a collyrium.)

(fig.) Dregs; धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् Bhāg.6. 2.27.

Ink. -ला (-ली) A kind of fish.

ली Sulphuret of mercury, æthiop's mineral.

Ink. -Comp. -ध्वजः a lamp. -रोचकः, -कम् the wooden stand on which a lamp is placed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कज्जल m. a cloud (in this sense perhaps for कद्-जल) L.

कज्जल f( आ, ई). a species of fish L.

कज्जल n. lampblack (used as a collyrium and applied to the eyelashes or eyelids medicinally or as an ornament)

कज्जल n. sulphuret of lead or antimony (similarly used) Sus3r. Katha1s. etc.

कज्जल n. ( fig. )dregs BhP. vi , 2 , 27.

"https://sa.wiktionary.org/w/index.php?title=कज्जल&oldid=494387" इत्यस्माद् प्रतिप्राप्तम्