कञ्चुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुकः, पुं, (कञ्चते आपुच्छात् सफणमुखपर्य्यन्तं अभितो दीप्यते प्रकाशते शोभते वा कञ्चते आवृणोति शत्रुनिक्षिप्तास्त्रादिनिवारणाय । कचि + बाहुलकादुकन् ।) सर्पत्वक् । सापेर खोलोस इति भाषा । तत्पर्य्यायः । निर्म्मोकः २ । (यथा पञ्चतन्त्रे । १ । ६९ । “भोगिनः कञ्चुकाविष्टाः कुटिला क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव” ॥) भटादेश्चोलाकृतिसन्नाहः । सा~जोया इति भाषा । तत्पर्य्यायः । वारबाणः २ वाणवारः ३ । इत्य- मरभरतौ ॥ (तथा हि रामायणे ६ । ९९ । २३ । “कञ्चुकोष्णीषिणस्तत्र वेत्रकर्कशपाणयः । उत्सारयन्तः सहसा समन्तात्परिचक्रमुः” ॥) चोलकम् । का~चलि इति भाषा । तत्पर्य्यायः । चोलः २ कञ्चुलिका ३ कूर्पासकः ४ अङ्गिका ५ । वर्द्धापकगृहीताङ्गस्थितवस्त्रम् । इति हेमचन्द्रः ॥ (यथाऽमरुशतके ८१ । “सख्यः किं करवाणि यान्ति शतधा यत् कञ्चुके सन्धयः” ॥) वस्त्रम् । इत्युणादिकोषः ॥ (यथा भागवते ८ । ७१५ । “देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्नग्वरकञ्चुकाननान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुक पुं।

सर्पत्वक्

समानार्थक:कञ्चुक,निर्मोक

1।8।9।3।1

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

पदार्थ-विभागः : अवयवः

कञ्चुक पुं।

चोलकादिसन्नाहः

समानार्थक:कञ्चुक,वारबाण

2।8।63।1।1

कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः। बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुक¦ पु॰ कचि--प्रीतिबन्धयोः वा॰ उकन्।

१ वारवाणे

२ यो-धादेश्चोलाकृतिसन्नाहे

३ लौहमये कवचे

४ सर्पनिर्म्मोके(खोलस) अमरः

४ चोलके (काचुलि)

५ वस्त्रमात्रे उणा॰ को॰

६ वर्द्धापकगृहीताङ्गस्थितवस्त्रे (पुत्रादेर्जन्मोत्सवे भृत्यादिभिःस्वामिनोऽङ्गात् यल त्कारेण गृहीते वस्त्रे) हेमच॰।

७ ओष-धीभेदे स्त्री गौरा॰ ङीष् मेदि॰।

८ क्षीरीशवृक्षे रत्नमा॰
“बलानि शूराश्च घनाश्च कञ्चुकाः
“घनसंवृतकञ्चुकः” क्व-चिदिवेन्द्रगजाजिनकञ्चुकः” माघः
“अन्तःकञ्चुकिकञ्चुकस्यविशति त्रासादयं वामनः” रत्ना॰।
“सख्यं किं करवाणि-यान्ति शतधा यत् कञ्चुके सन्धयः” अमरुश॰।
“सुभाषितरसास्वादजातरोमाञ्चकञ्चुकाः” पञ्चतन्त्रम्।
“कञ्चुकंतूलगर्भञ्चतूलिकां सूपवीतिकाम् काशी॰। सोऽस्य जातःतारका॰ इतच्। कञ्चुकित जातकञ्चुके त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुकः [kañcukḥ], 1 An armour, mail; घनाश्च कञ्चुकाः Śi.1.45. The skin of a snake, slough; भोगिनः कञ्चुकाविष्टाः Pt.1.65.

आस्तां स्वस्तिकलक्ष्म वक्षसि, तनौ नालोक्यते कञ्चुकः Nāg.5.17.

A dress, grab, cloth (in general); धर्म˚ प्रवेशिनः Ś.5; कपटधर्म˚ Dk.29.

A dress fitting close to the upper part of the body, robe; अन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः Ratn.2.3; सुभाषितरसास्वादजातरोमाञ्च- कञ्चुकम् Pt.2.1.68.

A bodice, jacket; क्वचिदिवेन्द्रगजाजिन- कञ्चुकाः Śi.6.51,12.2; Amaru.81; (Phrase: निन्दति कञ्चुककारं प्रायः शुष्कस्तनी नारी; cf. "a bad workman quarrels with his tools").

A kind of drawers or short breeches.

A strap of leather.

Husk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुक mf( ई)n. ( ifc. f( आ). )(fr. कञ्च्?)a dress fitting close to the upper part of the body , armour , mail

कञ्चुक mf( ई)n. a cuirass , corselet , bodice , jacket BhP. Page243,2 Ratna1v. Katha1s. etc.

कञ्चुक m. the skin of a snake Pan5cat.

कञ्चुक m. husk , shell Bhpr.

कञ्चुक m. cover , cloth , envelope Bhpr.

कञ्चुक m. ( fig. )a cover , disguise Hcat.

कञ्चुक m. = करभL.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुक पु.
छिलका, भूसी, मा.श्रौ.सू. 1.1.2.18 (पितृयज्ञ)।

"https://sa.wiktionary.org/w/index.php?title=कञ्चुक&oldid=494394" इत्यस्माद् प्रतिप्राप्तम्