कञ्चुकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुकः, पुं, (कञ्चते आपुच्छात् सफणमुखपर्य्यन्तं अभितो दीप्यते प्रकाशते शोभते वा कञ्चते आवृणोति शत्रुनिक्षिप्तास्त्रादिनिवारणाय । कचि + बाहुलकादुकन् ।) सर्पत्वक् । सापेर खोलोस इति भाषा । तत्पर्य्यायः । निर्म्मोकः २ । (यथा पञ्चतन्त्रे । १ । ६९ । “भोगिनः कञ्चुकाविष्टाः कुटिला क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव” ॥) भटादेश्चोलाकृतिसन्नाहः । सा~जोया इति भाषा । तत्पर्य्यायः । वारबाणः २ वाणवारः ३ । इत्य- मरभरतौ ॥ (तथा हि रामायणे ६ । ९९ । २३ । “कञ्चुकोष्णीषिणस्तत्र वेत्रकर्कशपाणयः । उत्सारयन्तः सहसा समन्तात्परिचक्रमुः” ॥) चोलकम् । का~चलि इति भाषा । तत्पर्य्यायः । चोलः २ कञ्चुलिका ३ कूर्पासकः ४ अङ्गिका ५ । वर्द्धापकगृहीताङ्गस्थितवस्त्रम् । इति हेमचन्द्रः ॥ (यथाऽमरुशतके ८१ । “सख्यः किं करवाणि यान्ति शतधा यत् कञ्चुके सन्धयः” ॥) वस्त्रम् । इत्युणादिकोषः ॥ (यथा भागवते ८ । ७१५ । “देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्नग्वरकञ्चुकाननान्” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कञ्चुकः [kañcukḥ], 1 An armour, mail; घनाश्च कञ्चुकाः Śi.1.45. The skin of a snake, slough; भोगिनः कञ्चुकाविष्टाः Pt.1.65.

आस्तां स्वस्तिकलक्ष्म वक्षसि, तनौ नालोक्यते कञ्चुकः Nāg.5.17.

A dress, grab, cloth (in general); धर्म˚ प्रवेशिनः Ś.5; कपटधर्म˚ Dk.29.

A dress fitting close to the upper part of the body, robe; अन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः Ratn.2.3; सुभाषितरसास्वादजातरोमाञ्च- कञ्चुकम् Pt.2.1.68.

A bodice, jacket; क्वचिदिवेन्द्रगजाजिन- कञ्चुकाः Śi.6.51,12.2; Amaru.81; (Phrase: निन्दति कञ्चुककारं प्रायः शुष्कस्तनी नारी; cf. "a bad workman quarrels with his tools").

A kind of drawers or short breeches.

A strap of leather.

Husk.

"https://sa.wiktionary.org/w/index.php?title=कञ्चुकः&oldid=256356" इत्यस्माद् प्रतिप्राप्तम्