कटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकः, पुं, क्ली, (कटति वर्षति अस्मिन् मेघ इति । अथवा कट्यते निर्गम्यते अस्मात् निर्झरिण्या- दिभिः “कृञादिभ्यः संज्ञायां वुन्” । ५ । ३५ । उणां इति वुन् ।) पर्ब्बतमध्यभागः । तत्पर्य्यायः । नितम्बः २ । इत्यमरः ॥ २ । ३ । ५ ॥ मेखला ३ इति भरतः ॥ (यथा रघुः । १६ । ३१ । “मार्गै- षिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना” ॥) वलयः । चक्रम् । इत्यमरः ॥ २ । ६ । १०७ । हस्तिदन्तमण्डनम् । सामुद्रलवणम् । राजधानी । इति मेदिनी ॥ नगरी । इति शब्दरत्नावली ॥ सेना । इति हेमचन्द्रः ॥ (यथा हितोपदेशे १ । ३३२ । “स च दिग्विजयक्र- मेणागत्य चन्द्रभागानदीतीरे समावेशितकटको वर्त्तते” ॥) सानुः । पर्ब्बतस्य समभूभागः । इति विश्वः ॥ (“गिरिकूटेषु दुर्गेषु नानाजनपदेषु च । जनाकीर्णेषु देशेषु कटकेषु परेषु च” ॥ इति महाभारतम् ४ । २४ । १२ ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटक पुं-नपुं।

मेखलाख्यपर्वतमध्यभागः

समानार्थक:कटक,कटक

2।3।5।1।1

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

कटक पुं-नपुं।

करवलयः

समानार्थक:आवापक,पारिहार्य,कटक,वलय,कम्बु

2।6।107।1।3

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्. केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥

पदार्थ-विभागः : आभरणम्

कटक पुं-नपुं।

चक्रम्

समानार्थक:चक्र,रथाङ्ग,कटक,अधिष्ठान,अक्ष

3।3।17।3।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

कटक पुं-नपुं।

मेखलाख्यपर्वतमध्यभागः

समानार्थक:कटक,कटक

3।3।17।3।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटक¦ अस्त्री कट-कृञादि॰ वुन् अर्द्धर्चादि।

१ हस्तभूषणं वलये,
“कटककुण्डलादिवत्” सा॰ द॰।

२ पर्वतमध्यभागे
“प्रफु-ल्लवृक्षैः कटकैरिव खैः” कुमा॰।
“मार्गेषिणी सा कट-कान्तरेसु” रघुः।
“सद्रत्नचित्रकटकासु पृहन्नितम्बाः” माघः।

३ चक्रे च अमरः।

४ हस्तिदन्तमण्डले।

५ सामुद्रलवणे

६ राजधान्यञ्च” मेदि॰।

७ नगर्व्याम् शब्दरत्ना

८ से-नासघे हेमच॰
“स च दिग्विजयक्रमेणागय चन्द्रभागातीरेसमावेशितकटको वर्त्तते
“अगाच्च कटक सर्वम” हितो॰

९ पर्वतसमभूभागे सानौ पिश्वः
“जलाकीर्ण्णोषु देशेषु[Page1619-a+ 38] कटकेषु परेषु च” भारते विराटपर्व्वणि

८७

२ श्लोकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटक¦ mn. (-कः-कं)
1. The side or ridge of a hill or mountain.
2. Table [Page148-b+ 60] land.
3. Sea-salt.
4. A ring placed as an ornament upon an ele- phant's tusk.
5. A bracelet of gold, shell, &c.
6. A zone.
7. A royal metropolis.
8. A city or town.
9. A village.
10. A house or dwelling.
11. A camp.
12. An army.
13. A circle.
14. A wheel. E. कट to encompass, कन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकः [kaṭakḥ] कम् [kam], कम् 1 A bracelet of gold; कटकाकृतिमुपमृद्य स्वस्तिकः क्रियन्ते Mbh. on I.1.1. आबद्धहेमकटकां रहसि स्मरामि Ch. P.15; Śi.16.77; कटकान्यूर्मिकाश्चापि चित्ररत्न- चयाङ्किताः Śiva. B.17.44.

A zone or girdle.

A string.

The link of a chain.

A mat.

seasalt.

The side or ridge of a mountain; प्रफुल्लवृक्षैः कटकैरिव स्वैः Ku.7.52; R.16.31.

Table-land; स्फटिककटकभूमिर्नाटयत्येष शैलः Śi.4.65.

An army, a camp; आकुल्यकारि कटकस्तुरगेण तूर्णम् Śi.5.59; Mu.5.

A royal capital or metropolis (राजधानी).

A house or dwelling.

A circle or wheel.

A ring placed as an ornament upon an elephant's tusk.

N. of the capital of Orissa. -Comp. -गृहः A lizard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटक m. (Comm. on Un2. ii , 32 and v , 35 )a twist of straw , a straw mat Comm. on Ka1tyS3r.

कटक mn. a string Ka1d.

कटक mn. a bracelet of gold or shell etc. S3ak. Mr2icch. etc.

कटक mn. a zone

कटक mn. the link of a chain

कटक mn. a ring serving for a bridle-bit Sus3r.

कटक mn. a ring placed as ornament upon an elephant's tusk

कटक mn. the side or ridge of a hill or mountain

कटक mn. a valley , dale Ragh. Katha1s. Hit.

कटक mn. a royal camp Katha1s. Hit. etc.

कटक mn. an army L.

कटक mn. a circle , wheel W.

कटक mn. a multitude , troop , caravan Das3.

कटक mn. collection , compilation Ka1d. 40 , 11

कटक mn. sea-salt L.

कटक mn. N. of the capital of the Orissa (Cuttack)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--विष्णु. Vi. IV. १५. १३.

"https://sa.wiktionary.org/w/index.php?title=कटक&oldid=494414" इत्यस्माद् प्रतिप्राप्तम्