कटकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकः, पुं, क्ली, (कटति वर्षति अस्मिन् मेघ इति । अथवा कट्यते निर्गम्यते अस्मात् निर्झरिण्या- दिभिः “कृञादिभ्यः संज्ञायां वुन्” । ५ । ३५ । उणां इति वुन् ।) पर्ब्बतमध्यभागः । तत्पर्य्यायः । नितम्बः २ । इत्यमरः ॥ २ । ३ । ५ ॥ मेखला ३ इति भरतः ॥ (यथा रघुः । १६ । ३१ । “मार्गै- षिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना” ॥) वलयः । चक्रम् । इत्यमरः ॥ २ । ६ । १०७ । हस्तिदन्तमण्डनम् । सामुद्रलवणम् । राजधानी । इति मेदिनी ॥ नगरी । इति शब्दरत्नावली ॥ सेना । इति हेमचन्द्रः ॥ (यथा हितोपदेशे १ । ३३२ । “स च दिग्विजयक्र- मेणागत्य चन्द्रभागानदीतीरे समावेशितकटको वर्त्तते” ॥) सानुः । पर्ब्बतस्य समभूभागः । इति विश्वः ॥ (“गिरिकूटेषु दुर्गेषु नानाजनपदेषु च । जनाकीर्णेषु देशेषु कटकेषु परेषु च” ॥ इति महाभारतम् ४ । २४ । १२ ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकः [kaṭakḥ] कम् [kam], कम् 1 A bracelet of gold; कटकाकृतिमुपमृद्य स्वस्तिकः क्रियन्ते Mbh. on I.1.1. आबद्धहेमकटकां रहसि स्मरामि Ch. P.15; Śi.16.77; कटकान्यूर्मिकाश्चापि चित्ररत्न- चयाङ्किताः Śiva. B.17.44.

A zone or girdle.

A string.

The link of a chain.

A mat.

seasalt.

The side or ridge of a mountain; प्रफुल्लवृक्षैः कटकैरिव स्वैः Ku.7.52; R.16.31.

Table-land; स्फटिककटकभूमिर्नाटयत्येष शैलः Śi.4.65.

An army, a camp; आकुल्यकारि कटकस्तुरगेण तूर्णम् Śi.5.59; Mu.5.

A royal capital or metropolis (राजधानी).

A house or dwelling.

A circle or wheel.

A ring placed as an ornament upon an elephant's tusk.

N. of the capital of Orissa. -Comp. -गृहः A lizard.

"https://sa.wiktionary.org/w/index.php?title=कटकः&oldid=256479" इत्यस्माद् प्रतिप्राप्तम्