कटु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटु, क्ली, (कटति सदाचारमावृणोतीति । कट् + उन् ।) अकार्य्यम् । इत्यमरः । ३ । ३ । ३५ ॥ दूषणम् । इति विश्वः ॥
कटुः, पुं, (कटति तीक्ष्णतया रसनां मुखं वा आवृणो- ति यद्वा कटति वर्षति चक्षुर्मुखनासादिभ्यो जलं स्रावयतीति । कट् + उन् । “कटिवटिभ्यां च” । उणां । १ । ९ ।) सविशेषः इत्यमरः । १ । ५ । ९ । झाल इति भाषा ॥ अस्य गुणाः कण्ठजदोषशोथमन्दाग्नि- श्वित्ररोगनाशित्वम् । अस्य बहुसेवने क्षयदातृ- त्वम् । वीर्य्यबलापहत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । आरोग्यपित्ताग्निवायुकारित्वम् । कृमि कण्डुविषरोगस्तनदुग्धमेदःस्थौल्यनाशित्वम् । लघु- त्वम् । अतिशयभक्षणे श्रमस्थैर्य्यतालुशोषातिदा- हकारित्वञ्च । इति राजवल्लभः ॥ (तथा चोक्तम् । भावप्रकाशे । “कटूरूक्षः स्तन्यमेदःश्लेष्मकण्डूविषापहः । वातपित्तकृदाग्नेयः शोषी पाचनरोचकृत्” ॥ अस्य लक्षणं यथाह वाभटः ॥ “उद्वेजयति जिह्वाग्रं कुर्व्वंश्चिमिचिमां कटुः । स्रावयत्यक्षिना सास्यं कपोलौ दहतीव च” ॥ गुणकर्म्माणि च यथा, तत्रैव । “कटुर्गलामयोदर्द्दकुष्ठालसकशोफजित् । व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः ॥ दीपनः पाचनो रुच्यः शोषणोऽन्नस्य कर्षणः । छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥ कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम् । मूर्च्छामाकुञ्चनं कम्पं कटीपृष्ठादिषु व्यथाम्” ॥ * ॥ कटुको रसो वक्त्रं शोधयति अग्निं दीपयति, भुक्तं शोधयति, घ्राणमास्रावयति, चक्षुर्विरेचयति, स्फुटोकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्द्धा- भिष्यन्द-स्नेह-श्वेद-क्लेदमलानुपहन्ति, रोचयत्य- शनं, कण्डूर्विनाशयति, व्रणानवसादयति, क्रिमीन् हिनन्ति, मांसं विलिखति, शोणितसङ्घातं भि- नत्ति, बन्धाच्छिनत्ति, मार्गान् विवृणोति, श्लेष्माणं शमयति, लघुरुष्णो रूक्षश्च ॥ स एवंगुणोऽप्येक- एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पौंस्त्व- मुपहन्ति, रसवीर्य्यप्रभावान्मोहयति, ग्लापयति, सादयति, कर्षयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति शरीरतापमुपजन- यति, बलं क्षिणोति, तृष्णां जनयति, वाष्वग्निबाहु- ल्याद् भ्रम-मद-दवथु-कम्प-तोद-भेदैश्चरण-भुज- पार्श्व-पृष्ठप्रभृतिषु मारुतजान् विकारानुपजन- यति ॥ इति चरकः ॥) चम्पकवृक्षः । इति शब्द- चन्द्रिका ॥ चीनकर्पूरः । पटोलः । कट्वीलता । इति राजनिर्घण्टः ॥
कटुः, स्त्री, (कट्यते कटुत्वेनास्वाद्यते इति । कट् + उ ।) कटुकी । इत्यमरः ॥ प्रियङ्गुवृक्षः । रा- जिका । इति विश्वमेदिन्यौ ॥
कटुः, त्रि, (कटति परलक्ष्मीदर्शनेन कृपणतां गच्छ- तीति । कट् + उः ।) मत्सरः । तीक्ष्णः । इत्यमरः । ३ । ३ । ३५ ॥ (यथा, महाभारते १ । पौष्यपर्ब्बणि ३ । ५५ । “क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकै- श्चक्षुष्युपहतोऽन्धो बभूव” ।) कटुरसयुक्तः । (यथा, भागवते । ३ । २६ । ४२ । “कषायो मधुरस्तिक्तः कठ्वम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते” ॥) सुगन्धिः । इति मेदिनी ॥ (यथा, रघुः । ५ । ४८ । “सप्तच्छदक्षीरकटुप्रवाह- मसह्यमाघ्राय मदं तदीयम्” ॥) अप्रियः । इति त्रिकाण्डशेषः ॥ (यथा, रघुः ६ । ८५ “इति समगुणयोगप्रीतयस्त त्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवब्रुः” ॥) दुर्गन्धः । इत्यमरटीकायां स्वामी ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटु पुं।
कटुरसः
समानार्थक:कटु,कटु
1।5।9।1।5
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥
पदार्थ-विभागः : , गुणः, रसः
कटु स्त्री।
कटुरोहिणी
समानार्थक:कटु,कटम्भरा,अशोकरोहिणी,कटुरोहिणी,मत्स्यपित्ता,कृष्णभेदी,चक्राङ्गी,शकुलादनी
2।4।85।2।1
एकाष्ठीला पापचेली प्राचीना वनतिक्तिका। कटुः कटम्भराशोकरोहिणी कटुरोहिणी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
कटु नपुं।
अकार्यम्
समानार्थक:कटु,कौपीन
3।3।35।2।1
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः। रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥
पदार्थ-विभागः : , शेषः
कटु पुं।
कटुरसः
समानार्थक:कटु,कटु
3।3।35।2।1
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः। रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥
पदार्थ-विभागः : , गुणः, रसः
कटु वि।
मत्सरः
समानार्थक:कटु
3।3।35।2।1
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः। रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥
पदार्थ-विभागः : , क्रिया
कटु वि।
तीक्ष्णम्
समानार्थक:कटु
3।3।35।2।1
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः। रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥
पदार्थ-विभागः : , शेषः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटु¦ न॰ कटति सदाचारमावृणोति रसनामावृणोति वर्षतिस्रावयति नासादितो जलम्, कट--उन्।
१ अकार्य्येअमरः
२ दूषणेविश्वः
३ रसभेदे (ज्झाल)
४ तद्वति अमरः त्रि॰। स्त्रियांवा ङीष्। तद्रसगुणाः भावप्र॰ उक्ताः
“कटुरुष्णश्च तीक्ष्णश्चविशदो वातपित्तकृत्। श्लेष्महृल्लघुराग्नेयः क्रिमिकण्डू-विषापहः। रूक्षस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः। अश्रुदो नासिकास्याक्षिजिह्वाग्रोद्वेजको मतः। दीपनःपाचनोरु च्योनासिकाशोषणो भृशम्। क्लेदमेदोवसा-मज्जाशकृन्मूत्रोपशोषणः। स्रोतःप्रकाशको रूक्षो मेध्यो[Page1622-b+ 38] वर्च्चोविबन्धकृत्। आग्नेयः अधिकाग्न्यंशः। मेध्यो मेधायैहितः। वर्च्चोविबन्धकृत् मलबन्धं करोति। अतियुक्तस्यकटुरसस्य गुणाः। सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठ-शोषकृत्। कण्ठादि पीडामूर्च्छान्तर्दाहदो बलकान्तिहृत्”। कटुरसस्याग्निजन्यपित्तकार्य्यत्वं सुश्रुते उक्तं यथा
“कट्व-म्नलवणा आग्नेया” इत्युपक्रम्य
“औष्ण्यतैक्ष्ण्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसःसोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौक्ष्यंलाघवाल्लाघवं वैशद्याद्वैशद्यमिति”। श्लेष्मोपक्रमेचीक्तं तत्रैव
“पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वात् माधुर्य्यमभिभवति रौक्ष्यात् स्ने-हम्, लाघवात् गौरवम् औष्ण्यात् शैत्यम्, वैशद्यात्पैच्छिल्यम्”।
५ परुषे च।
“श्रवणकटु निनादमे-कवाक्यं विवव्रुः” रघुः
“कण्ठमाकुण्ठयिष्यामि कटू-क्तिवचने पटुम्” नैषधम्। ( वाक्यस्य कटुत्वञ्च दुष्टार्थवाचकत्वम् रसविपरीत-वर्ण्णयुक्तत्वञ्च। तत्र रसभेदे वर्णभेदानां कटुत्वमकटुत्वञ्चसा॰ द॰ दर्शितम्। शृङ्गारकरुणशान्तेषु
“सूर्द्ध्नि-वर्गान्त्यवर्णेन युक्ताः टठडढान् विना। रणौ लघू च त-द्व्यक्तौ वर्णाः कारणतां गताः”। वीरबीभत्सरौद्रेषु तु
“वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्ण्णौ तदन्तिमौ। उपर्य्यधोद्वयो र्वा सरेफः टठडढैः सह। शकारश्च षकारश्च तस्यव्यञ्जकतां गताः”।
६ मत्सरिणि
७ सुगन्धौ त्रि॰ मेदि॰
“सप्तच्छदक्षीरकटुप्रवाहम्” रघुः। कटुः सुरभिः
“कटु-तिक्तकषायास्तु सौरभ्येऽपि प्रकीर्त्तिताः” यादवोक्तेः।
८ अप्रिये त्रिका॰।
९ दुर्गन्धौ शब्दमा॰। (कट्की)
१० कटुक्याम् स्त्री अमरः गुणवचनत्वात् वा ङीष् कट्वा।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटु¦ mfn. (-टुः-टुः or -ट्वी-टु)
1. Pungent.
2. Envious.
3. Fierce, impetuous, hot.
4. Fragrant.
5. Bad scented, ill smelling.
6. Displeasing, dis- agreeable. m. (-टुः)
1. Pungency or a pungent taste.
2. A flower, (Michelia champaca.)
3. Champhor.
4. A sort of gourd, (Trichosan- thes.) n. (-टु)
1. An improper action, an act which ought not to have been done.
2. Blaming, reviling, scandal. f. (-टुः)
1. The name of a medicinal plant; also कटुका and कटुकी।
2. A plant which bears a fragrant seed: see प्रियङ्गु।
3. Mustard. E. कट् to go, &c. and उ Unadi aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटु [kaṭu], a. (टु or ट्वी f.)
Pungent, acrid; (said of a rasa or flavour; the rasas are six; मधुर, कटु, अम्ल, तिक्त, कषाय, and लवण); कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकाभयप्रदाः ॥ Bg.17.9.
Fragrant, exhaling strong odour; सप्तच्छदक्षीरकटुप्रवाहम् R.5.48.
Ill-smelling, having a bad smell.
(a) Bitter. This sense is found qiven to the words कटु and कटुक in Prākrit and later sanskrit works; cf. अतिकटुः कारवेल्लादिः अतितीक्ष्णो मरिचादिः; अमृततरङ्गिणी on Bg.17.9,-नीलकण्ठ gives the same sense.
caustic (words); Y.3.142. (b) Disagreeable, unpleasant; श्रवणकटु नृपाणामेकवाक्यं विवव्रुः R.6.85.
Envious.
Hot, impetuous.
टुः Pungency, acerbity (one of the six flavours).
N. of several plants. -टुः f. A medical plant (कटुरोहिणी). -टु n.
An improper action.
Blaming, reviling, scandal.
Comp. अङ्गः the श्योनाक tree (Mar. टेटृ).
N. of the king Dilīpa.-उत्कटम् ginger. -उदरी N. of a plant (Mar. वाघांटी).
कन्दः, दम् ginger, the fresh root or the plant.
garlic. -कीटः, -कीटकः a gnat, mosquito. -क्वाणः the टिट्टिभ bird. -ग्रन्थिः, -थि n. dried ginger; so ˚भङ्गः, ˚भद्रम् dried ginger or ginger. -चातुर्जातकम् an aggregate of four pungent substances, as of cardamoms, the bark and leaves of Laurus Cassia and of black pepper.-छदः the तगर tree. -ज a. prepared from acid substances.
तिक्तकः the भूनिंब tree.
the शण tree. -तिक्ता = कटुतुम्बी. -तुम्बी a kind of bitter gourd. -तैलः White mustard; अभ्यङ्गः कटु तैलेन निर्वातस्थानबन्धनम् । Śālihotra of Bhoja 26. -त्रयम् a compound substance of ginger, black and long pepper. -दला = कर्कटी plant. -निष्प्लावः grain not inundated. (Mar. कडवा वाल).
पत्रः N. of a medicinal plant (Mar. पित्तपापडा).
सितार्जक tree.-पत्रिका N. of a tree कारी. -पाक, -पाकिन् a. producing acid humors in digestion. -फलः a sort of cucumber. (-ला) N. of two plants, पटोल and श्रीवल्ली -बीजा long pepper. -भङ्गः, -भद्रः Dry ginger. -मञ्जरिका the अपामार्ग tree. -मोदम् a certain perfume. -ख a. having a harsh sound.
(वः) a frog.
a harsh word or sound. -रोहिणी the कट्की plant. -विपाक a. producing acid humors in digestion -स्नेहः the mustard seed plant.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटु mf( वीand उस्)n. ( Un2. i , 9 ; See. 2. कृत्)pungent , acrid , sharp (one of the six kinds of flavour , रसSee. ) MBh. Sus3r. Bhag. etc.
कटु mf( वीand उस्)n. pungent , stimulating (as smell) , strong-scented , ill-smelling MBh. xiv Ragh. v , 48 R. etc.
कटु mf( वीand उस्)n. bitter , caustic (as words) displeasing , disagreeable (as sounds)
कटु mf( वीand उस्)n. fierce , impetuous , hot , envious Ragh. vi , 85 Pan5cat. etc.
कटु m. ( उस्)pungency , acerbity (as of a flavour) L. ; ([ cf. Lith. kartus , " bitter "])
कटु m. Trichosanthes Dioeca Sus3r.
कटु m. Michelia Campaka L.
कटु m. N. of several other plants L.
कटु m. a kind of camphor L.
कटु f( उस्and वी). N. of several plants
कटु n. ( उ)an improper action , an act which ought not to have been done
कटु n. blaming , reviling , scandal W.