सामग्री पर जाएँ

कठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठ इ कि आध्याने । उत्कण्ठापूर्ब्बकस्मरणे इति कविकल्पद्रुमः ॥ (चुरां--पक्षे भ्वां--परं--सकं--सेट्-- इदित् ।) इ कर्म्मणि कण्ठ्यते । कि कण्ठयति । आध्यानं स्मृ म औत्क्ये इत्यत्र व्याख्यातम् । इति दुर्गादासः ॥

कठ तङ्कने । तङ्कनं दुःखेन जीवनम् । इति कवि- कल्पद्रुमः ॥ (भ्वां--परं--अकं--सेट् ।) कठति दीनः । इति दुर्गादासः ॥

कठ इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं--सकं--सेट्--इदित् ।) इ कर्म्मणि कण्ठ्यते । ङ कर्त्तरि कण्ठते । “रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते” । इति दुर्गादासः ॥

कठः, पुं, (कठेन प्रोक्तमधीते यः । कठशाखां अभि- जानाति वा “कठचरकात् लुक्” । इति लुक् । ४ । ३ । १०७ ।) मुनिविशेषः । कठशाखाध्ययनकर्त्ता कठशाखाज्ञः । (यथा महाभारते । १ । पौलमे ८ । २४ । “उद्दालकः कठश्चैव श्वेतश्चैव महायशाः” ॥ ऋग्भेदः । स्वरः । (“कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे” ।) इति हेमचन्द्रः ॥ ब्राह्मणः । इति त्रिकाण्डशेषः ॥ (उपनिषद्विशेषः । यदुक्तं मुक्तिकोपनिषदि । “ईशा-केन-कठ-प्रश्न-मुण्ड-माण्डक्य-तित्तिरि” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठ¦ आध्याने (उत्कण्ठापूर्ब्बकस्मरणे) वा चुरा॰ उभ॰ पक्षेभ्वा॰ पर॰ सक॰ सेट् इदिंत्। कण्ठयति ते कण्ठति। अचकण्ठत् त अकण्ठीत्। कण्ठयां बमूव आस चकारचक्रे चकण्ठ--कण्ठितः कण्ठा।

कठ¦ कृच्छ्रजीवने भ्वादि॰ पर॰ अक॰ सेट्। कठति अकठीत्-अकाठीत्। चकाठ। कठरः कठेरः कठिनः कठोरः।

कठ¦ आध्याने (उत्कण्ठापूर्ब्बकस्मृतौ) इदित् भ्वा॰ कात्म॰ सक॰मेट्। प्रायेणो{??}तूर्व्यः उत्कण्ठते उदकण्ठिष्ट। उच्च-कण्ठे। उत्कण्ठितः उत्कण्ठा
“उत्कण्ठायां हृदि नकुरुते कारणानां सहस्रम्”।
“रेवाबोधसि वेतसीतरुतलेचेतः समुत्कण्ठते” काव्य॰ प्र॰।

कठ¦ पु॰ कठ--अच्।

१ मुनिविशेषे कठेन प्रोक्तमधीयते वैशा-न्वयानान्तेवासित्वात् णिनि तस्य
“कठचरकात् लुक्” पा॰लुक्।

२ तद्दृष्टशाखाध्यायिषु पु॰ ब॰ व॰। स्त्रियां तु वेदशाखावाचित्वेन जातित्वात् ङीष् कठी इत्येव।

३ ऋग्भेदे

४ स्वरभेदे च” हेम॰।
“बैशम्पायनान्तेवासिनश्च आल-म्बुलङ्ग कमल ऋचमारुणि ताण्ड्य श्यामायन कठ-कलापिन्” इति नव। कठशाखा च यजुर्व्वेद ऋग्वेदेचास्ति सैव ऋग्भेदः।
“देवसुम्नयोर्यजुषि काठके” इत्यस्यबा॰ सूत्रस्य व्याख्यायां सि॰ कौ॰
“यजुःशब्दोऽत्र न मन्त्र-मात्रपरः किन्तु वेदोपलक्षकः तेन ऋगात्मकेऽपि मन्त्रे यजु-र्वेदस्थे भवति किञ्च ऋग्वेदेऽपि भवति स चेन्मन्त्रो यजुषि-कठशाखायां दृष्टः यजुषिति किम्
“देवान् जिगाति सु-म्नुयुः”। बहॄचानामम्यस्ति कठशाखा ततोमवति प्रत्युदा[Page1625-b+ 38] हरणमिति हरदत्तः”।

३ मन्त्रेतरवेदभागरूपब्राह्मणे
“ईशाकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः इति उपनिषच्छब्देदर्शितसुक्तिकोपनिषद्वाक्ये कठेति निर्द्दोशात्। तच्चकठवल्लीत्वेन प्रसिद्धम्। सा च कृष्णयजुर्ब्राह्मणरूपा
“उशन् ह वै वाजश्रवसः” इत्याद्या। शब्दकल्पद्रुमेत्रिकाण्डशेषप्रमाणेन ब्राह्मण इति पुंलिङ्गनिर्द्देशेनविप्रपरतोक्तिश्चिन्त्या त्रिकाण्डशेषे व्राह्मणपर्य्याये ठान्तनानार्थे च कठशब्दस्यादर्शनात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठ¦ r. 1st cl. (कठति) To live in distress. (इ) कठि r. 1st and 10th cls. (कण्ठति-ते, कण्ठयति)
1. To grieve.
2. To recollect. With उद् prefixed, to regret or miss, to lament, to bewail.

कठ¦ m. (-ठः)
1. The name of a Muni or saint.
2. A note or simple sound.
3. A portion of the Yajur Veda.
4. A Mantra or mystical prayer.
5. A Brahman.
6. A Brahman versed in the Vedas, especi- ally in the Rig Veda.
7. A student of the same.
8. Trouble, dis- tress. f. (-ठी) The wife of a Brahman. E. कठ् to be confused, and अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठः [kaṭhḥ], 1 N. of a sage, pupil of Vaiśampāyana, teacher of that branch of Yajurveda which is called after him.

A Brāhmaṇa.

A note or simple sound.

A kind of ṛik. -ठाः The follower of that sage. के सव्रह्यचारिणोस्येति । कठाः । Mbh. on P.II.2.24.

ठी A female follower of Kaṭha. कठी वृन्दारिका कठवृन्दारिका Mbh. on P.VI.3.42.

The wife of a Brāhmaṇa.-Comp. -अध्यापकः a teacher of the Kaṭha branch of the Yajurveda. -उपनिषद् N. of an Upaniṣad (generally said to belong to अथर्ववेद). -कालापाः P.II. 4.3. Schools of कठ and कालाप; नन्दन्तु कठकालापाः वर्धन्तां कठकौथुमाः Mbh. on II.4.3. ये च मे कठकालापा बहवो दण्ड- माणवाः Rām.2.32.18. -धूर्तः a Brāhmaṇa well-versed in the कठ branch of the Yajurveda. -श्रोत्रियः P.V. 2.84. a Brāhmaṇa who has mastered the कठ branch of the Yajurveda.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठ (for 2. See. s.v. ) n. distress (?).

कठ m. N. of a sage (a pupil of वैशम्पायनand founder of a branch of the यजुर्-वेद, called after him) MBh. etc.

कठ m. a pupil or follower of कठ( esp. pl. )

कठ m. a Brahman L.

"https://sa.wiktionary.org/w/index.php?title=कठ&oldid=494485" इत्यस्माद् प्रतिप्राप्तम्