कण्डू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डूः, स्त्री (कण्डूय + सम्पदादित्वात् क्विप् अलोप- यलोपौ ।) रोगविशेषः । चुल्कनि खोस् इत्यादि भाषा । (यथा, भागवते । २ । ७ । १३ । “षष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्त्त कषाण कःण्डू” ॥) तत्पर्य्यायः । खर्ज्जुः २ कण्डूया ३ । इत्यमरः । २ । ६ । ५३ ॥ कण्डूति ४ । इति तट्टीका ॥ कण्टूय नम् ५ । इति राजनिर्घण्डः ॥ तच्चिकित्सा यथा, -- “दूर्ब्बानिशायुतो लेपः कण्डूपामविनाशनः । कृमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः ॥ १ ॥ हरिद्रायाः पलान्यष्टौ षट्पलं हविषस्तथा । क्षीराढकेन संयुक्तं खण्डस्यार्द्धशतं तथा ॥ पचेन्मृद्वग्निना वैद्यो भाजने मृण्मये दृढे । त्रिकटुत्रिजातकञ्चैव कृमिघ्नं त्रिवृता तथा ॥ त्रिफला केशरं मुस्तं लौहं प्रति पलं पलम् । संचूर्ण्य प्रक्षिपेत्तत्र कर्षमेकन्तु भक्षयेत् ॥ कण्डूविष्फोटदद्रूणां नाशनं परमौषधम् । प्रतप्तकाञ्चनाभासो देहो भवति नान्यथा ॥ शीतपित्तोदर्द्दकोठान् सप्ताहादेव नाशयेत् । हरिद्रानामतः खण्डः कण्डूनां परमौषधम्” ॥ इति हरिद्राखण्डः ॥ २ ॥ “अमृतवृषपटोलं मुस्तकं सप्तपर्ण खदिरमसितवेत्रं निम्बपत्रं हरिद्रे । विविधविषविसर्पान् कुष्ठविष्फोटकण्डू रपनयति मसूरीं शीतपित्तं ज्वरञ्च” ॥ इति अमृतादि ॥ ३ ॥ इति भैषज्यरत्नावली ॥ (“द्विधा ते कोठपिडका कण्डू गण्डान् प्रकुर्व्वते” । इति वाभटः ॥ * ॥ “चन्दननलदकृतमालनक्त- मालनिम्बकुटजसर्षपमधूकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति” ॥ इति चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डू स्त्री।

गात्रविर्घणः

समानार्थक:कण्डू,खर्जू,कण्डूया

2।6।53।2।1

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डू¦ गात्रविघर्षणे गृहीतकर्मकत्वेन अक॰ घर्षणमात्रेप्राण्यङ्गघर्षणमत्रोपाधिः सक॰ उभ॰ सेट्स्वार्थे यक्। कण्डूयति ते अकण्डूयीत् अकण्डूयिष्टकण्डूयाम्--बभूव--आस चकार चक्रे। कण्डूयनं क-ण्डूयितः कण्डूः कण्डूया कण्डूयन् कण्डूयमानः
“क-ण्डूयमानेन कटं कदाचित्” रघुः
“मृगीमकण्डूयतकृष्णसारः” कुमारः।
“न संहताम्यां पाणिभ्याम्कण्डूयेदात्यनः शिरः” मनुः
“शृङ्गे कृष्णमृगस्य वाम-नयनं कण्डूयमानां मृगीम्” शकु॰। कण्ड्वादिश्च धातुःप्रातिपदिकश्च
“धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि। आह घायमिमं दीर्घमन्यैतुर्विभाषितः” इत्युक्तेः। यकःकित्त्वकरणसामर्थ्यात् घातुत्वं प्रातिपदिकत्वे तत्करणंव्यर्थं स्यात् प्रातिपदिकस्य गुणाप्रसक्तेः दीर्घकरणाच्चप्रातिपदिकत्वम् आर्द्धधातुकयकारे धातोः दीर्घसम्भवेनदीर्घपाठो वृथा स्यात् अत उभयरूपत्वम्।

कण्डू¦ स्त्री कण्डूय--क्विप् अलोपयलोपौ सम्पदा॰क्विप्।

१ कण्डूयने गात्रघर्षणे (चुलकान)

२ तत्साधनरोगे(चुल्कुनी)
“कपोलकण्डूं करिभिर्विनेतुम्” कुमा॰।
“सकण्डूः पिडका श्यावा बहुस्वावा विचर्चिका” मावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डू¦ n. (ञ) कण्डूञ् Sautra root, (कण्डूयति-ते)
1. To itch.
2. To scratch.

कण्डू¦ f. (-ण्डूः)
1. The itch, itching.
2. Scratching. E. कण्डूञ् to itch, affix क्विप्; also with the final short, कण्डु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डू f. itching , the itch Sus3r. Kum. etc.

कण्डू f. scratching , S3a1ntis3. (See. स-कण्डूक.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--father of thousand snakes, moveable and immoveable having a number of heads, and flying in the air and having different names. वा. ६९. ६८.

"https://sa.wiktionary.org/w/index.php?title=कण्डू&oldid=494585" इत्यस्माद् प्रतिप्राप्तम्