कथक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथकः, त्रि, (कथयति यः । कथ + कर्त्तरि ण्वुल् ।) वक्ता । कथोपजीवी । नाटकवर्णनकर्त्ता । तत्प- र्य्यायः । एकनटः २ कथाप्राणः ३ । इति शब्द- रत्नावली ॥ (यथा महाभारते १ । २१५ । ३ । “कथकाश्चापरे राजन् श्रमणाश्च वनौकसः” ॥ ग्रन्थकर्तृविशेषः । (यथा, अनुमानचिन्तामणिः । “वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधि- रुद्भाव्यः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथक¦ त्रि॰ कथ--ण्वुल्।

१ वाचके

२ तत्त्वनिर्णयार्थं वाद-रूपकथाकर्त्तरि च कथकस्य कथायां नियमविशेषः ख-ण्डने दर्शितः यथा। (
“अथ कथायां वादिनोनियममेतादृशं मन्यन्ते प्रमाणा-दयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथ-काभ्यामभ्युपेयम् इति। तदपरे न क्षमन्ते। तथाहि प्रमा-ष्णादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः,? कितदनभ्युपगच्छद्धां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्य-नियतस्य तस्य प्रवर्त्तयितुमशक्यत्वात्

१ , उत कथकाभ्यां प्रव-र्त्तनीयवाग्व्यवहारं प्रति हेतुभावात्

२ , उतलोकसिद्ध-त्वात्

३ अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्ज-कत्वात्

४ । न त्तावदाद्यः वदनभ्युपगच्छतोऽपि चार्{??}कमा-[Page1636-a+ 38] यमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात्तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। सो-यमपूर्व्वः प्रमाणादिसत्त्वाभ्युपगमात्मा वाक्स्तम्भनमन्त्रोभवताभ्यूहितो नूनं यस्य प्रभावाद्भगवता सुरगुरुणा लोका-यतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नो-पदिष्टाः, भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यंनाभाषि। प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचो-प्तङ्ग्यः तास्तु साधनबाधनक्षमा न भवन्ति तावतेति ब्रूम-इति चेन्न प्रमाणाद्यनभ्युपगमप्रवर्त्तितत्वं तदीयसाधन-बाधनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षण-योगित्वमित्यवश्याभ्युपेयं भवता येनाभ्युपगम्यापि प्रमाणा-दीनि प्रवर्त्तिताः मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्र-माणादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरंस्तथाभूताइतिकथ्यन्ते। यदि त्वस्मद्वचसि सद्वचनाभासलक्षणं न भवान्दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवता प्रव-र्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्मा-कमादरः अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्तितोऽयंव्यवहारैत्येतावता भवदीयो व्यवहाराभास इत्यस्माभिरपिवक्तुं शक्यतएव। ननु यदि प्रमाणादीनि न सन्ति व्यव-हारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यवस्था वा कथंस्यात् सर्व्वविधिनिषेधानां प्रमाणाधीनत्वात्। मैवम्। न ब्रूमोवयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथार-भ्येति किन्नाम सन्ति न सन्ति वा प्रमाणादीनीत्यस्यांचिन्तायामुदासीनौ। यथा स्वीकृत्य तानि भवता व्यवह्रियतेतथा व्यवहारिभिरेव कथा प्रवर्त्त्यतामिति। अन्यथा नसन्ति प्रमाणादीनीति मतसस्माकमारोप्य यदिदम्भवतादूषणमुक्तं तदपि न वक्तुं शक्यं कीदृशीं मर्य्यादामालम्ब्यप्रवर्त्तितायां कथायां दूषणमुक्तं किं प्रमाणादीनां सत्त्व-मभ्युपगम्योभाभ्यां प्रवर्त्तितायां कथायां उतासत्त्वमभ्यु-वेत्यु अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य। न तावदाद्यःअभ्युपगतप्रमाणादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवका-शात् द्वितीये तु स्वतोऽप्यापत्तेः न तृतीयः तथैव कथान्त-रस्य प्रसक्तः उभयाभ्यपगमानुरोधित्वाच्च कथानियमस्य। अन्यथा स्वाभिप्रायमालम्ब्य तेनापि तद्वचसि यात्कञ्चि-द्वागात्मनि दूषणेऽभिहिते कस्य जयो व्यवतिष्टताम् प्रमा-णाद्यभ्युपगन्तुरेव यावन्नियमभरयन्त्रणा महती स्यात्। तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन व्यवहार-नियमे समयं बद्ध्वा कथायां प्रवर्त्तितायां भवतेदं दूषण-[Page1636-b+ 38] मुक्तं युक्तमेव तथा सति स्यात्। योऽयं भवान् स्वाभिप्रायमपि नावधारयितुं शक्तोऽतिदूरतस्तस्मिन् पराभिसन्धानावधारणप्रत्याशा। अथ वादीकृत्य दुर्वैतण्डिकं तस्मिन्बोधोऽभिधीयतैत्येव नेष्यते शिष्यादयस्तु तस्य कथानधि-कारं ज्ञाप्यन्ते अतएव भाष्यकारः
“स पयोजनमनुयुक्तो यदिप्रतिपद्यत” इत्याह स्मनतु प्रतिपद्यसैति। मैवम् शिष्यादीन्प्रत्यपि चार्व्वाकादेर्दोषोऽयमित्येवाभिधातव्यम्। कथञ्चतथास्यात् तस्य कथाप्रवेशाप्रवेशयोस्तद्बाधाक्षमत्वात्कथाया-मेव हि निग्रहः। नापि द्वितीयः तथाहि स्यादप्येवं यदिकथकप्रवर्त्तनीयवाग्व्यवहारं प्रति प्रमाणादीर्ना हेतुतातत्सत्त्वानभ्युपगमे निवर्त्तेत नचैवं सम्भवति तथासतितत्सत्त्वानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येतहेत्वनुपपत्तेः। उक्तश्चायमर्थो यन्माध्यमिकादिवाग्व्यव-हाराणां स्वरूपापलापो न शक्यत इति। अथ मन्यसेकथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीना सत्त्वंसत्त्वाच्चाभ्युपगमः यत्सत्तदभ्युपगम्यतैतिस्थितेरिति। मैवम् कयापि नियमस्थित्या प्रवृत्तायां कथायां कथक-वाग्व्यवहारं प्रति हेतुत्वात् प्रामाणादीनां सत्त्वं सत्त्वा-च्चाभ्युपगम भवता प्रसाध्यः कथनात्पूर्व्वं तत्तत्त्वावधारणंवा परपराजयं वा अभिलषद्भ्यां कथकाम्यां यावताविना तदभिलषितं न पर्य्यवस्यति तावदनुरोद्धव्यम् तच्चव्यवहारनियमस्यानुबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्य-तैति। व्यवहारनियमसमयमेव बध्नीतः सच प्रमाणेनतर्केण च व्यवहर्त्तव्योवादिना प्रतिवादिनापि कथाङ्गतत्त्व-ज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमं निग्रहस्थानं तस्यदर्शनीयम् तद्व्युत्पादने प्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथाद्वितीयस्यैव तादृशेतरौ च जेतृतया व्यवहर्त्तव्यौ, प्रामा-णिकः पक्षस्तात्त्विकतया व्यवहर्त्तव्यैतादिरूपः। अतएव वाग्व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः तथाच सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्त इतिप्रमाणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशंद्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यव-स्थाजयसूलत्वेन व्यवहारनिममस्य स्वेच्छयैव परिगृ-हीतत्वात्। नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूल-त्वान्मूलापरिशुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फल-विप्लवापत्तिः स्यात्। आविद्यविद्यभानानादिपारम्प-र्य्यायातस्य लोकव्युत्पत्तिगृहीतसंवादस्य च तस्यान्य-थाभावासम्भाव्यतालक्षणस्वतःसिद्धशुडत्वात्। न इ{??} प्रमा-[Page1637-a+ 38] आदीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्त्तुमुचिता तादृश-व्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः प्रमाणादिसत्ता-मभ्युपेत्यापि तथा व्यवहारनियमव्यतिरके कथाप्रवृत्तिंविना तर्त्त्वानर्णयस्य जयस्य वाऽभिलषितस्य कथकयोर-पर्य्यवसानान्। नापि तृतीयः लोकव्यवहारो हि प्रमा-णव्यवहारो वा स्यात् पामरादिसाघारणव्यवहारो बा। नाद्यः। विचारप्रवृत्तिमन्तरेण तस्य दुर्न्निरूपत्वात् तद-र्थमेव च पूर्व्वं नियमम्य गवेषणात्। नापि द्वितीयःशरीरात्मतादीनामपि तथा सति भवता स्वीकर्त्तव्यतापा-तात्। पश्चात्तद्विचारबाध्यतया नाभ्युपेयतैति चेत् तर्हिप्रमाणादयोऽपि यदि विचारबाध्या भविष्यन्ति तदा नाभ्यु-पेया एव अन्यथा तूपगन्तव्या इति लोकव्यवहारसिद्धतयासत्त्वमभ्युपगम्यतैति तावन्न भवति। नापि चतुर्थः यादृ-शोभवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथाया-मालम्ब्यते तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणीदासीनै-रस्माभिरप्यवलम्बनात्। तस्य यदि मां प्रति फलातिप्र-सञ्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः”। (
“वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्य” अनु॰ चि॰।

३ कथोपजीविनि नाटकाचार्य्ये कथाप्राणे। शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथक¦ mfn. (-कः-का-कं)
1. A narrator, a relator, one who recites a story, or who publicly reads and expounds the Puranas, &c.
2. One who speaks or tells. mf. (-कः-का) The speaker of a prologue or a mono- logue.
3. A professional story teller. E. कथ to speak, to relate, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथक [kathaka], a. [कथ्-ण्वुल्] A narrator, a relator.

कः A chief actor, speaker of a prologue.

A disputant.

A story-teller.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथक mfn. relating , reciting , S3a1ntis3.

कथक m. a narrator , relater , one who recites a story (or who publicly reads and expounds the पुराणs etc. ) , one who speaks or tells , a professional story-teller MBh. Katha1s. etc.

कथक m. the speaker of a prologue or monologue , chief actor L.

कथक m. N. of a man

कथक m. of a being in the retinue of स्कन्द.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KATHAKA : A soldier of Skanda. (Śloka 67, Chapter 45, Śalya Parva).


_______________________________
*8th word in right half of page 398 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कथक&oldid=494616" इत्यस्माद् प्रतिप्राप्तम्