सामग्री पर जाएँ

कथम्

विकिशब्दकोशः तः

सम्स्कृतम्

[सम्पाद्यताम्]
  • केन् मार्गेण

अनुवादाः

[सम्पाद्यताम्]

मलयालम्- എങ്ങിനെ എപ്രകാരം

आम्गलम्- how

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथम् व्य, कथम् । किंप्रकारम् । इति व्याकरणम् ॥ (यथा, मनः ५ । २ । “कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रंभो” ! ॥)

कथम्, व्य, (कस्मिन् प्रकारे इति प्रकारार्थे + “किमश्चेति” । ५ । ३ । २५ । थमुः कादेशश्च ।) हर्षः । गर्हा । प्रकारार्थः । सम्भ्रमः । प्रश्नः । सम्भावना । इति मेदिनी ॥ (यथा शाकुन्तले १ अङ्के “कथमिदानीमात्मानं निवेदयामि कथं वा आत्मापहारं करोमि” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथम्¦ अव्य॰ किम् + प्रकारार्थे थमु कादेशश्च। कस्मिन् प्रका-रेइत्यर्थे।
“सानुबन्धाः कथं न स्युः सम्पदोऽपि निरा-पदः” रघुः
“अवाप्यते वा कथमन्यथा द्वयं नथाविघं प्रेमपतिश्चतादृशः” कुमा॰
“कथं नु शक्योऽनुनयो महर्षेः” रघुः
“सा प्रक्रिया या कथमित्यपेक्षा” मीमा॰ तत्र
“कथमितीतिकर्त्तव्याकाङ्क्षा” कात्या॰

१ ,

२ ,

१८ सू॰ भा॰कर्कः। प्रसङ्गात् तत्र कुत्र कर्मणि कथमाकाङ्क्षोत्था-प्येतिकर्त्तव्यरूपाङ्गस्य्यपेक्षास्ति कुत्र वा नास्ति तदेतत्कात्यायनसूत्रभाष्ययोर्दर्शितमत्र प्रदर्श्यते।
“अथेदंविचा-र्यते द्विप्रकारं कर्म नित्यं काम्यं च तत्र नित्यं प्रकृत्येदंविचार्यते किं सर्वाङ्गोपेतं कर्त्तव्यम्? उत यावन्त्यङ्गानिकर्त्तुं शक्रोति तावद्भिरङ्गैरुपेतमिति? किं तावत् प्राप्तम्?सर्वाङ्गोपेतमेव कर्त्तव्यमिति कुतः? भावनांशस्य कथम्भावस्यसर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य फल-वत्त्वात् अन्यथा अङ्गाम्नानस्य वैयर्थ्यापत्तेः तस्मात्सर्वाङ्गोपेतमेव कर्त्तव्यमित्येवं प्राप्तआह।
“विगुणे फल-निर्वृत्तिरङ्गप्रधानभेदात्” कात्या॰

१ ,

२ ,

१८ , सू॰
“नित्यक-र्मणि अग्निहोत्रदर्शपूर्णमासादिके विगुणेऽपि अङ्गहोनेऽपिकृते फलनिर्वृत्तिः प्रत्यवायपरिहाररूपस्य फलस्य नि-ष्पत्तिर्भवत्येव अङ्गप्रधानभेदात् यतोऽङ्गानि च प्र-धानानि च भिन्नानि नित्येषु चेतिकर्त्तव्यता नास्ति। कुतइतिकर्त्तव्यता नास्ति? अपूर्वाभावात् अपूर्वप्रयुक्ता हीतिकर्त्तव्यता, सा च तस्मिन्नसति न भवितुमर्हति कथम अपूर्वा-भावः? फलाभावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं क-ल्य्यम् तच्चासति फले कल्पयितुं न शक्यते तस्मात् नित्येषुयागस्यैव भाव्यत्वम् न फलस्य। तस्मात् पौर्ण्णमास्याममावा-स्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतवदुपदिश्यते तेनदृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि यैर्विनाप्रधानभूतयागनिष्पत्तिर्न भवति, अन्यथानुपपत्त्या, ताव-द्भिरुपेतं प्रधानं कर्त्तव्यम् नाङ्गानि। अङ्गाम्लानि तु का-म्यप्रयोगार्थम्। अतोऽग्निकालपुरोडाशमात्रमादर-णीयम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति। कथंतर्हीदृशे निस्फले पुरुषस्यप्रवृत्तिः? इति चेत् उच्यते प्रत्य-[Page1638-a+ 38] वायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था, विहिताकरणाद्धिघ्रत्यवायः स्मर्यते। (मनुना)
“अकुर्वन्विहितं कर्म प्रायश्चि-त्तीयते नरः” इति अतोनित्यकर्मणी निष्फलत्वादपूर्वाभावादितिकर्त्तव्यता नास्तीति हीनाङ्गस्यैव घ्रयोगैति के-चित् सिद्धान्तमाहुः। तदेतन्नोपपद्यते कथम्? भावनातोहि तिस्र आकाङ्क्षा जायन्ते किं केन कथमिति, तत्र कथमितीतिकर्त्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मादत्राप्यस्तीतिकर्त्तव्यता। सत्यम्? अस्त्येवेहाप्याकाङ्क्षात्रयम् तथापिकिम् आकाङ्क्षायाः समानपदोपात्तेन यागेनैव पूरणात्त-न्निर्वृत्त्युपयोगिन्येवेतिकर्त्तव्यता कथमाकाङ्क्षया गृह्य-ते न त्वदृष्टोपयोगिप्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावा-दिति चेत् न यागस्य स्वतोऽपुरुबार्थत्वेन प्रवृत्त्यन्यथानु-पवत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्यप्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् ननु सर्वेषाम-भिमतः स्वर्गः किमिति न कल्प्यते? इति चेत् तस्य शरी-रारम्भहेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात्प्रत्यवायपरिहारस्तु तैरपीष्यत एव। कथम्? तस्मिन् पापेएतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सतितदुपभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभाबात्। अमोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहितफलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः। तस्मान्नित्या-नि कर्माणि पापक्षयस्योषायत्वेन नोद्यमानानीतिकर्त्तव्य-तामपेक्षन्त एव। धर्मशास्त्रेषु च यथैवाकरणे प्रत्य-वायः स्मृतः तथैव करणादपि पापक्षयः स्मर्थते (मनुना)
“पूर्वां सन्ध्यां जपंस्तिष्ठन् नैशमेनोव्यपोहति” इत्यादिभिः
“नित्यनैमित्तिकैरेव कुर्वाणीदुरितक्षयमिति” च। तस्मान्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम्। तस्मान्नित्यान्यपि कर्माणि सर्वाभिमतस्य पापक्षयस्योपाय-त्वेन नोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव। ततश्च सर्व्वा-ङ्क्षोपेतानामनुष्ठान कश्चिदपि सर्व्वदा कर्तुं नशक्नोति। जीवनादिनिमित्ते च तानि विवीयन्ते नि-मित्तस्य चैतदेव रूपं यत् तस्मिन् सति नैमित्तकमवश्यंकर्त्तव्यम् तेन यावज्जीवं कर्त्तव्यम् सर्वाङ्गोपेतं च क-र्त्तव्यमिति दुःशकमेव तेन यथा शक्नुयादित्युपपद्यतेतत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सति नैमित्तिकस्य कर्त्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्य चिद-ङ्गस्यानुरोधेन सति निमित्ते नैमिसिकं न क्रियेत ततःपबानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्या निमित्ते[Page1638-b+ 38] सति विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्तेअतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाश-क्त्युपसंहर्तव्यानि इतरथा प्रधानस्यावश्य कर्त्तव्यत्वं श्रुतंहीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथा शक्त्युपसंह-र्त्तव्यानि। नन्वेवं हीनाङ्गादपि प्रधानात् फलसिद्धेरभ्युपनमात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीति मैवम्शक्तस्व कामतोऽङ्गे त्यज्यमाने र्बगुण्यं स्यादेव। अङ्गोप-देशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानि कर्तुंशक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीति शास्त्रा-र्थोऽवधार्य्यते तावतैव शास्त्रवशात् फलनिष्पत्तिः इतिसाधूक्तम्
“विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदादिति”। एतच्च प्रयोगविध्यनुत्थाप्येष्वङ्गेषूच्यते यद्धि कुर्य्यादित्यु-च्यते तत् यथाशक्तीत्युपबध्यते। यानि तु खभावसिद्धानिविध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोके धनार्जनादि,वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपेणैवाधिकारिविशेषणत्वं द्रव्यवान् विद्यावानग्निमानिति। एतदुक्तंभवति अङ्गं हि विधिबलादुषादीयते निमित्तानुरोधाद्वात्यज्यते उभयानुग्रहार्थं वा शक्तं प्रत्युपादीयते अशक्तंप्रति त्यज्यते इति ना न्या गतिरस्ति तत्रोभयानुग्रहोयुक्तो{??}दि सम्भवति, सम्भवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन्सम्पादयेत् यथाशक्त्यवहन्यादिति आहवनीयादि स्वरूपंतु नानेन विधिनोपादीयते तस्मादग्निमान् विद्यावान्द्रववान् जीवंश्च यजेतेत्येवमाश्रीयते अतो विद्याग्निका-लाद्यपरित्यागेनान्येषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम्। तथा चोक्तम तन्त्ररत्ने
“यानि प्रयोनविधिना कर्त्तरुपादे-यत्वेनाङ्गानि नोद्यन्ते तेषामेव शक्तिपरिमितत्वम् यावन्तिशक्नुयात् तावन्ति कुर्य्यादिति यानि तु विध्यन्तरप्रयुक्तानिस्वयंसिद्ध्वानि वाङ्गत्वेन गृह्यन्ते तानि स्वरूपत एवाधिकारिविशेषणम् यथाग्न्यादीनि तेषामुपादानस्य प्रयोनविधिनानुपादनान्न यावदुक्तीत्युपबन्धः सम्भवति। किन्तुतदपेक्षोविधिस्तद्वन्तमेवाधिकरोति तेन सपस्त्रीकस्यार्वेयस्यव्याख्यातोपात्तसं ख्याविशिष्टस्याग्निमतो विद्यावतः पदो-षादिकालस योगिनोऽधिकारोनान्यस्येति। एवं चाप्रति-समाधेयाङ्गवैकल्येऽप्यग्न्यादिमानधिक्रियेतैव आधान तुन कुर्य्यात्तस्य नैमितिकत्वादिति” प्रायसित्तविधानाच्च” सू॰प्रायश्चित्तविधानादप्येवं ज्ञाप्यते यद्विगुणेऽपि फलनिर्वृ-त्तिर्भवतीति। यदि च विगुणात् फलं न स्यात्तर्हिप्रायश्चित्तं न विदधीत न हि निष्लस्याङ्गैः कृत्य-[Page1639-a+ 38] मस्ति अस्ति च विधानम् तस्माद्विगुणादपि फलं भव-तीति। येषां मते नित्येषु फलाभावेनापूर्व्वाभावात्तदर्थेतिकर्त्तव्यता नास्ति तेषां प्रायश्चित्तविधानमत्यन्तानुप-पन्नम्। सेतिकर्त्तव्यताके तु निमित्ते भेदने जाते वै-गुण्यात्तत्परिहारायापरं होमाख्यामङ्गं भिन्ने जुहोती-त्यादिकमुत्पन्नं सत् क्रियत एव पक्षान्तरे त्वसत्यामितिकर्त्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम् गुणहानिर्हिवैगुण्यम् असति गुणे कस्य हानिः स्यात् ततश्चास्मत्पक्षएव प्रायश्चित्तविधानमुपपन्नमिति।
“तथा च दृष्टम्” सू॰। नित्यं कर्म यथा कथञ्चित् श्रुताङ्गपरित्यागेनापि यथाशक्त्यङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौ दृष्टम्। तथा हि
“यत् पयो नस्यात् केन जुहुयात्” इति ब्रीहियवाभ्यामित्यादि
“न वा-इह तर्हि किञ्चचनासीदथैतदहूयतसत्यं श्रद्धया” इत्यन्तेनग्रन्थेन तथा
“तदैव यादृक्कीदृक् च होतव्यमिति” शाखा-न्तराच्च। तस्माद्विगुणेऽपि नित्य प्रत्यवायपरिहाररूपंफलं भवति अत एवोक्तं कर्काचार्य्यैः
“उपात्तदुरितक्षयोवा उत्पत्स्यमानदुरितप्रतिबन्धो वा भवत्येवेति”। अथ काम्ये कर्मणि चिन्त्यते। काम्येऽपि विगुणे फलाभिनिष्पत्तिर्भवत्येव। यतस्तत्राप्यङ्गानि प्रधानानि च भि-न्नानि। अश्वमेधे च काम्ये प्रायश्चित्तविधानमप्यस्तिअश्वं प्रकृत्य
“अथातः प्रायश्चित्तीनां यद्यश्वोबडवां स्क-न्देद्वायव्यं पयोऽनु निर्वपेदथ यदि स्रामो विन्देदित्यादितथा पञ्चशारदीयेऽपि
“उत्सृष्टान् पशून् प्रकृत्य ताण्ड्येप्रायश्चित्तविधानं दृश्यते
“अपोनप्त्रियोऽप्सुमृते” इत्या-दिकं यदि च विगुणादपि काम्यात् फलं न स्यात् प्रायश्चित्तविधानं व्यर्थमेव स्यात् तथा च दृष्टं विगुणमपि काम्यंफलोत्पादकं वेदे दृष्टम्। कारीरीमिष्टिं प्रकृत्य श्रूयत
“यदि वर्षेत्तावत्येव जुहुयादिति” अत्रासमाप्तायाम् एवकारीर्यां तत्फलं वृष्टिरूपं वेदे दृष्टम् अतो विगुणे-ऽपि काम्ये फलं सिध्यतीति पूर्ब्बपक्षिते सिद्धा-न्तमाह।
“न श्रुतिलक्षणत्वात्” सू॰। यदुक्तम् विगुणे-ऽपि काम्येफलं सिध्यतीति तन्न कुतः श्रुतिलक्षणत्वात्काम्यस्य, यतः काम्य सगुणमेव सर्व्वाङ्गोपेतमेव श्रुत्या-लक्षितम् फलसाधनत्वेन विहितम् तत्राङ्गलोपे काम्य-मानफलस्यानुत्पत्तेः तत्र प्रधानस्य त्यागे यथा फलंनास्ति एवमङ्गत्यागेऽप्रि, फलसाधनत्वं हि शास्त्रैकसम-धिगसंततो यदङ्गं प्रधानं धा यावच्छब्दोपात्तम्तस्य लोपेगाधनत्वं नास्ति अतो यदा सर्वाङ्गोपेतं कर्तुं शक्रोति[Page1639-b+ 38] तदेव तत्र प्रवर्त्तेत न तु यथाशक्ति। न हि तत्राङ्ग-त्यागे प्रमाणमस्ति प्रधानवाक्यम्, अत्यागेऽप्यविरोधात् नहि तस्यावश्यकत्वं केनचिदुक्तं यतः औदासीन्यं न लभ्येत। कामश्रुतिस्तु समर्थेऽपि वर्त्तमाना श्रुत्यर्थतां न जहातीतिनाङ्गत्यागे प्रभवति। निमित्तश्रुतिस्तु निमित्ते सत्याक्रियमाणे नैमित्तिके प्रोड्येतेति वैषम्यम्। अतोनिमित्तेसति नित्यस्यावश्यकर्त्तव्यत्वबलात् सर्व्वदा सर्व्वाङ्गोपेतस्यकेनापि कर्तुमशक्यत्वाद्यथा शक्नुयात्तथा कुर्य्यादित्येवंकल्यते काम्ये त्ववश्यकर्त्तव्यत्वाभावादेवं कल्पयितुं न श-क्यते अतः काम्यं विगुणं फलं न साधयत्ये वेति सिद्धम्” कथमा योगे गर्हायां
“विभाषा कथमि लिङ् च” पा॰। लिङ् चात् लट्।
“त्वंधर्मं त्यजेस्त्यजसि वा पक्षे काल-त्रयलकाराः। तत्र भविष्यति नित्यं ऌङ् भूते वेतिभेदः। कथं नाम तत्र भवान् धर्ममत्यक्ष्यत्” सि॰ कौ॰। गर्हायामित्यनुर्त्तनाभावे अगर्हायामपीति प्राञ्चः। तेन
“मनस्तुयं नोज्झति जातु यातु मनोरथः कण्ठपथं कथंसः” इत्यादौ अगर्हायामपि लिङ्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथम्¦ ind.
1. A particle of interrogation, (how, what.)
2. Also imply- ing mode, (how, in what manner.)
3. A particle of amazement or surprise.
4. Of pleasure.
5. Of abuse.
6. Of interrogation, implying doubt. E. किम् what, and थमु aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथम् [katham], ind. [किम्-प्रकारार्थे थमु कादेशश्च]

How, in what way, in what manner, whence; कथं मारात्मके त्वयि विश्वासः H.1; अथ स वैद्यः कथम् Mu.2 'well, how did the physician fare'; सानुबन्धाः कथं न स्युः संपदो मे निरापदः R.1.64,3.44; कथमात्मानं निवेदयामि कथं वा$$त्मापहारं करोमि Ś.1 (where the speaker is doubtful as to the propriety of what he says).

Oh what indeed ! (expressing surprise); कथं मामेवोद्दिशति Ś.6.

It is often connected with the particles इव, नाम, नु, वा, or स्वित् in the sense of, 'how indeed', 'how possibly', 'I should like to know', (where the question is generalized); कथं वा गम्यते U.3; कथं नामैतत् U.6.

When connected with the particles चित्, चन or अपि it means 'in every way', 'on any account', 'somehow', 'with great difficulty', 'with great efforts'; तस्य स्थित्वा कथमपि पुरः Me.3; कथमप्युन्नमितं न चुम्बितं तु Ś.3.24; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन Ms. 4.11,5.143; कथंचिदीशा मनसां बभूवुः Ku.3.34; कथं कथमपि उत्थितः Pt.1; विसृज्य कथमप्युमाम् Ku.6.3; Me.22; Amaru.12,39,5,73; Pt.1.

Scarcely, hardly; कथमपि भुवने$स्मिंस्तादृशाः संभवन्ति Māl.2.9. -Comp. -कथिकः an inquisitive person. -कारम् ind. in what manner, how; कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति Śi.2.52; कथंकारं भुङ्क्ते Sk; N.17.126. सो$हंकारं कथंकारं न करिष्यति मय्यरौ Śiva. B.15.17. -प्रमाण a. of what measure. -भावः what state. -भूत a.

how being.

of what nature or kind (oft. used by commentators). -रूप a. of what shape.-वीर्य a. of what power; Rām.3.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथम् ind. (fr. 2. क) , how? in what manner? whence?( e.g. कथम् एतत्, how is that? कथम् इदानीम्, how now? what is now to be done? कथम् मारा-त्मके त्वयि विश्वासः, how can there be reliance on thee of murderous mind? कथम् उत्सृज्य त्वां गच्छेयम्, how can I go away deserting you? कथम् बुद्ध्वा भविष्यति सा, how will she be when she awakes? कथम् मृत्युः, प्रभवति वेदविदाम्, whence is it that death has power over those that know the वेद? कथम् अवगम्यते, whence is it inferred?)

कथम् ind. sometimes कथम्merely introduces an interrogation( e.g. कथम् आत्मानं निवेदयामि कथं वा-त्मा-पहारं करोमि, shall I declare myself or shall I withdraw?) कथम्is often found in connection with the particles इव, नाम, नु, स्विद्, which appear to generalize the interrogation (how possibly? how indeed? etc. )

कथम् ind. with नुit is sometimes= किमु, or कुतस्( e.g. कत्कं नु, how much more! न कथं नु, how much less!) कथम्is often connected , like किम्, with the particles चन, चिद्, and अपि, which give an indefinite sense to the interrogative( e.g. कथं चन, in any way , some how ; scarcely , with difficulty ; न कथं चन, in no way at all ; कथंचित्, some how or other , by some means or other , in any way , with some difficulty , scarcely , in a moderate degree , a little ; न कथंचित्, not at all , in no way whatever ; न कथंचिद् न, in no way not i.e. most decidedly ; यथा कथंचित्, in any way whatsoever ; कथंचिद् यदि जीवति, it is with difficulty that he lives ; कथम् अपि, some how or other , with some difficulty , scarcely a little ; कथम् अपि न, by no means , not at all) RV. etc.

कथम् ind. according to lexicographers कथम्is a particle implying amazement

कथम् ind. surprise

कथम् ind. pleasure

कथम् ind. abuse.

"https://sa.wiktionary.org/w/index.php?title=कथम्&oldid=506634" इत्यस्माद् प्रतिप्राप्तम्