कदम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदम्बम्, क्ली, (“कृकदिकडिकटिभ्योऽम्बच्” । उणां । ४ । ८२ । इति कद् + अम्बच् ।) निकुरम्बम् । समूहः । इति मेदिनी ॥

कदम्बः, पुं, (कद्यते दर्शनात् विरहिणां चित्तवैक्लव्यं जायतेऽनेन । कद् + करणे अम्बच् ।) वृक्षविशेषः । कदम् इति भाषा । तत्पर्य्यायः । नीपः २ प्रियकः ३ हलिप्रियः ४ । इत्यमरः । २ । ४ । ८९ ॥ कादम्बः ५ । इति तट्टीका ॥ षट्पदेष्टः ६ प्रावृषेण्यः ७ हरि- प्रियः ८ । इति रत्नमाला ॥ वृत्तपुष्पः ९ भुरभिः १० ललनाप्रियः ११ कादम्बर्य्यः १२ सीधुपुष्पः १३ महाढ्यः १४ कर्णपूरकः १५ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । कषायत्वम् । वातपित्त- कफार्तिनाशित्वम् । शीतलत्वम् । शुक्रबर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (यथा भावप्रकाशे । “कदम्बो मधुरः शीतो कषायो लवणो गुरुः । सरो विष्टम्भकृद्रूक्षः कफस्तन्यानिलप्रदः” ॥ तथा च सुश्रुतः । “गरदोषहरनीपं प्राचीनामलकं तथा” ॥) अत्र नीपहलिप्रियौ धाराकदम्बवाचिनावपि कदम्बसाम्यात् पठितौ । यथा साञ्जः ॥ “नीपो महाकदम्बः स्याद्धाराकदम्ब इत्यपि । द्वितीयोऽल्पप्रसरश्च वृत्तपुष्पः कदम्बकः” ॥ इत्यस्य भेदः । तथा रत्नेऽपि । हारिद्रस्तु रजो बलः । यथामरटीकायां भरतः ॥ “धुलीकदम्बका धारा कदम्बः षट्पदप्रियः ॥ वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः । नीपो महाकदम्बोऽपि तथा बहुफलो मतः” ॥ (यथा, -- साहित्यदर्पणम् । “यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलि- तमालतीसुरभयः प्रौढाः कदम्बानिलाः” ॥ कविभिस्तु प्रायशो वर्षाकाले एव अस्य वर्णनं क्रियते । माघे रैवतकपर्व्वतवर्णने द्रष्टव्यम् ॥ * ॥) सर्षपः । इति मेदिनी ॥ देवताडकतृणम् । इति रत्नमाला ॥ (कं प्रजापत्यधिष्ठातृकं औपस्थेन्द्रियं दमयति इति व्युत्पत्त्या जितेन्द्रियतत्त्वज्ञानी । कदं कदनं विनाशं वाति गच्छति प्रलये इति शेषः । इति व्यत्पत्त्या जगत् । यथा, -- “स एव सौम्य नित्यं राजते मूले विश्व कदम्बस्य परमो वै पुरुष आत्मा” ॥ इति श्रुतौ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदम्ब पुं।

कदम्बः

समानार्थक:नीप,प्रियक,कदम्ब,हलिप्रिय

2।4।42।1।4

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदम्ब¦ पु॰ कद--करणे अम्वच्। दर्शनेन विरहिवैक्लव्यसा-धने (कदम) वृक्षे अमरः।
“एकद्वारे चतुश्चक्रं वनमा-लाविमूषितम्। कदम्बकुसुमाकारं लक्ष्मीनारायणं विदुः” शालग्रामलक्षणे पुरा॰।
“कदम्वमुकुलस्थूलैरभिवृष्टांप्रजाश्रुभिः” रघुः
“कदम्बमुकले द्वष्टिः समारोपिता” उद्भटः।
“कदम्बोमधुरः शीतः कषायो लवणो गुरुः। सरोविष्ट-म्भकृद्रूक्षः कफस्तन्यानिलप्रदः” मावप्र॰ तद्गुणा उक्ताः। तस्यभेदास्तत्रैव।
“नीपोमहाकदम्बः स्यात् धारा कदम्बइत्यपि। द्वितीयोऽल्पप्रसारश्च वृत्तपुष्पः कदम्बकः”। हा-रिद्रस्तुरजोवलः। धूलीकदम्बकोंधाराकदम्बः षट्पदप्रियः। वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः। नीपो महाक-दम्बोऽपि तथा बहुफलोमतः” इति भरतः। अत्र प्रावृषेण्यइत्युक्तिर्गौडादिदेशाभिष्रायेण मथुरादौचैत्रेऽपि तत्पुष्पा-णादामस्माभिःप्रत्यक्षती बहुशो दृष्टत्वात् अत एव
“यःकौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मी-लितमालतीसुरभयः प्रौढाः कदम्बानिला” काव्य-प्र॰ चैत्रमासे तत्पुष्पवर्णनमुपपद्यते। एतेन कदम्बपदंकेलिकदम्बपरमिति” सा॰ द॰ रामचरणव्याख्यानं मथु-रादिदेशानभिगमनसूचकम्। तेन देशभेदात्तस्य वसन्त-प्रावृडुभयभवत्वमिति ज्यायः। कविभिस्तु वर्घाकाले एवतद्वर्णनं क्रियते यथा माघे रैवतकपर्व्वतवर्णने। वर्षर्तु-वर्ण्णनमधिकृत्य
“विहगाः कदम्बसुरभाविह गाः कल-थन्त्यनुक्षणमनेकलयम्”। भ्रमयन्नुपैति मुहुरब्भ्रमयंपवनश्च धूतनवनीपवनः”। वर्षावर्ण्णने च तत्नैब
“अनवनीनवनीपवनीरभिः” तस्य च प्रावृण्यात्वादेवः” कदम्ब शूरणंतथैत्यादिना हरिशयने भोजननिषेधः। इति” त्वत्सम्पर्कात्पुलकितमि॰ प्रौढपुष्पैः कदम्बैः” मेघद्र॰ आषाढमधिकृत्यैव तद्ग्रन्थप्रणयनात्। इति तस्य प्रावेण्यत्वमपि। [Page1641-b+ 38] कदम्बवृक्षश्च मेरुविष्कम्भपर्वतरूपमन्दरम्य विशेषचिह्नवृक्ष-
“विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सु-पार्श्वः। तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवट-पिप्पलकाख्याः। सि॰ शि॰। अस्य सुमेरोः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदम्ब¦ m. (-म्बः)
1. A plant, commonly Kadamba (Nauclea kadamba.)
2. The mustard seed plant, (Sinapis dichotoma.)
3. A kind of grass, (Andropogon serratum:) see देवताडक।
4. Turmeric. n. (-म्बं) A multi- tude, an assemblage or collection. E. कद् to confound, &c. अम्बच Unadi affix; also with कन् added कदम्बक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदम्बः [kadambḥ] कदम्बकः [kadambakḥ], कदम्बकः [कद् करणे अम्बच् Tv.]

A kind of tree (Stephegyne Parviflora Korth] (said to put forth buds at the roaring of thunder-clouds); कतिपयकुसुमोद्गमः कदम्बः U.3.2,42; Māl.3.7; Me.25; R.12.99; मुक्त्वा कदम्ब-कुटजार्जुन-सर्ज-नीपान् Ṛs.3.13. The tree is common throughout India except in Konkan. Its fruit is hard and inedible.

A kind of grass.

Turmeric.

The mustard-seed plant.

A particular mineral substance.

Dust.

Fragrance; cf. कदम्बः पुंसि नीपे स्यात्तिनिशे वरुणद्रुमे । धूल्यां समूहे गन्धे च ... Nm. -म्बी N. of a plant (देवदाली). Ś.6; U.5.18. -म्बम् A multitude.

कम् A multitude, group; छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्य- स्यतु Ś.2.6.

The flower of the Kadamba tree; पृथुकदम्बकदम्बकराजितम् Ki.5.9.

A kind of grass (देवताड).

Comp. अनिलः a fragrant breeze (charged with the odour of Kadamba flowers); ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः K. P.1.

Autumn (वर्षर्तु); इदं कदम्बानिलभर्तुरत्यये Ki.4.24. -कारेकन्यायः see under न्याय. -पुष्पा, -ष्पी a plant the flowers of which resemble those of Kadamba. -ब्रह्ममण्डलम् (in Astro.) The polar circle of the ecliptic. -युद्धम् A kind of amorous play; Vātsyā. -वायुः a fragrant breeze; = ˚अनिल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदम्ब m. ( Un2. iv , 82 ) Nauclea Cadamba (a tree with orange-coloured fragrant blossoms) MBh. Sus3r. Megh. etc.

कदम्ब m. white mustard L.

कदम्ब m. Andropogon Serratus L.

कदम्ब m. turmeric L.

कदम्ब m. a particular mineral substance L.

कदम्ब m. a particular position of the hand

कदम्ब m. (in astron. ) the pole of the ecliptic Comm. on Su1ryas.

कदम्ब m. an arrow(See. कादम्ब) L.

कदम्ब m. N. of a dynasty

कदम्ब n. a multitude , assemblage , collection , troop , herd Gi1t. Sa1h. etc.

कदम्ब See. under 1. कद्.

"https://sa.wiktionary.org/w/index.php?title=कदम्ब&oldid=494642" इत्यस्माद् प्रतिप्राप्तम्