कदली

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदली, स्त्री, (कदल + गौरादित्वात् ङीष् । यद्वा काय जलाय दल्यते त्वगस्य गौरादित्वात् ङीष् ।) स्वनामप्रसिद्धौषधिविशेषः । कला इति भाषा । तत्पर्य्यायः । वारणवुसा २ रम्भा ३ मोचा ४ अंशुमत्फला ५ काष्ठीला ६ । इत्यमरः ॥ कदलः ७ वारणवुषा ८ वारवुषा ९ । इति तट्टीका ॥ सुफला १० सुकुमारा ११ सकृत्फला १२ गुच्छ- फला १३ हस्तिविषाणी १४ गुच्छदन्तिका १५ निःसारा १६ राजेष्टा १७ बालकप्रिया १८ ऊरु- स्तम्भा १९ भानुफला २० वनलक्ष्मीः २१ । कदलकः २२ मोचकः २३ रोचकः २४ लोचकः २५ वारवृषा २६ । इति शब्दरत्नावली ॥ वारणवल्लभा २७ चर्म्मण्वती २८ । इति जटाधरः ॥ (यथा, महा- भारते २ । दूतपर्ब्बणि ६६ । १२ । “कदलीशुण्डसदृशं सर्व्वलक्षणसंयुतम् । गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्” ॥) अस्याः पक्वफलगुणः । कषायत्वम् । मधुरत्वम् । शीतलत्वम् । पित्तास्रविमर्द्दनत्वम् । गुरुतरत्वम् । मन्दानले अपथ्यत्वम् । सद्यः शुक्रविबर्द्धनत्वम् । क्लमतृष्णाहरत्वम् । कान्तिदातृत्वम् । दीप्ताग्नौ सुखदत्वम् । कफामयकरत्वम् । सन्तर्पणत्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ (यथा हारीते । “हृद्यं मनोज्ञं कफवृद्धिकारि शीतञ्च सन्तर्पणमेव बल्यम् । रक्तं सपित्तं श्वसनञ्चदाहं रम्भाफलञ्चापि नरस्य हन्ति ॥ अपक्वकं ग्राहि च शीतलञ्च कषायकं वातकफं करोति । विष्टम्भि बल्यं गुरु दुर्ज्जरञ्च आरण्यरम्भाफलमेव तद्वत्” ॥) मोचकगुणाः । हृद्यत्वम् । कफकृमिनाशित्वम् । कुष्ठप्लीहज्वरहरत्वम् । अग्निदीपनत्वम् । वस्ति- शोधनत्वञ्च ॥ * ॥ (“मोचाफलं स्वादु शीतं विष्टम्भि कफनुद्गुरु । स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित् ॥ पक्वं स्वादु हिमं पाके स्वादु वृश्यञ्च वृंहणम् । क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत्” ॥ इति भावप्रकाशः ॥ कदली पुष्पगुणांश्चाह ॥ “कदल्याः कुसुमं स्निग्धं मधुरन्तुवरं गुरु । वातपित्तहरं शीतं रक्तपित्तक्षयप्रनुत्” ॥) अस्या मूलगुणाः । बलकारित्वम् । वातपित्त- नाशित्वम् । गुरुत्वञ्च ॥ * ॥ “माणिक्यमर्त्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति । उक्ता गुणास्तेष्वधिका भवन्ति निर्द्दोषता स्याल्लघुता च तेषाम्” ॥ इति राजनिर्घण्टः ॥ * ॥ चम्पकाख्यकदली- फलगुणाः । वातपित्तहरत्वम् । गुरुत्वम् । शुक्र- वृद्धिकारित्वम् । अतिशीतलत्वम् । रसे पाके मधुरत्वञ्च । दुग्धदधितक्रतालयुक्तं कदलं दुर्ज्जरम् । इति राजवल्लभः ॥ * ॥ हरिणविशेषः । पताका । इति मेदिनी ॥ करिवैजयन्ती । इति हंलायुधः ॥ हातिर उपरेर निशान इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदली स्त्री।

कदली

समानार्थक:कदली,वारणबुसा,रम्भा,मोचा,अंशुमत्फला,काष्ठीला

2।4।113।1।1

कदली वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कदली स्त्री।

अजिनजातीयमृगः

समानार्थक:कदली,कन्दली,चीन,चमूरु,प्रियक,समूरु,हरिण,अमी

2।5।9।1।1

कदली कन्दली चीनश्चमूरुप्रियकावपि। समूरुश्चेति हरिणा अमी अजिनयोनयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदली¦ स्त्री काय जलाय दल्यते त्वगादौ जलबाहुल्यात् गौरा॰ङीष्।

१ रम्भावृक्षे, अमरः। कदली गुणादि भावप्र॰उक्ता यथा।
“कदली वारणा मोचाम्बुसारांशुम-नीफला। मोचाफलं स्वादु शीतं विष्टम्भि कफनुद्-[Page1642-b+ 38] गुरु। स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित्। पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च वृंहणम्। क्षुत्तृष्णानेत्रगदहृन्मेहध्नं रुचिमांसकृत्। माणिक्यमूर्त्त्यामृत-चम्पकाद्या भेदाः कदल्याबहवोऽपि सन्ति। उक्ता गुणा-स्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम्”। रम्भायाश्च स्तम्भे जलाधिकयुक्तत्वात् शैत्याधिक्य-युक्तपत्रत्वाच्चतथात्वम्
“कदलो कदली करभः करमःकरिराजकरः करिराजकरः” प्रसन्नरा॰। अत्र द्वितीयकदलीपदम् शैत्यादिगुणयोगात् गौणमिति सा॰ द॰ सम-र्थितम्
“ऐकान्तशैत्यात्कदलीविशेषाः” कुमा॰।

२ वैजय-न्त्याम्कदल्याकारपत्ररूपवस्त्रवत्त्वात् तथात्वम् अत-एव माघे कदल्याः कामवैजयन्तीत्वेनौत्प्रेक्षणम् तदीया-कारसाम्यात् यथा।
“जगद्वशीकर्त्तुमिमाः स्मरस्य प्रभा-वनीके तमवै जयन्तीः। इत्यस्य तेने कदलीर्मधश्रीः प्र-वनी केतनवैजयन्ती” माघः।
“क्रीडाशैलः कनककदलावष्टनप्रेक्षणीयः”
“यास्यत्यूरुःसरसकदलीस्तम्भगौरश्चलत्वम्” मेघ॰। स्वार्थेकन् रम्भावृक्षादौ।
“अभ्युल्लसत्कदलिकावनरा-जिरुच्चैः” माघः।

३ हस्तिपताकायां हारा॰।
“कद-लिका कामकारिणः” काद॰।

४ मृगभेदे
“कदलीमृगमो-कानि कृष्णश्यामारुणानि च। काम्बोजः प्राहिणोत्तस्मैः” भा॰ स॰

४७ अ॰
“मोकानि अजिनानि” नीलक॰। तेनतस्य कम्बोजदेशस्थत्वं गम्यते तस्य च कदलीस्तम्भवदभ-ङ्गुरपादकत्वात्तथात्वम्। कदल्याः फलं पुष्पं वा अण्तस्य लुप् लुपि स्त्रीपरत्ययस्यापि लुक्। कदल तत्फलेन॰।
“पनसे कदलं कदले च घृतं घृते च लवण लवणे चदधि” वैद्यकम्।
“कदली लवनी धात्री” इत्यादौ तु उपचारात्तत्फलपरता। संघे खण्ड च। कदलीखण्डतत्संघे न॰।

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदली f. the plantain tree Bhpr.

कदली f. a kind of deer (the hide of which is used as a seat) MBh. Sus3r.

कदली f. a flag , banner , flag carried by an elephant L.

कदली f. (See. above ).

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. sacred to पितृस्. Once राम resided on her banks. M. २२. ५२.

"https://sa.wiktionary.org/w/index.php?title=कदली&oldid=494658" इत्यस्माद् पुनः प्राप्तिः