कनिष्ठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठः, त्रि, (अतिशयेन युवा अल्पो वा । इष्टन् । कनादेशश्च ।) अतियुवा । अल्पः । पश्चाज्जातः । तत्पर्य्यायः । जघन्यजः २ यवीयान् ३ अवरजः ४ अनुजः ५ । इत्यमरः । २ । ६ । ४३ ॥ कनीयान् ६ कन्यसः ७ यविष्ठः ८ । इति तट्टीकासारसुन्दरी ॥ (यथा, मनुः । ९ । ११३ । “ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्” ॥ शिवः । यथा, महाभारते । १३ । १७ । १३१ । “पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कनिष्ठः&oldid=123132" इत्यस्माद् प्रतिप्राप्तम्