कन्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्दम्, क्ली पुं, (कन्दयति जिह्वायाः वैक्लव्यं जनयति रोदयति वा भक्षयन्तं जनम् । कदि + णिच् + अच् । यद्वा कन्द्यते कन्द इति नाम्ना ज्ञायते । कदि + कर्म्मणि + घञ् ।) शूरणः । शस्यमूलम् । इति मेदिनी ॥ गृञ्जनम् । इति राजनिर्घण्टः ॥ (यथा, महाभारते १३ । १४ । ११९ ॥ “वने निवसतां नित्यं कन्दमूलफलाशिनाम्” ॥ यथा च, शान्तिशतके । २ । २० ।- “शीतं निर्झरवारिपानमशनं कन्दः सहाया मृगाः” ॥ शूरणशब्देऽस्य विशेषो ज्ञेयः ॥)
कन्दः, पुं, (कं जलं ददातीति । क + दा + कः । कन्दति कन्दयति कन्द्यते वा । कदि आह्वाने रो- दने च । अच् घञ् वा ।) मेघः । इति मेदिनी ॥ योनिरोगविशेषः । तस्य निदानलक्षणे । यथा, -- “दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ॥ पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् । उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” ॥ स चतुर्विधः । वातिकः १ पैत्तिकः २ श्लैष्मिकः ३ सान्निपातिकश्च ४ । एषां यथाक्रमं लक्षणानि । “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तम् ॥ नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः । सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः” ॥ इति भाधवकरः ॥ (अस्य चिकित्सामाह भाव- प्रकाशः ॥ “गौरिकाम्रास्थि जन्तुघ्रं रजन्यञ्जनकट्फलाः । पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः ॥ त्रिफलायाः कषायेण सक्षौद्रेण च सेवयेत् । प्रमदा योनिकन्देन व्याधिना परिमुच्यते” ॥ अन्यत्सर्व्वं योनिशव्दे द्रष्टव्यम् ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्द पुं।
सूरणः
समानार्थक:अर्शोघ्न,सूरण,कन्द
2।4।157।1।3
अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला। कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्द¦ पुं न॰ कन्दति कन्दयति कन्द्यते वा कदि--अच्--णिच्--अच्[Page1648-a+ 38] घञ् बा।
१ शूरण (ओल)
२ शस्यमात्रमूले,
३ गृञ्जनेच (गां जर)
४ मेधे पु॰ मेदि॰। मेघनामनामके
५ क-र्पूरे च पु॰
“कन्दमूलफलाशिनः” चातुर्मास्यव्रतविधिः
“कन्दोद्भेदा वैद्रुमा वारिणीव” माघः
“वने निवसतांतेषां कन्दमूलफलाशिनाम्” भा॰ अनु॰
४१ अ॰। कन्दभेदास्तेषां विशेषगुणाश्च सुश्रु॰ दर्शिताः यथा
“कन्दानतऊर्द्ध्वं वक्ष्यामः। विदारीकन्दशतावरीविसमृणालशृङ्गा-टककशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्खालु-करक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि। रक्तपित्तहराण्याहुः शीतानि मधुराणि च। गुरूणिबहुशुक्राणि स्तन्यवृद्धिकराणि च। मधुरी वृंहणो वृष्यःशीतः स्वर्य्योऽतिमूत्रलः। विदारीकन्दो बल्यस्तु पित्त-वातहरस्तु सः। वातपित्तहरी वृष्या स्वादुतिक्ता शता-वरी। महती चैव हृद्या च मेधाग्निबलवर्द्धिनी। ग्रह-ण्यर्शोविकारघ्नी वृष्या श्वेता रसायनी। कफपित्तहरा-स्तिक्तास्तस्या एवाङ्कुराः स्मृताः। अविदाहि विसम्प्रोक्तंरक्तपित्तप्रसादनम्। विष्टम्भि दुर्ज्जरं रूक्षं विरसं मारु-तावहम्। गुरुविष्टम्भिशीतौ च शृङ्गाटककशेरुकौ। पिण्डालुकं कफकरं गुरु वातप्रकोपणम्। सुरेन्द्रकन्दःश्लेष्मघ्नो विपाके कटुपित्तकृत्। वेणोः करीरा गुरवःकफमारुतकोपनाः। स्थूलशूरणमाणकप्रभृतयः कन्दाईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाःपित्तहराश्च। माणकं स्वादु शोतञ्च गुरु चापि प्रकीर्त्ति-तम्। स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा। कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः। कषायाःपित्तशमना विपाके मधुरा हिमाः। वाराहकन्दः श्ले-ष्मघ्नः कटुको रसपाकतः। मेहकुष्ठकृमिहरो बल्यो वृषोरसायनः”। भावप्र॰ उक्तगुणादि तत्तच्छब्दे दृश्यम्। माधवनिदानोक्ते
६ योनिरोगभेदे पु॰।
“दिवास्नप्नादतिक्रोधाद्व्यायामादतिमैथुनात्। क्षताच्च नखदन्ताद्यैर्वा-ताद्याः कुपितायदा। पूयशोणितसङ्काशोलकुचाकृति,सन्निभः। उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” स चतुर्विधः वातापत्तकफसन्निपातजभेदैः।
“रूक्षं विवर्णंस्फुटितं वातिकं तम् विनिर्द्दिशेत्। दाहरोगज्वरयुतंबिद्यात् पित्तात्मकन्तु तम्। नीलपुष्पप्रतोकाशं कण्डूमन्तंकफात्मकम्। सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः। सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्द¦ mn. (-न्दः-न्दं)
1. A bulbous or tuberous root.
2. One of an esculent sort, (Arum campanulatum.)
3. Garlic. m. (-न्दः)
1. A cloud.
2. An affection of the feminine organ, considered as a fleshy excrescence, but apparently prolapsus uteri. E. कदि to wet, &c. अच् affix, कं water, and दा to give.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्दः [kandḥ] दम् [dam], दम् 1 A bulbous root.
A bulb; किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः Bh.3.69; (fig. also); ज्ञानकन्द.
Garlic.
A knot, swelling.
An affection of the male or female organ.
दः A cloud.
Comphor.-Comp. -अशः An ascetic subsisting on roots; कन्दाशैस्त्रि- दशैश्च यत्पदरजो वन्द्यं मुकुन्दादिभिः । Chola Champu ed. by Dr. V. Raghavan (V.1, p.1). -मूलम् a radish. -संज्ञम् prolapsus uteri. -सारम् the garden of Indra.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्द mn. ( कन्Comm. on Un2. iv , 98 ), a bulbous or tuberous root , a bulb MBh. BhP. Sus3r. etc.
कन्द mn. the bulbous root of Amorphophallus Campanulatus L.
कन्द mn. garlic L.
कन्द mn. a lump , swelling , knot Sus3r. i , 258 , 9
कन्द mn. ([ cf. Gk. ? , ? ; O. H. G. hnUtr , hnUta])
कन्द mn. an affection of the female organ (considered as a fleshy excrescence , but apparently prolapsus uteri W. )
कन्द mn. N. of a metre (of four lines of thirteen syllables each)
कन्द mn. (in mus.) a kind of time