कन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दः, पुं, (कं जलं ददातीति । क + दा + कः । कन्दति कन्दयति कन्द्यते वा । कदि आह्वाने रो- दने च । अच् घञ् वा ।) मेघः । इति मेदिनी ॥ योनिरोगविशेषः । तस्य निदानलक्षणे । यथा, -- “दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ॥ पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् । उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” ॥ स चतुर्विधः । वातिकः १ पैत्तिकः २ श्लैष्मिकः ३ सान्निपातिकश्च ४ । एषां यथाक्रमं लक्षणानि । “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तम् ॥ नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः । सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः” ॥ इति भाधवकरः ॥ (अस्य चिकित्सामाह भाव- प्रकाशः ॥ “गौरिकाम्रास्थि जन्तुघ्रं रजन्यञ्जनकट्फलाः । पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः ॥ त्रिफलायाः कषायेण सक्षौद्रेण च सेवयेत् । प्रमदा योनिकन्देन व्याधिना परिमुच्यते” ॥ अन्यत्सर्व्वं योनिशव्दे द्रष्टव्यम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दः [kandḥ] दम् [dam], दम् 1 A bulbous root.

A bulb; किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः Bh.3.69; (fig. also); ज्ञानकन्द.

Garlic.

A knot, swelling.

An affection of the male or female organ.

दः A cloud.

Comphor.-Comp. -अशः An ascetic subsisting on roots; कन्दाशैस्त्रि- दशैश्च यत्पदरजो वन्द्यं मुकुन्दादिभिः । Chola Champu ed. by Dr. V. Raghavan (V.1, p.1). -मूलम् a radish. -संज्ञम् prolapsus uteri. -सारम् the garden of Indra.

"https://sa.wiktionary.org/w/index.php?title=कन्दः&oldid=259557" इत्यस्माद् प्रतिप्राप्तम्