कन्दर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दरम्, क्ली, (केन जलेन दीर्य्यते । दॄ + विदारे + कर्म्मणि अप् । कं जलं श्लेष्मजनितं दृणाति नाश- यतीति वा । दॄ + अच् ।) आर्द्रकम् । इति राज- निर्घण्टः ॥ (आर्द्रकशब्देऽस्य गुणादयो ज्ञेयाः ॥)

कन्दरः, पुं स्त्री, (केन जलेन द्रीर्य्यते विदीर्य्यतेऽसौ । दॄ + कर्म्मणि अप् ।) गुहा । इति मेदिनी ॥ “निह्रादीचेन्मुरज इव ते कन्दरेषु ध्वनिः स्थात्” । इति मेघदूते ५८ ॥) कृत्रिमोऽकत्रिमो वा सजलो निर्जलो वा गृहाकारो गिरिनितम्बदेशः । इति भरतः ॥ तत्पर्य्यायः । दरी २ कन्दरा ३ इत्यमरः । २ । ३ । ६ ॥ कन्दरी ४ । इति पञ्जिका ॥ दरः ५ । इति स्वामी ॥ (यथा, भागवते । ४ । ६ । ११ । “नानाऽमलप्रस्रवणैर्नानाकन्दरसानुभिः” ॥)

कन्दरः, पुं, (कं मातङ्गशिरो दीर्य्यतेऽनेन । दॄ + करणे अप् ।) अङ्कुशः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर स्त्री-पुं।

कृत्रिमगृहाकारगिरिविवरम्

समानार्थक:दरी,कन्दर

2।3।6।1।2

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर¦ न॰ कम् जलेन दीर्य्यते दृ--कर्म्मणि अप्।

१ आर्द्रके

२ अङ्गुरेच राजनि॰

३ गुहाकारे पर्वतनितम्बस्थाने पुंस्त्रीअमरः। स्त्रीत्वे गौरा॰ ङीष् स्वामी।

४ गुहायां स्त्रीठाट् अमरटीकान्तरम्
“निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात्” मेघ॰।
“विदूरगं प्रतिभयमस्य-कन्दरम्” माघः
“नानामलप्रस्रवणैर्नानाकन्दरसानुभिः” भाग॰

४ ,

६ ,

१० ,
“अग्न्यर्थमेव शरणमुटजंवाद्रिकन्दरम्” भाग॰

७ ,

१२ ,

१९ , कन्दस्य सन्निकृष्टदेशादि अश्मादि॰चतुरर्थ्यां र। कन्दर

५ कन्दसन्निकृष्टदेशादौ त्रि॰। कं गजशिरीदीर्य्यतेऽनेन करणे अप्।

६ अङ्गशे मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर¦ mfn. (-रः-रा or -री-रं)
1. An artificial or natural cave.
2. A glen, a defile, a valley. m. (-रः) A hook for driving an elephant with. n. (-रं) Dry ginger. E. कं water or the head, and दृ to divide, to pierce, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दरः [kandarḥ] रम् [ram], रम् A cave, a valley; नगमिव चारुकन्दरम् (अभिगम्य) Rām.5.7.15; किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः Bh.3.69; वसुधाधरकन्दराभिसर्पी V.1.18; Me.58. -रः A hook for driving an elephant. -रा, -री A cave, valley, hollow. -रम् Dry ginger. -Comp. -आकरः a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर mfn. ( कन्द्Comm. on Un2. iii , 131 ; कं, जलेन दीर्यतेT. ) , " great cliff " , an artificial or natural cave , glen , defile , valley R. Pan5cat. Megh. etc.

कन्दर m. a hook for driving an elephant L.

कन्दर m. N. of a mother in the retinue of स्कन्दMBh. BhP.

कन्दर n. ginger L.

"https://sa.wiktionary.org/w/index.php?title=कन्दर&oldid=494728" इत्यस्माद् प्रतिप्राप्तम्