कन्यादान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्यादानम्, क्ली, (कन्याया दानं वराय सम्प्रदानम् ।) वराय कन्यासम्प्रदानम् । तद्दानफलादि यथा । यम उवाच । “कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् । ब्रह्मदेयां द्विजश्रेष्ठ ! ब्रह्मलोकं व्रजन्ति ते ॥ कन्यादानन्तु सर्व्वेषां दानानामुत्तमं स्मृतम्” ॥ * ॥ तद्ग्रहणे दशकुलत्यागो यथा, -- “महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्जयेत् ॥ हीनज्ञातिषु पाषण्डे मुने उद्वेगकारिणाम् । छद्मामयसदावाच्यचित्रिकुष्ठिकुलानि च ॥ यस्यास्तु न भवेत् भ्राता न च विज्ञायते पिता । नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्म्मशङ्कया” ॥ * ॥ ततोऽष्टप्रकारविवाहानन्तरम् । “कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् । विवाहकाले संप्राप्ते यथोक्ते सदृशे वरे । क्रमात् क्रमं कतुशतमनुपूर्ब्बं लभन्ति ते ॥ श्रुत्वा कन्याप्रदानन्तु पितरः प्रपितामहाः । विमुक्ताः सर्व्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥ ब्राह्मेण तु विवाहेन यस्तु कन्यां प्रयच्छति । ब्रह्मलोकं व्रजेच्छीध्रं ब्रह्माद्यैः पूजितः सुरैः ॥ दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति । भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ॥ गान्धर्ब्बेण विवाहेन यस्तु कन्यां प्रयच्छति । गन्धर्ब्बलोकमासाद्य क्रीडते देववच्चिरम् ॥ शुल्केन दत्त्वा यः कन्यां तां पश्चात् सम्यगर्च्चयेत् । स किन्नरैश्च गन्धर्ब्बैः क्राडते कालमक्षयम् ॥ न मन्युं कारयेत्तासां पूज्याश्च सततं गृहे । ब्रह्मदेया विशेषेण ब्राह्मभोज्या सदा भवेत् ॥ कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते । अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥ अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥ महासत्वसमाकीर्णान्नास्ति ते नरकाद्भयम् । तीर्णस्त्वं सर्व्वदुः खेभ्यः परं स्वर्गमवाप्स्यसि ॥ दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा । यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्प्यते । भातापितुश्च विज्ञेयं तच्छुभस्याभिगामिनः । मातुः पितुर्हिरण्यस्य दौहित्रोऽर्द्धमवाप्नुते ॥ दत्त्वा कन्यां न शोचेत क्षुधितां मुदितां तथा । नग्नां दुःखाभिभूतां वा तथैव कृपणां कृशाम् । कुर्य्यान्मन्युं नचैवास्या आगताञ्चापि पोषयेत् ॥ यद्भूतमर्थयेत् किञ्चित् सर्व्वं तत् प्रतिपादयेत् । अप्रयच्छंन् पतेत् ब्रह्मन् ! नरके नात्र संशयः” ॥ * ॥ “शोचन्ति यामयो यत्र विनश्यत्याशु तत्कुलम् । न भुञ्जन्ति च यत्रैव निर्दहन्त्यप्रपूजिताः ॥ तस्मादेताः समभ्यर्च्च्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सुतयुक्तास्तु सर्व्वदा ॥ संतृप्ताः स्युस्तथा पूज्याः श्राद्धे चैवोत्सवेषु च । यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ इह कीर्त्तिर्भवेत् स्वर्गे परत्र द्विजसत्तम ! । तिलराशिः कृतो यावत् दिवाकरसमं कृतः ॥ वर्षान्ते गृह्यमानस्तु तिल एको भवेद् यदा । सोऽक्षयं लभते तावत् ब्रह्यलोकं सनातनम् ॥ शतगव्याः प्रमाणेन सुकृते रोमसञ्चये । विशीर्य्यते तु वा लोकं वर्षे पूर्णे सुताप्रदः । तावत् स्वर्गं लभेत् सोऽपि यावल्लोम्नश्च संक्षयः ॥ महीदातुश्च गोदातुः कन्यादातुस्त्रयो रथाः । कन्यादात्रनुगाः पश्चात्समं यान्ति त्रयो रथाः ॥ कन्यादानं दरिद्रस्य यो ददाति सुसत्कृतैः । पूर्ब्बं धर्म्ममवाप्नोति यथावत् विधिकल्पितम् । तस्मात्कन्या प्रयत्नेन दातव्या श्रेय इच्छता” ॥ इत्याद्ये वह्निपुराणे कन्यादाननामाध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्यादान¦ n. (-नं)
1. Giving a girl in marriage.
2. Receiving the same. E. कन्या, and दान gift, or आदान acceptance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्यादान/ कन्या--दान n. giving a girl in marriage Mn. iii , 35

कन्यादान/ कन्या--दान n. ( कन्या-दान, receiving a girl in marriage W. )

"https://sa.wiktionary.org/w/index.php?title=कन्यादान&oldid=494761" इत्यस्माद् प्रतिप्राप्तम्