कपालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालः, पुं, क्ली, (कं मस्तकं पालयतीति । क + पालि + अण् । यद्वा कम्पते यः । कपि चलने + “तमि विशिविडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्” । उणां १ । ११७ । इति कालन् । कपिनिर्देशाद् नलोपः ।) शिरोऽस्थि । माथार खुलि इति भाषा । तत्पर्य्यायः । कर्परः इत्यमरः । २ । ६ । ६८ ॥ (यथाह याज्ञबल्क्यः । ३ । ९० । “द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा” ॥) घटादेः खण्डम् । खापरा खोला इत्यादि भाषा ॥ (यथा, भाषापरिच्छेदे । ११ । “घटादीनां कपालादौ द्रव्येषु गुणकर्म्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” ॥) समूहः । इति मेदिनी ॥ (मृण्मयकर्परादिभि- क्षापात्रम् । यथा, मनुः । ६ । ४४ । “कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव सर्व्वस्मिन्नेतन्मुक्तस्य लक्षणम्” ॥) पुरोडाशः । यथा शतपथब्राह्मणे । “कपालानि चोपदधातिपुरोडाशं चाधिश्रयति” ॥) कुष्ठरोगविशेषः । इति हेमचन्द्रः ॥ तस्य लक्ष- णम् । यथा, माधवकरः ॥ “कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु । कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्” ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालः [kapālḥ] लम् [lam], लम् [कं शिरो जलं वा पालयति]

The skull, skull bone; चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयः Māl 1.2; रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः Bh.2.95.

A piece of a broken jar; potsherd; कपालेन भिक्षार्थी Ms.8.93.

A multitude, collection.

A beggar's bowl; Ms.6.44.

A cup, jar in general; पञ्चकपाल.

A cover or lid.

A treaty of peace on equal terms; H.4.17; Kām.9.2.

लम् The shell of an egg.

The cotyla of the leg of a man, any flat bone.

A kind of Leprosy. -ली A beggar's bowl [cf. L.caput; Gr. Kephale]. -Comp. -नलिका A sort of pin or spindle for winding cotton &c. -पाणिः, -भृत्, -मालिन्, -शिरस् m. epithet of Śiva; तपसा दिवमारूढाः कपालशिरसा सह Rām.2.54.31. -मालिनी N. of Durgā -संधिः a peace on equal terms. कपालसंधिर्विज्ञेयः केवलं समसंधितः H.4.11.

"https://sa.wiktionary.org/w/index.php?title=कपालः&oldid=260267" इत्यस्माद् प्रतिप्राप्तम्