कपिल

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिलः पुं, (कमु कान्तौ “कमेः पश्च” । उणां १ । ५६ । इलच् । पश्चान्तादेशः ।) मुनिविशेषः । स तु ज्ञानभक्तिसांख्ययोगप्रचारार्थभगवदतारः । कर्द्द- मप्रजापतेरौरसाद्देवहूतिगर्भजातः । इति श्री- भागवतम् ॥ (यथा गीतायां १० । २६ । “गन्धर्ब्बाणां चित्ररथः सिद्धानां कपिलो मुनिः” ॥ सगरराजसन्ततिष्वंसकारी रसातलस्थः कपिलो मुनिः केषाञ्चिन्मते साङ्ख्ययोगप्रचारकर्त्ता न । अयन्तु अपरः कश्चित् स्वनामख्यातो मुनिः । एतदर्थे प्रमाणं यथा, रघुः ३ । ५० । “अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः” ॥) अग्निः । कुक्कुरः । इति हेमचन्द्रः ॥ सिह्लकनाम- गन्धद्रव्यम् । इति रत्नमाला ॥ पिङ्गलवर्णः । तद्- युक्ते त्रि । इत्यमरः । १ । ५ । १६--१९ ॥ नीलपीतः । कपिलः । इति रभसः ॥ “कपिलो रोचनाच्छविरि- त्यन्ये” । इतिभरतः ॥ (यथा, महाभारते ३ । ३ । २४ । “अनन्तः कपिलो भानुः कामदः सर्व्वतोमुखः” ॥ महादेवः । यथा तत्रैव १३ । १७ । ९७ । “कपिलः कपिशः शुक्लः आयुश्चैव परोऽपरः” ॥ विष्णुः । यथा तत्रैव १३ । १४९ । १०९ । “सनात्सनातनतमः कपिलः कपिरव्ययः” ॥ नागविशेषः । यथा, हरिवंशे ३ । ११४ । “शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा” ॥ दानवभेदः । यथा तत्रैव ३ । ८२ । “अयोमुखः शम्बरश्च कपिलो वामनस्तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिल पुं।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

1।5।16।2।2

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिल¦ पु॰ कबृ वर्णे इलच् बस्य पश्च, अपि + सिध्मा॰ लच् वा। सांख्यशास्त्रप्रवर्त्तके

१ मुनिभेदे कर्द्दमप्रजापतेर्देवहूतिगर्भज-पुत्ररूपे

२ भगवदवतारभेदे।

३ वह्नौ

४ कुक्कुरे च हेम॰। (शिलारभ)

५ लिह्लके रत्नमा॰।

६ पिङ्गलवर्णे।

७ त-[Page1660-b+ 38] द्वति त्रि॰ अमरः। स च वर्णः नीलपीतमिश्रितवर्ण्ण इतिरभसः रोचनाच्छविरित्याथे। साङ्ख्यमतञ्च द्विविधं सेश्व-रनिरीश्वरभेदात् तत्र सेश्वरसांख्यशास्त्रं भगवदवतारःकपिलः प्रणीतवान्। निरीश्वरसांख्यन्तु अग्न्यवतारःकपिलः”
“अग्निः स कपिलो नाम सांख्यशास्त्रप्रवर्त्तकः” इति स्मृतेः। तत्र निरीश्वरसांख्यप्रवृत्त्यादि यथासां॰ का॰ उक्तं यथा
“पुरुषार्थ ज्ञानमिदं गुह्यम्परमर्षिणासमाख्यातम्। स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्। एतत्पवित्रभग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ। आसुरि-रपि पञ्चशिखाय तेन बहुधा कृतन्तन्त्रम्। शिष्यपर-म्परायातमीश्वरकृष्णेन चैतदार्य्याभिः। संक्षिप्तमार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम्। सप्तत्या किल येऽर्था-स्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य। आख्यायिकाविरहिताःपरवादविवर्ज्जिताश्चापि” विवृतञ्चैतदस्माभिः सा॰ त॰कौ॰ व्याख्योपक्रमे यथा
“अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इत्यादिक-सूत्रजातात्मकं षडध्यायीरूपं शास्त्रम् कपिलमुनिः आसु-रिनामानं मुनिमुपलक्ष्यीक{??}त्य प्रणिनाय तेनापि ततः श्रुत्वातदर्थानुगुणं संक्षिप्तमपरं शास्त्रं स्वशिष्याय पञ्चशिखायोप्रदिष्टमेवं लोके प्रचारमुपगतेऽस्मिन् शास्त्रे ईश्वरकृष्णेनविद्वद्वर्य्येणाख्यायिकापरवादनिराकणवर्जं षष्टिपदार्थीप्रति-पादनाय द्धासप्ततिरार्य्याः निर्म्मिताः। एतच्छास्त्रस्य तु
“सङ्क्यां प्रकुर्व्वते यस्मात् प्रकृतिं च प्रचक्षते। तत्त्वानिच चतुर्व्विंशत् तेन साङ्क्यं प्रकीर्त्तितम्” इति महाभा-रतवाक्यानुसारेण प्रकृतिपुरुषसम्यग्विवेकज्ञानरूप्रसङ्क्या-याः, प्रकृत्यादिचतुर्विंशतितत्त्वसङ्ख्यायाश्च प्रतिपादनात्साङ्ख्याशब्दाभिधेयता। तदिदं शास्त्रं चिकित्साशास्त्र-मिव चतुर्व्यूहम् यथा रोगः रोगनिदानं रोगनिवृत्त्युपायः रोगनिवृत्तिरित्येते पदार्थाः चिकित्साशास्त्रगताःएवं हेयं दुखं, तन्निदानं चित्तादि, तन्निवृत्त्युपायो विवेकसाक्षाल्कारः, दुःखनिवृत्तिश्चेत्येते पदार्थाः अत्र शास्त्रेप्राध्यान्येनोपदिष्टाः प्रसङ्गागताश्चान्ये। प्रछप्तेः साम्या-बस्थापन्नगुणतयात्मि कायाः सर्गभेदेऽप्येकत्वं, खर्गामवर्गरूप-प्रयोजनवत्त्वम्, परार्थतया प्रष्टत्तिमत्त्वञ्च, असङ्गस्य चेत-नस्य पुरुषस्य प्रकृतिकार्य्योभ्यो भेदः, अकर्तृखं जन्ममर-णादिव्यवस्यान्यथानुपपत्तेर्बहुत्वञ्च, प्रकृतेः पुरुषस्य चो-भयोः अस्तित्वं, संयोगः, वियोगश्च स्थूलसूक्ष्मभूतानांस्थितिरिव्येते दश प्रदार्थाः मौलिकाः।{??}नथा अविद्या-[Page1661-a+ 38] ऽस्मितारागद्वेषाभिनिवेशात्मकाः पञ्च विपर्य्ययाःइन्द्रियादीनां स्वस्वव्यापारेऽसामार्थ्यम्
“बाधिर्य्यं कुष्ठि-तान्धत्वं जडताऽजिघ्रता तथा। मूकता कौण्यपङ्गु-त्वं क्लैव्योदावर्त्तमन्दता”। इत्येकादशविधम्, नवधातुष्टयोऽष्टधा सिद्धयः तासां विपर्य्ययः सप्तदशधा इत्येवम-ष्टाविंशतिः नवधा तुष्टयोऽष्टौ सिद्धयैत्येवं षष्टिः पदा-र्थाः
“प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता। पारार्थ्यञ्चतथानैक्यं वियोगो योग एव च। शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश। विपर्य्ययः प्रञ्चविधस्तथोक्ता नवतुष्टयः। करणानामसामर्थ्यमष्टाविंशतिधा मतम्। इति षष्टिःपदार्थानामष्टाभिः सिद्धिभिः सह”। इति राजवार्त्ति-कोक्ता उपदिष्टाः। प्रकृतिपुरुषविवेकोपदेशायप्रवृत्त शास्त्रंप्रथमं चेतनाचेतनत्वेन पदार्थद्वैविध्यं सूचायाम्बभूब। तत्रचेतनाः पुरुषा जन्मादिव्यवस्थान्यथानुपपत्तेर्बहवः। प्रकृ-त्यादयः चतुर्विंशतिः पदार्थाः संहतपरार्थाः अचेतनाश्च। अचेतनाअपि प्रकृत्यादयः पुरुषस्य भोगापवर्गार्थंवत्सवृद्ध्यर्थं क्षीरमिव प्रवर्त्तन्ते। तत्प्रवृत्तौ च अनाद्य-विद्या मिथ्याज्ञानजन्यवासनासहकृता पुरुषेण संयोगंसम्पादयन्ती हेतुः। पुरुषसंयुक्ता च साम्यावस्थापन्नगुण-त्रयात्मिका प्रकृतिः महत्तत्त्वाकारेण परिणमते इदभि-त्थमेवेतिनिश्चयात्मकवृत्तिविशिष्टमन्तःकरणमेव महत्तत्त्वसं-ज्ञकम्। तच्च पुनः इदं मम अनेनाहं कार्य्यं निष्पादया-मीत्येवमहङ्कारात्मकवृत्तिविशिष्टान्तःकरणरूपाऽहङ्काराकारे-णपरिणमते। सोऽपि सूक्ष्मभूत् रूषशब्द तन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्रगन्धतन्मात्राकारेण परिणमते। ता-नि च श्रोत्रत्वङ्नयनरसनाजिह्वाख्य--पञ्चज्ञानेन्द्रिय--वाक्-पाणिपादपायूपस्थाख्य--पञ्चकर्म्मेन्द्रिय--सङ्कल्पबिकल्पात्मकवृ-त्तिकमनोरूपेण, आकाशवायुज्वलनजलभूमिरूपमहाभूता-कारेण च परिणमन्ते। तएते चतुर्विंशतिः पदार्थाः
“प्रकृतेर्महान्, महतोऽहङ्कारः, अहङ्कारात् पञ्च तन्मात्राणि,तन्मात्रेभ्य एकादशेन्द्रियाणि पञ्च भूतानि चेति” सूत्रोपदिष्टाः। तेभ्य एव च भौतिकब्रह्माण्डचतुर्विधप्राणि-देहादीनामुत्प{??}इः। प्रकृतिश्चैवं भूयोभूयः स्वव्यापारान्पुरुषाय दर्शथित्वा भूयोभूयो भुज्यमानेषु तेषु क्रमशःपुरुषस्य वैराग्यमुत्पाद्य आत्मात्मकार्य्येभ्यः पुरुषस्य विवे-कज्ञानं साधयित्वा च दृष्टात्मविवेकं पुरुषं प्रति स्वव्या-पारदर्शवेन कृतकृत्यतया निवर्त्तते। तन्निवृत्तौ च तत्का-र्य्यसकलपदार्थव्यापारनिवृत्तिरित्यतः सकार्य्यप्रकृति वृत्ति-[Page1661-b+ 38] निवारणाय प्रयत्नः कार्य्यः। तन्निवृत्तिश्च विवेकज्ञानसाध्याइत्येवं विवेकसाधनायेदं शास्त्रं प्रवृत्तम्। विवेकश्चयत् वस्तु यथास्थितम् तत्तथारूपेण ज्ञानम् तत्र पुरुषस्यनिःसङ्गतया क्रियाशून्यतया चापरिणामित्वेन कर्तृत्वा-भावात् प्रकृतिकार्य्यबुद्धिरेव कर्त्री कृतिसमानाधिकरण्येनैवतत्फलस्य सुखदुःखादेः तन्निष्ठतैव। पुरुषेतु प्रवानकार्य्य-बुद्धेश्चिदात्मनि प्रतिविम्बात् दुःखादेरपि पुरुषे प्रतिम्बनंतेन च पुरुष उपतप्यते, बुद्धेर्दुःखनिवृत्तौ च नैव तस्योप-ताप इत्यतः प्रतिविम्बरूपदुःखभोक्तृत्वेन आत्मानं जानन्पुरुष उपतप्यमान इव भवति। ततश्च प्रकृतेर्भिन्नतयातत्कार्य्यसुखादिशून्यतया ज्ञातः पुरुषः प्रतिविम्बाकारैःदुःखैर्न संवध्यते इत्येवं प्रकृत्यादीनां चतुर्विंशतितत्त्वानांपुरुषस्य च असाधारणधर्म्मविशेषकथनद्वारा तयोर्विवेकज्ञा-नोपयोग्युपदेशायैवेदम् शास्त्रं प्रवृत्तम् यथा च तयोर्विवे-कस्तथा शास्त्रे तन्मूलके द्वासप्ततिकारिकात्मके प्रबन्धे चआख्यायिकापरवादनिराकरणवर्जसीश्वरकृष्णेन दर्शितम्”। तत्र सांख्यमतं सर्वदर्शसंग्रहे इत्यं समग्राहि(
“सङ्क्षेपेण हि साङ्ख्यशास्त्रे चतस्रो विधाः सम्भाव्यन्तेकश्चिदर्थः प्रकृतिरेव, कश्चिद्विकृतिरेव, कश्चिद्विकृतिः प्रकृ-तिश्च, कश्चिदनुभय इति। तत्र केवला प्रकृतिः प्रघानपदेन वेदनीया मूलप्रकृतिः नासावन्यस्य कस्यचिद्विकृतिः,प्रकरोतीति प्रकृतिरितिव्युत्पत्त्या मत्त्वरजस्तमोयुणानां सा-म्यावस्थाया अभिधानात् तदुक्तं
“मूलप्रकृतिरविकृतिरिति”। मूलञ्चासौ प्रकृतिश्च मूलप्रकृतिः महदादेः कार्य्यकलाप-स्यासौ मूलं न त्वस्य प्रधानस्य मूलान्तरमस्ति अनवस्थापा-तात्। न च वीजाङ्कुरवदनवस्थादोषो न भवतीति वाच्यंप्रमाणाभावादिति भावः। विकृतयश्च प्रकृतयश्च महदहङ्कारतन्मात्राणि। तदप्युकं
“महदाद्याः प्रकृतिविकृतयः सप्तेति” अस्यार्थः प्रकृतयश्च ताः विकृतयश्चेति प्रकृतिविकृतयः सप्तमहादादीनि तत्त्वानि तत्रान्तःकरणादिपदवेदनीयं महत्त-त्त्वमहङ्कारस्य प्रकृतिः मूलप्रकृतेस्तु विकृतिः। एवमहङ्कार-तत्त्वमभिमानापरनामधेयं महतो विकृतिः प्रकृतिश्च पञ्च-तन्मात्रादीनाम् तत्राहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणांसूक्ष्माभिधानां प्रकृतिः, तदेव सात्विकं सत्प्रकृतिरेकादशेन्द्रि-याणां बुद्धीन्द्रियाणां चक्षुःश्रोत्रव्राणरसनात्वगाख्यानां,कर्म्मेन्द्रयाणां बाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्यममसश्च। रजसस्तूमयत्र क्रियोत्पादनद्वारेण कारणत्वम-स्तीति न वैयर्थ्यम्। तदुक्तमीश्वरकृष्णेन
“अभिमानोऽ-[Page1662-a+ 38] हङ्कारस्तस्माद्द्विविधः प्रवर्त्तते सर्गः। एकादशकश्च गण-स्तन्मात्रपञ्चकञ्चैव। सात्विकएकादशकः प्रवर्त्तते वैकृ-तादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्। बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि। वाक्पा-णिपादपायूपस्थानि कर्म्मोन्द्रियाण्याहुः। उभयात्मकमत्रमनः सङ्कल्पविकल्पात्मकमिन्द्रियञ्च साधर्म्म्यादिति”। ( विवृतञ्च तत्त्वकौमुद्यामाचार्य्यवाचस्पतिभिः। केवला वि-कृतिस्तु वियदादीनि पञ्च भूतानि एकादशेन्द्रियाणि च तदुक्तं
“षोडशकस्तु विकारः” इति षोडशसङ्ख्यावच्छिन्नो गणःषोडशको विकार एव न प्रकृतिरित्यर्थः यद्यपि पृथिव्या-दथो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्त-त्त्वान्तरमिति न प्रकृतिः तत्त्वान्तरोपादानत्वं चेह प्रकृति-त्वमभिमतं गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समान-त्वेन तत्त्वान्तरत्वाभावात्। तत्र शब्दस्पर्शरूपरसगन्धतन्मा-त्रेम्यः पूर्व्वपूर्व्वसूक्ष्मभूतसहितेभ्याः पञ्च भूतानि वियदा-दीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानि जायन्ते। इन्द्रिय-सृष्टिस्तु प्रागेवोक्ता। तदुक्तम्
“प्रकृतेर्महांस्ततोऽहङ्कार-स्तस्माद्गणश्च षोडशकः। तस्मादपि षोडशकात् पञ्चभ्यःपञ्चभूतानीति”। अनुभयात्मकः पुरुषः तदुक्तं
“न प्रकृ-तिर्न विकृतिः पुरुष” इति। पुरुषस्तु कूटस्थनित्योऽपरि-णामी न कस्यचित् प्रकृतिर्नापि विकृतिः कस्यचिदित्यर्थः। एतत्पञ्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतं तदप्युक्तं
“दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वात्। त्रिविथंघ्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धीति”। इह कार्य्यकारण-भावे चतुर्द्धा विप्रतिपत्तिः प्रसरति। असतः सज्जायतइति सौगताः सङ्गिरन्ति। नैयायिकादयः सतोऽसज्जायतइति। वेदान्विनः सतो विवर्त्तः कार्य्यजातं न वस्तु-सदिति। सांख्याः पुनः सतः सज्जायत इति। तत्रासतःसज्जायत इति न प्रामाणिकः पक्षः असतो निरुपाख्यस्यशशविषाणवत्कारणत्वानुपपत्तेः तुच्छातुच्छयास्तादात्म्यानु-पपत्तेश्च। नापि सतोऽसज्जायते कारकव्यापारात् प्राग-सतः शशविषाणवत्सत्तासम्बन्धलक्षणोत्पत्त्यनुपपत्तेः नहिनीलं निपुणतमेनापि पीतं कर्त्तुं पार्य्यते। ननु सत्त्वासत्त्वेंघटस्य धर्म्माविति चेत्तदचारु असति, धर्म्मिणि तद्धर्म्म इतिव्यपदेशानुपपत्त्या धर्म्मिणः सत्त्वापत्तेः। तस्मात् कारक-व्यापारात् प्रागपि कार्य्यं सदेव, सतश्चाभिव्यक्तिरुपपद्यतेयथा पीडनेन तिलेषु तैलस्य दोहेन सौरभेयीषु पयसः। असतः करणे किमपि निदर्शनं न दृश्यते। किञ्च कार्य्येण[Page1662-b+ 38] सम्बद्धं कारणं तज्जनकम् असम्बद्धं वा प्रथमे कार्य्यस्य सत्त्व-मायातं सतोरेव सम्बन्ध इति नियमात् चरमे सर्वं कार्य्य-जातं सर्वस्माज्जायेत असम्बद्धत्वाविशेषात्। तदप्यख्यायिसाङ्ख्याचार्य्यैः
“असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वस-ङ्गिभिः। असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति”। अथैवं मन्येथा असम्बद्धमपि तत् तदेव जनयति यत्र यच्छक्तंशक्तिश्च कार्य्यदर्शनोन्नेयेति तन्न सङ्गच्छते तिलेषु तैलजननशक्तिरित्यत्र तैलस्यासत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेनतच्छक्तिरिति निरूपणायोगात्। कार्य्यंकारणयोरभेदाच्चकार्य्यस्य सत्त्वं कारणात् पृथक् न भवति पटस्तन्तुभ्यो नभिद्यते तद्धर्म्मत्वान्न यदेवं न तदेवं यथा गोरश्वः, तद्धर्मश्चपटस्तस्मान्नार्थान्तरम्। तर्हि प्रत्येकं त एव प्रावरणकार्य्यंकुर्य्युरिति चेत् संस्थानभेदेनाविर्भूतपटभावानां प्रावरणार्थ-क्रियाकारित्वोपपत्तेः यथा हि कूर्मस्याङ्गानि कूर्मशरीरेनिविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भबन्तिएवं कारणस्य तन्त्वादेः पटादथो विशेषा निःसरन्त आवि-र्भवन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरोभवन्तो विन-श्यन्तीत्युच्यन्ते न पुनरसतामुत्प्रत्तिः सतां बा विनाशः। यथोक्तं भगवद्गीतायाम्
“नासतो विद्यते भावो नाभावोविद्यते सतः” इति। ततश्च कार्य्यानुमानात् तत्प्रधान-सिद्धिः। तदुक्तम्
“असदकरणादुपादानग्रहणात् सर्व्वं-सम्भवाभावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत्का-र्य्यमिति”। नापि सतो ब्रह्मतत्त्वस्य विवर्त्तः प्रपञ्चः बाधा-नुपलम्भात् अधिष्ठामारीप्ययीश्चिज्जडयोः कलधौतरू-प्यादिवत् सारूप्याभावेनारोपासम्भवाच्च। तस्मात्सुखदुःस्न-मोहात्मकस्य तथाविधकारणमवधारणीयं तथा च प्रयोगःविमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात्यद्येनान्वीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितंसुवर्णकारणकं तथाचेदं तस्मात्तथेति। तत्र जगत्कारणेयेयं सुखात्मकता तत्सत्वं, या दुःखात्मकता तद्रजः, याच मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः तथाहि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते यथा मैत्रदारेषुसत्यवत्यां मैत्रस्य सुखमाविरस्ति त्रं प्रति सत्वगुणप्रादुर्भा-वात् तत्सपत्नीनां दुःखम् ताः प्रति रजोगुणप्रादुर्भावात्। तामलभमानस्य चैत्रस्य मोहो भवति तं प्रति तमोगुणसमु-द्भवात्। एवमन्यदपि घटादिकं लभ्यमानं सुखाकरोति परै-रपि ह्रियमाणं दुःखाकरोति उदासीनस्योपेक्षाविषयत्वेनो-पतिष्टते उपेक्षानिषयत्वं नाम मोहः मुह--वैचित्त्ये इत्यु-[Page1663-a+ 38] स्माद्धातोर्मोहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्त्वृत्त्यनुदयात्। तस्मात्सर्बं भावजातं सुखदुः खमोहात्मकं त्रिगुणप्रधानकार-कणकमवगम्यते। तथाच श्वेताश्वतरोपनिषदि श्रूयते
“अ-जामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽ-न्यः” इति। अत्र लीहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशक-त्वावरकत्वसाधर्म्यात् रजस्मत्वतमोगुणत्वप्रतिपादनपराः। ( नन्वचेतनं प्रधानं चेतनानधिष्ठितं महदादिकार्य्येनव्याप्रियते अतः चेनचिच्चेतनेनाधिष्ठात्रा भवितव्यं तथाचसर्व्वार्थदर्शी परमेश्वरः स्वीकर्त्तव्यः स्यादिति चेत् तदसङ्ग-तम् अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेःदृष्टञ्च अचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्चमानं यथावत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्त्तते यथा जलमचेतनं लो-कोपकाराय प्रवर्त्तते तथा प्रकृतिरचेतनापि पुरुषविमो-क्षाय प्रवर्त्तति। तदुक्तम्
“वत्सविवृद्धिनिमित्तं क्षीरस्ययथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तं तथा प्रघृत्तिःप्रधानस्येति”। यस्तु परमेश्वरः करुणया प्रवर्त्तक इतिपरमेश्वरास्तित्ववादिनां डिण्डिमः स प्रायेण गतः विकल्पा-नुपपत्तेः स किं सृष्टेः प्राक् प्रवर्त्तते सृष्ट्युत्तरकालं वाआद्ये शरीराद्यभावेन दुःखानुत्पत्तौ जीवानां दुःखप्र-हाणेच्छानुपपत्तिः, द्वितीये परस्पराश्रयप्रसङ्गः करुणयासृष्टिः सृष्ट्या च कारुण्यमिति। तस्मादचेतनस्यापिचेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामःपुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः। यथा नि-र्व्यापारस्याप्ययस्कान्तस्य सन्निधानेन लोहस्य व्यापारःतथा निर्वापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारोयुज्यते। प्रकृतिषुरुषसम्बन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिव-न्धनः। प्रकृतिर्हि भोग्यतया भोक्तार पुरुषमपेक्षते पुरु-षोऽपि भेदाग्रहाद्बुद्धिच्छायापत्त्या तद्गतं दुखत्रयं वारय-माणः कैवल्यमपेक्षते। तत्प्रकृतिपुरुषविवेकनिबन्धबनम्। नच तदन्तरेण युक्तयिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते। यथा खलु कौचित् पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ दैव-कृतादुपप्लवात् परित्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्र-सन्तौ भयाकुलौ दैववशात् संयोगमुपगच्छेतां तत्र चान्धेनपङ्गुः स्कन्धनारोपितः ततः पङ्गुदर्शितेन मार्गेणान्धःसमीहितं स्थानं प्राशोति पङ्गुरपि स्कन्धाधिरूढः। तथापरस्फरापेक्षप्रधानपुरुषनिबन्धनःसर्गः। यथोक्तम्
“पुरु-षस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्वन्धवदुभयो-[Page1663-b+ 38] रपि सम्बन्धस्तत्कृतः सर्गः” इति। ननु पुरुषार्थनिबन्धनाभवतु प्रकृतेः प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यते? इति चे-दुच्यते यथा भर्त्रा दृष्टदोषा स्वैरिणी भर्त्तारं पुनर्नोपैतियथा वा कृतप्रयोजना नर्त्तकी निवर्त्तते तथा प्रकृतिरपि। यथोक्तम्
“रङ्गस्य दर्शयित्वा निवर्त्तते नर्त्तकी यथानृत्यात्। पुरुषस्य तथात्मानं प्रकाश्य विनिवर्त्तते प्रकृ-तिरिति”। एतदर्थं निरीश्वरसाङ्ख्यशास्त्रप्रवर्त्तककपिला-नुसारिणां मतसुपन्यस्तम्”। तत्र मूलीमूतमादिमं तत्त्वसमासाख्यसूत्रं तदुक्तार्थप्रवचनात्षडध्याय्याः सांख्यप्रवचनसंज्ञेति यथोक्तं तद्भाष्ये
“नन्वेवमपितत्त्वसमासाख्यसूत्रैः साहास्याः षडध्याय्याः पौनरूक्त्यमितिचेत् मैवम् संक्षेपविस्तररूपेणोभयोरप्यपौनरुक्तात् अतएवाऽ-स्याः षडध्याय्याः योगदर्शनस्येव साङ्ख्यप्रवचनसंज्ञा युक्ता। तत्त्वसमासाख्यं हि यत् सङ्क्षिप्तं साङ्ख्यदर्शनं तस्यैव प्रक-र्षेणास्यां निर्वचनमिति, विशेषस्त्वयं यत् षडध्यायां तत्त्वस-समासाख्योक्तार्थविस्तरमात्रं योगदर्शने त्वभ्युपगमवाद-प्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यू नतापरिहारोऽपीति” षडध्याय्यां च क्रमेणैतेऽर्था यथा
“हेयहाने तयोर्हेतव्यूहा एते यथाक्रमम्। चत्वारःशास्त्रमुख्यार्थाः आद्याध्याये प्रपञ्चिताः। संक्षिप्तसांख्यसूत्राणामर्थस्यात्र प्रपञ्चनात्। शास्त्रं योगवदेवैतत् सांख्यप्रवचनाभिधम्”

१ लिङ्गदेहस्य धटकं यत् प्रप्तदशसंख्यकम्। प्रधा-नकार्य्यं तत्सूक्ष्मं द्वितीयाध्यायगामि च

२ । अत्यन्तलयपर्य्यन्तः कार्य्योऽव्यक्तस्य नात्मनः। तृतीयोक्तोविवेकोऽत्रपरवैराग्यसाधनम्

३ । अध्यायत्रितयोक्तस्यः विवेकस्यान्त-रङ्गकम्। आख्यायिकाभिः संप्रोक्तं तुर्य्येऽध्याये समा-सतः

४ । स्वसिद्धान्तविरुद्धार्थवादिनो ये कुवादिनः। पञ्चमेतान् निराकत्य स्वसिद्धान्तो दृढीकृतः

५ । शास्त्रमुख्यार्थ-विस्तारस्तन्त्राख्येऽनुक्तपूरणैः। षष्ठाध्याये कृतः पश्चाद्वा-क्यार्यश्चोपसंसहृतः। ( सेश्वरसांख्यमतन्तु पातञ्जलमतत्वेन प्रसिद्धम् तन्म-तञ्च पतञ्जलिशब्दे दर्शयिष्यते। तदेव मतं कर्दमप्रजा-पतेर्देवहूतावाविर्मूय भगवदतारकपिलःमातरमुपदिदेशतच्च भाग॰

३ ,

२५ ,

२९ अध्यायेष वर्ण्णितम यथा।
“अथ ते संप्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्। यद्विदित्वाविमुच्यैत पुरुषः प्राकृतैर्गुणैः। ज्ञानं निःश्रेयसा-र्थाय पुरुषस्यात्मदर्शनम्। यदाहुर्व्वार्णये तत्ते हृदतग्रन्थिभेदनम्। अनादिरात्मा पुरुपो निर्गुणः प्रकृतेः[Page1664-a+ 38] परः। प्रत्यग्धाम स्वयं ज्योतिर्विश्वं येन समन्वितम्। स एष प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः। यदृच्छयैवोपगतामभ्यपद्यत लीलया। गुणैर्विचित्राः सृजतिं सरू-पाः प्रकृतिं प्रजाः। विलोक्य मुहुह सद्यः स इहज्ञान-गूहया। एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्। कर्म्मसु क्रियभाणेषु गुणैरात्मनि मन्यते। तदस्य सं-सृतिर्व्वन्धः पारतन्त्र्यञ्च तत्कृतम्। भवत्यकर्त्तुरीशस्य साक्षिणो निर्व्वृतात्मनः। कार्य्यकारणकर्तृत्वेकारणं प्रकृतिं विदुः। भोक्तृत्वे सुखदुःखानां पुरुषंप्रकृतेः परम्। देवहूतिरुवाच। प्रकृतेः पुरुषस्यापि ल-क्षणं पुरुषोत्तम!। ब्रूहि कारणयोरस्य सदसच्च यदात्म-कम्। भगवान् उवाच। यत्तत् त्रिगुणमव्यक्तं नित्यंसदसदात्मकम्। प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्। पञ्चमिः पञ्चभिः ब्रह्म च{??}र्भिर्दशमिस्तथा। एतच्चतु-र्व्विंशतिकं गणं प्राधानिकं विदुः। महाभूतानि पञ्चैव-भूरापोऽग्निर्म्मरुन्नभः। तन्मात्राणि च तावन्ति गन्धा-दीनि मतानि मे। इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसन-नासिकाः। वाक्करौ चरणौ मेद्रं पायुर्दशम उच्यते। मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्। चतुर्द्धा ल-क्ष्यते भेदोवृत्त्या लक्षणरूपया। एतावानेव संख्यातो{??}ह्मणः सगुणस्य च। सन्निवेशोमया प्रोक्तोयः कालः प-ञ्चविंशकः। प्रमावं पौरुषं प्राहुः कालमेके यतोभयम्। अहङ्कारविनूढस्य कर्त्तुः प्रकृतिमीथुषः। प्रकृतेर्गुणसा-म्यस्य निर्व्विशेषस्य भानवि!। चेष्टा यतः स भगवान् कालइत्युपलक्षितः। अन्तः पुरुषरूपेण कालरूपेण योबहिः। समन्वेत्येष सत्वानां भगवानात्ममायया। दैवात् क्षुभितधर्म्मिण्यां स्वस्यां योनौ परः पुमान्। आधत्त वीर्य्यंमाऽसूत महत्तत्वं हिरण्मयम्। विश्वमात्मगतं व्यञ्जन् कू-टस्थोजगदङ्कुरः। स्वतेजसाऽपिबत्तीवमात्मप्रस्वापनं तमः। यत्तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम्। तदाहु-र्व्वासुदेवाख्यं चित्तं तन्महदात्मकम्। स्वच्छत्वमविकारित्वंशान्तत्वमिति चेतसः। वृत्तिभिर्लक्षणं प्रोक्तं यथा मांप्रकृतिः परा। महत्तत्वाद्विकुर्व्वाणाद्भगवद्वीर्य्यसम्भवात्। क्रियाशक्निरहङ्कारस्त्रिविधः समपद्यत। वैकारिकस्तै-जसश्च तामसश्च यतोभयः। मनसश्चेन्द्रियाणाञ्च भूतानांमहतामपि। सहस्वशिरसं साक्षात् यमनन्तं प्रचक्षते। सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्। कर्तृत्वं क-रणत्वञ्च कार्य्यत्वञ्चेति लक्षणम्। शान्तघोरविमढत्व-[Page1664-b+ 38] मिति वा स्यादहङ्कृतेः। वैकारिकाद्विकुर्व्वाणान्मनस्तत्त्वम-जायत। यत्संकल्पविकल्पाभ्यां वर्त्तते कामसम्भवः। यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्। शारदेन्दी-वरश्यामं संराध्यं योगिमिः शनैः। तैजसात्तु विकुर्व्वाणा-द्बुद्धितत्त्वमभूत् सति!। द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः। संशयोऽथ विपर्य्यासोनिश्चयः स्मृतिरेव च। स्वाप इत्युच्यते बुङ्केर्लक्षणं वृत्तितः पृथक्। तैजसानी-न्द्रियाण्येव क्रियाज्ञानविभागशः। प्राणस्य हि क्रियाशक्तिर्बुद्धेर्व्विज्ञानशक्तिता। तामसाच्च विकुर्व्वाणाद्भगव-द्वीर्य्यनोदितात्। शब्दमात्रमभूत्तस्मान्नमः श्रोत्रन्तुशब्दगम। अर्थाश्रयत्वं शब्दस्य द्रष्टुलैङ्गत्वमेव च। तन्मात्रञ्चैव नभसोलक्षणं कवयोविदुः। भूतानां छिद्रदातृ-त्वं बहिरन्तरमेव च। प्राणेन्द्रियात्मधिष्ण्यत्वं नभसोवृत्तिलक्षणम्। नभसः शब्दतन्मात्रात् कालगत्या विकु-र्व्वतः। स्पर्शोऽभवत्ततोवायुस्त्वक् च स्पर्शस्य संग्रहः। मृदुत्वं कठिनत्वञ्च शैत्यमुष्णत्वमेव च। एतत् स्पर्शस्यस्पर्शत्वं तन्मात्रञ्च नभस्वतः। चालनं व्यूहनं प्राप्तिर्ने-तृत्वं द्रव्यशब्दयोः। सर्व्वेन्द्रियाणामात्मत्वं वायोः क-र्म्माभिलक्षणम्। वायोश्च स्पर्शतन्मात्रात् रूप दैवेरितादभूत्। समुत्थितं ततस्तेजश्चक्षूरूपोपलम्भनम्। द्रव्या-कृतित्वं गुणता व्यक्तिसंस्थत्वमेव च। तेजस्त्वं तेजसःसाध्वि! रूपमात्रस्य वृत्तयः। द्योतनं पचनं पानमदनंहिममर्द्दनम्। तेजसोवृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च। रूपमात्राद्विकर्व्वाणात्तेजसो दैवनोदितात्। रसमात्रम-भूत्तस्मादम्भोजिह्वा रसग्रहः। कषायोमधुरस्तिक्तः क-ष्ट्वम्लाइति नैकधा। मौतिकानां विकारेण रसएकोवि-भिद्यते। क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोदनम्। तापापनोदो मूयस्त्वगम्भसो वृत्तयोस्त्विमाः। रसमात्रा-द्विकुर्व्वाणादम्भसो देवनोदितात्। गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः। करम्भपूतिसौरभ्यशान्तोदग्रा-दिभिः पृथक्। द्रव्यावयववैषम्याद्गन्ध एकोविभिद्यते। भावनं ब्रह्मणःसानं धारणं सद्विशेषणम्। सर्व्वसत्व-गुणोद्भेदः पृथिवीवृत्तिलक्षणम्। नभोगुणविशेधोऽर्थोयस्य तत् श्रोत्रमुच्यते। वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः। तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते। अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः। भूमेर्गुणविशेषोऽर्थो यस्य घ्राणः स उच्यते। परस्य दृश्यते धर्म्मो-ह्यपरस्विन् समन्वयात्। अतोविशेषो भावानां मूमा-[Page1665-a+ 38] वेथोपलभ्यते। एतान्यसंहत्य यदा महदादीनि सप्तवै। कालकर्म्मगुणोपेतो जगदादिरुपाविशत्। ततस्तेनानु-विद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्। उत्थितं पुरुषो य-स्मात् उदतिष्ठदसौ विराट्। एतदण्डं विशेषाख्यंक्रमवृद्धैर्यथोत्तरैः। तोयादिभिः परिवृतं प्रधानेनावृतंबहिः। यत्र लोकवितानोऽयं रूपं भगवतोहरेः। हिरण्मयादण्डकोषादुत्थाय सलिलेशयात्। तमाविश्यमहादेवो बहुधा निर्बिभेद खम्। निरमिद्यतास्य प्रथमंमुखं वाणी ततोऽभवत्। वाण्यावह्निरथोनासे प्राणतोघ्राण एतयोः। घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरे-तयोः। तस्मात् सूर्य्योऽन्वभिद्येतां कर्णौ श्रोत्रं ततो-दिशः। निर्बिभेद विराजस्त्वग्रोमश्मश्र्वाद्रयस्ततः। ततओषधयश्चासन् शिश्नं निर्बिभेदे ततः। रेतस्तस्मादापआसन्निरभिद्यत वै गुदम्। गुदादपानोऽ पानाच्च मृत्यु-र्लोकभयङ्करः। हस्तौ च निरभिद्येतां बलं ताभ्यां ततःस्वराट्। पादौ च निरभिद्यतां गतिस्ताभ्यां ततोहरिः। नाड्योऽस्य निरमिद्यन्त ताभ्यो लोहितमाभृतम्। नद्यस्ततःसमभवन्नुदरं समभिद्यत। क्षुत्पिपासे ततः स्यातांसमुद्रस्त्वेतयोरभूत्। अथास्य हृदयं भिन्नं हृदयान्मनउत्थितम्। मनसश्चन्द्रमाजातो बुद्धिर्ब्बुद्धेर्गिरां पतिः। अहङ्कारस्ततोरुद्रः चित्तञ्चैत्तस्ततोऽभवत्। एते ह्य-भ्युत्थिता देवा नैवास्योत्यापनेऽशकन्। पुनराविविशुःस्वानि तमुत्थापयितुं क्रमात्। वह्निर्वाचा मुखं भेजे नोद-तिष्ठत्ततोविराट्। घ्राणेन नासिके वायुर्नोदतिष्ठत्ततो-विराट्। अक्षिणो चक्षुरादित्योनोदतिष्ठत्ततोविराट्। हस्ताविन्द्रो बलेनैव नोदतिष्ठत्ततोविराट्। विष्णुर्गत्येवचरणौ नोदतिष्ठत्ततोविराट्। नाडीर्नद्यो लोहितेननोदतिष्ठत्ततोबिराट्। क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठ-त्ततोविराट्। बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्ततोवि-राट्। श्रोत्रेण कर्णौ च दिशोनोदतिष्ठत्ततोविराट्। त्वचंरोमभिरोधध्यो नोदतिष्ठत्ततोविराट्। रेतसा शिश्नमा-पस्तु नोदतिष्ठत्ततोविराट्। गुदं मृत्युरपानेन नोदति-ष्ठत्ततोविराट। रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्ततो-विराट्। चित्तेन हृदयं चैत्तः क्षेत्रज्ञः प्राविशद्यदा। विराट् तदैव पुरुषः सलिलादुदतिष्ठत। यथा प्रसुप्तंहृदयं प्राणेन्द्रियमनोधियः। प्रभवन्ति विना येन नो-त्थापयितुमोजसा। तमस्मिन् प्रत्यगात्मानन्धिया योगवि-वृत्तया। भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्” [Page1665-b+ 38] इति भागवते तृतीयस्कन्धे षड्विंशाध्याये कपिनवचः।
“प्रकृतिस्थोपि पुरुषोनाज्यते प्राकृतैगुर्णैः। अविकारा-दकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्। सएष यर्हि प्रकृते-र्गुणेष्वपि विसज्जते। अहङ्क्रियाविमूढात्मा कर्त्तास्मी-त्यभिमन्यते। तेन संसारपदवीमवशोऽभ्येत्य निर्व्वृतः। प्रासङ्गिकैः कर्म्मदोषैः सदसन्मिश्रयोनिषु। अर्थेह्यवि-द्यमानेऽपि संसृतिर्न निवर्त्तते। ध्यायतो विषयानस्यस्वप्नोनार्थागभोयथा। अतएव शनैश्चित्तं प्रसक्तमसतांपथि। भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्। यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः। मयि भावेनसत्येन मत्कथाश्रवणेन च। सर्व्वभूतसमत्वेन निर्वेरेणा-ऽप्रसङ्गतः। ब्रह्मचर्य्येण मौनेन स्वधर्म्मेण महीयसा। यदृच्छयोपलब्धेन सन्तुष्टोमितभुङ्मुनिः। विविक्तशरणःशान्तोमैत्रः करुण आत्मवान्। सानुबन्धे च देहेऽ-स्मित् न कुर्व्वन्नसदाग्रहम्। ज्ञानेन दृष्टतत्त्वेन प्रकृतेःपुरुषस्य च। निवृत्तबुद्ध्यवस्थानोदूरीभूतान्यदर्शनः। उपलभ्यात्मनात्मानं चक्षुरेकाग्रमात्मदृक्। मुक्तलिङ्गं सदा-भासमसति प्रतिपद्यते। सतो बन्धुमसच्चक्षुः सर्वानुष्यूवम-द्वयम्। यथा जलस्थ आभासः स्थलस्थेनावदृश्यते। स्वाभासेन तथा सूर्य्यो जलस्थेन दिविस्थितः। एवं त्रिवृदहङ्कारो मूतेन्द्रियमनोमयैः। स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्। भूतसूक्ष्मेन्द्रियमनीबुद्ध्यादिष्विह निद्र-या। लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः। मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा। नष्टेऽहङ्करणे द्रष्टा-वित्त इवातुरः। एवं प्रत्यवदृश्यासावात्मानं प्रतिपद्यतेसाहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः। देवहूतिरुवाच। पुरुषं प्रकृतिर्ब्रह्मन्! न विमुञ्चति कर्हिचित्। अन्योन्यो-पाश्रयत्वाच्च नित्यत्वाच्चानयीः प्रमी! यथा गन्धस्य मूमेश्च-न भावो व्यतिरेकतः। अपां रसस्य च यथा तथा बुद्धेःपरस्य च। अकर्त्तुः कर्म्मबन्धोऽयं पुरुषस्य यदाश्रयः। गुणेषु सत्सुप्रकृतेः कैवल्यं तेष्वतः कथम्?। कच्चित्तत्त्वा-वमर्शेन निवृत्तं भयभुल्वणम्। अनिवृत्तनिमित्तत्वात् पुनःप्रत्यवतिष्ठते। श्रोभगवानुवाच। अनिमित्तनिमित्तेनस्वधर्मेणामला त्मना। तीव्रया मयि भक्त्या च श्रुतसंभृतया-चिरम्। ज्ञानेन दृष्टतत्त्वेम वैराग्येण बलीयसा। तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना। प्रकृतिः पुरुषस्येह द-ह्यमाना त्वहर्न्निशम्। तिरोभवित्री शनकैरग्नेर्योनि रि-वारणिः। भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः। [Page1666-a+ 38] नेश्वरस्याशुभं धत्ते स्वे महिम्रि स्थितस्य च। यथाह्यप्रतिबुद्धस्य प्रस्वापोबह्वनर्थकृत्। स एव प्रतिबुद्धस्य नविमोहाय कल्पते। एवं विदितत्त्वस्य प्रकृतिर्मयि मान-सम्। युञ्जतोनापकुरुते आत्मारामस्य कर्हिचित्। यदैव-मध्यात्मरतः कालेन बहुजन्मना। सर्व्वत्र जातवैराग्यआ ब्रह्मभवनान् मुनिः। मद्भक्तः प्रतिबुद्धार्थोमत्प्रसादेनभूयसा। निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्। प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः। यत् गत्वा ननिवर्त्तेत योगी लिङ्गविनिर्गमे। यदा न योगोपचितासु-चेतो मायासु सिद्धस्य विसज्जतेऽम्ब!। अनन्यहेतुष्वथ मे गतिःस्यादात्यन्तिकी यत्र न मृत्युहासः” भाग॰

३ स्क॰

२७ अ॰
“योगस्य लक्षणं वक्ष्ये सवीजस्य नृपात्मजे!। मनो येनैवविधिना प्रसन्नं याति सत्पथम्। स्वधर्माचरणं शक्त्या विधर्माच्च निवर्त्तनम्। दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्च्चनम्। ग्राम्यधर्म्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा। मितमे-ध्यादनं शश्वद्विविक्तक्षेमसेवनम् अहिंसा सत्यमस्तेयंयावदर्थपरिग्रहः। ब्रह्मचर्य्यं तपः शौचं स्वाध्यायः पु-रुषार्चनम्। मौनं सदासनजयः सथिर्य्यं प्राणजयःशनैः। प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि। स्व-धिष्ण्यानामेकदेशे मनसा प्राणधारणा। वैकुण्टलीलामि-ध्यानं समाधानं तथात्मनः। एतैरन्यैश्च पथिभिर्म्मनोदुष्टम-सत्पथम्। बुद्ध्या युञ्जीत शनकैर्जितप्राणोह्यतान्त्रितः। शुचौदेश प्रतिष्ठाम्प विजितासनआसनम्। तस्मिन् स्वस्तिकमा-सीन ऋजुकायः समभ्यसेत्। प्राणस्य शोधयेन्मागं पूरकु-म्भकरेचकैः। प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम्। मनोऽचिरात् स्याद्विरजं जितश्वासस्य योगिनः। वाय्वग्नि-भ्यां यथा लोहं ष्मातं त्यजति वै मलम्। प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्विषान्। प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान् गुणान्। यदा मनः सुविरजं योगेन सुसमाहितम्। काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः। प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्। नीलोत्पलदलश्यामंशङ्खचक्रगदाधरम्। लमत्पङ्कजकिञ्जल्कपीतकौशेयवास-सम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभासुक्तकन्धरम्। मत्तद्विरेफकलया परीतं वनमालया। परार्द्धहारवलयाकि-रीटाङ्गदनूपुरम्। काञ्चीगुणोल्लसोच्छ्रोणिं हृदयाम्भोजविष्टरम्। दर्शनीयतमं शान्तं मनीनयनवर्द्धनम्। अपा-च्यदर्शनं शश्वत् सर्वलोकगमस्कृतम्। सन्तं वपसि कैशोरे-भृत्यानुग्रहकातरम्। कार्त्तन्यतीर्थयशसं पुण्यश्लोकयशस्क-[Page1666-b+ 38] रम्। ध्यायेदेवं समग्राङ्गं यावन्न च्यवते मनः। स्थितंव्रजन्तमासीनं शयानं वा गुहाशयम्। प्रेक्षणीये हितंध्यायेत् शुद्धभावेन चेतसा। तस्मिन् लब्धपदं चित्तंसर्वावयवसंस्थितम्। विलक्ष्यैकत्र संयुञ्ज्यादङ्गे भगवतोमुनिः!। सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वज-सरोरुहलाञ्चनाढ्यम्। उत्तुङ्गरक्तविलसन्नखचक्रवाल-ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्। यच्छौचनिःसृत-सरित्प्रवरीदकेन तीर्थेन मूर्द्ध्न्यधिकृतेन शिवः शिवोऽभूत्। ध्यातुर्म्मनःशमनशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम्। जानुद्वयं जलजलोचनया जनन्यालक्ष्म्याखिलस्य सुरवन्दितया विधातुः। ऊर्वो-र्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभो-रभवस्य कुर्य्यात्। ऊरू सुपर्णभुजयोरधिशोभमानावोजोनिधी अतसिकाकुसुमावभासौ। व्यालम्बिपीतवरवाससिवर्त्तमानकाञ्चीकलापपरिरम्भिनितम्बविम्बम्। नाभीहदंभुवनकीषगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकप-द्मम्। व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेत् द्वयंविशदहारममूढगौरम्। वक्षोधिवासमृषभस्य महा-विभूतेः पुंसां मनोनयननिर्व्वृतिमादधानम्। कण्ठञ्चकौस्तुभमणेरधिभूषणार्थं कुर्य्यान्मनस्यखिललोकनमस्कृ-तस्य। बाहूंश्च मन्दरगिरेः परिवर्त्तनेन निर्णिक्तबा-हुवलयानधिलोकपालान्। संचिन्तयेद्दशशतारमसह्यतेजःशङ्खञ्च तत् करसरोरुहराजहंसम्। कौमोदकीं भगवतोदयितां स्मरेत दिग्धामरातिभटशोणितकर्द्दभेन। मालांमधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलंमणिमस्य कण्ठे। भृत्यानुकम्पितधियेह गृहीतमूर्त्तेः सञ्चिन्तयेद्भगवतोवदना-रविन्दम्। यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतिता-मलकपोलमुदारलासम्। यत् श्रीनिकेतमणिभिः परिषे-च्यमानम् भृत्या स्वया कुटिलकुण्डलवृन्दजुष्टम्। मीनद्वयाश्रयमधिक्षिपदब्जनेत्रम् ध्यायेन्मनोमयमतन्त्रितौल्लसद्भ्रु। तस्यावलीकमधिकं कृपयाऽतिघोरतापत्रयोपशमनायनिसृ-ष्टमक्ष्णोः। स्निग्धुस्मितानुगुणितं विपुलप्रसादम् ध्याये-जिरं विततभावनया गुहायाम्। हासं हरेरवनताखिल-लोकतीव्रशोकाश्रुसागरविशोषणमित्युदारम्। संमोहनायरचितं निजमाययास्य भूमण्डलं मुनिकृते मकरध्वजस्य। ध्यानायनं प्रहसितं बहुलाधरोष्ठभासारुणायिततनु-द्विजकुन्दपंक्ति। ध्यायेत् स्वदद्रुकुहरेव सितस्य विष्णोर्भ-क्त्यार्द्रयार्पितमना न पृथक् दिवृक्षेत्। एवं हरौ भगवति[Page1667-a+ 38] प्रतिलब्धभावोभक्त्याद्रवद्धृदय उत्पुलकप्रमोदात्। औत्-कण्ठ्यवाष्पकलया मुहुरर्द्यमानस्तच्चापि चित्तवडिशं शन-कैर्व्वियुङ्क्ते। मुक्ताश्रयं यदि तु निर्व्विषयं विरक्तं निर्व्वाणमृच्छति मनःसहसा यथार्च्चेः। आत्मानमत्र पुरुषेऽव्यवधा-नमेकमन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः। सोऽद्येतया चरमयामनसोनिवृत्त्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये। हेतुत्वमप्यसति कर्त्तरि दुःखयोर्यत्स्वात्मन्! विधत्त उप-लब्धपरात्मकाष्ठः। देहञ्च तन्न चरमः स्थितमुत्थितं वासिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम्। दैवादपेतमुत दै-ववशादुपेतं वासोयथा परिहृतं मदिरामदान्धः। देहोऽपिदैववशगः खलु कर्म्म यावत् स्वारम्भकं प्रतिसमीक्षत एवसासुः। तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजतेप्रविबुद्धवस्तु। यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते। अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा। यथोल्मुकाद्वि-स्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्। अप्यात्मत्वेनाभिमता-द्यथाग्निः पृथगुल्मुकात्। भूतेन्द्रियान्तः करणात् प्रधाना-ज्जीवसंज्ञितात्। आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसं-ज्ञितः। सर्व्वभूतेषु चात्मानं सर्वभूतानि चत्मनि। ईक्षेता-नन्यभावेन भूतेष्वपि तदात्मताम्। स्वयोनिषु तथा ज्यो-तिरेकं नाना प्रतीयते। योनीनां गुणवैषम्यात् तथा-त्मा प्रकृतिस्थितः। तस्मादिसां स्वां प्रकृतं देवीं सदसदात्मिकाम्। दुविभाव्यां पराभाव्य स्वरूपेणावतिष्ठते” इतिभा॰

३ स्क॰

२८ अ॰।
“देवहूतिरुवाच। लक्षणं महदादीनां प्रकृतेः पुरु-षस्य च। स्वरूपं लक्ष्यतेऽभीषां येन तत् पारमार्थिकम्। यथा सांख्येषु कथितं यन्मूलं तत् प्रचक्षते। भक्तियो-गस्य मे मार्गं ब्रूहि विस्तरतः प्रभो!। विरागी येन पुरु-षो भगवन्! सर्वतोभवेत्। आचक्ष्व जीवलोकस्य विविधामम संसृतीः। कालस्येश्चररूपस्य परेषाञ्च परण्य ते। स्वरूपं वत कुर्बन्ति यद्धेतोः कुशलञ्जनाः। लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यानाश्रये। श्रान्त-स्यं कर्म्मस्वनुवद्ध्या धिया त्वमाविरासीः सिल योगभा-स्करः। श्रीमैत्रेय उवाच। इति मातुर्वचः श्लक्ष्णं प्रति-नन्द्य महामुनिः। आनमाषे कुरुश्रेष्ठ! प्रीतस्तां करुणा-र्द्रितः। श्रीभगवानुवाच। भक्तियोगो बहुबिधोमार्गैर्भवति! भाव्यते। स्वभावगुणमार्गेण पुंसां भावोविमि-द्यते। अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा। संरम्भी भिद्भद्वग्भावं मयि कुर्य्यात् स तामसः। वि-[Page1667-b+ 38] षयानभिसन्धाय यश ऐश्वर्य्यमेव वा। अर्च्चादावर्च्चयेद्-योमां पृथग्भावः स राजसः। कर्म्म निर्हारमुद्दिश्यपरस्मिन् वा तदर्पणम्। यजेत् यष्टव्यमिति वा पृथग्भावःससात्विकः। मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये। मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ। लक्षणंभक्तियोगस्य निर्गुणस्य ह्युदाहृतम्। अहैतुक्यव्यवहि-ता या भक्तिः पुरुषोत्तमे। सालोक्यसार्ष्टिसामीप्यसा-रूप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवनञ्ज-नाः। सएव भक्तियोगाख्य आत्यन्तिक उदाहृतः। येनातिव्रज्य त्रिगुणां मद्भावायोपपद्यते। निषेवितानिमित्तेन स्वधर्म्मेण महीयसा। क्रियायोगेन शस्तेननातिहिंस्रेण नित्यशः। मद्धिष्ण्यदर्शनस्पर्शपूजास्तुतिनि-बन्धनैः। भूतेषु मद्भावनया सत्वेनासङ्गमेन च। महतांबहुमानेन दीनानामनुकम्पया। मैत्र्या चैवात्मतुल्येषु यमेननियमेन च। आध्यात्मिकानुश्रवणान्नामसंकीर्त्तनाच्च मे। आर्जवेनार्य्यसङ्गेन निरहङ्क्रियया तथा। मद्धर्म्मणो गुणै-रेतैः परिसंशुद्धआशयः। पुरुषस्याञ्जसाभ्येति श्रुतिमात्र-गुणं हि माम्। यथा वातरथोघ्राणमावृङ्क्ते गन्धआशयात्। एवं योगरतं चेत आत्मानमविकारि तत्। अहं सर्वेषु मू-तेषु भूतात्मावस्थितः सदा। तमवज्ञाय मां मत्युः कुरुतेऽ-र्च्चाविडम्बनम्। यो मां सर्वेषु भूतेषु सन्तमात्पानमीश्वरम्। हित्वार्च्चां भजते मौढ्यात् भस्मन्येव जुहोति सः। द्वि-षतः परकाये मां मानिनो भिन्नदर्शिनः। भूतेषु बद्धवैर-स्य न मनः शान्तिमृच्छति। अहमुच्चावचैद्रव्यैः क्रिययोत्पश्नयाऽनधे!। नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः। अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्। यावन्न वेद स्वहृ-दि सर्वभूतेष्ववस्थितम्। आत्मनश्च परस्यापि यः करोत्यन्त-रोदरम्। तस्य भिन्नदृशोमृत्युर्विदधे भयमुल्वणम्। अथमां सर्वभूतेषु भूतात्मानं कृतालयम्। अर्हथेद्दानमानाभ्यांमैत्र्यभित्रेन चक्षुषा। जीवाः श्रेष्ठाह्यजीवानां ततः प्रा-णभृतः शुभे। ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः। तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः। तेभ्यो गन्धविदःश्रेष्ठास्ततः शब्दविढोवराः। रूपभेदविदस्तत्र ततश्चोभयतो-दतः। तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततोद्विपात्। ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः। ब्राह्मणेप्यपिवेदज्ञोह्यर्थज्ञोऽभ्यधिकस्ततः। अर्थज्ञात् संशयच्छेत्ता ततःश्रेयान् स्वकर्मकृत्। मुक्तसङ्गस्ततोभूयान् दोग्धान धर्ममात्मनःतस्मिन्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः। मय्यर्षितात्मनः[Page1668-a+ 38] पुंसोमयि संन्यस्तकर्मणः। न पश्यामि परं भूतमकर्त्तुःसमदर्शनात्। मनसैतानि भूतानि प्रणमेद्बहु मानयन्। ईश्वरो जीवकलया प्रविष्टो भगवानिति। भक्तियोगश्च यो-गश्च मया मानव्युदीरितः। ययोरेकतरेणैव पुरुषः पूरुषंब्रजेत्। एतद्भगवतोरूपं व्रह्मणः परमात्मनः। परं प्र-धामं पुरुषं दैवं कर्म विचेष्टितम्। रूपभेदास्पदं दिव्यंकाल इत्यभिधीयते। भूतानां महदादीनां यतोभिन्नदृशांभयम्। योऽन्तः प्रविश्य भूतानि मूतैरत्त्यखिलाश्रयः। स-विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः। नचास्यक-श्चिद्दयितो न द्वेष्यो न च बान्धवः। आविशत्यप्रमत्तोऽसौप्रमत्तजनमन्तकृत्। यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भ-यात्। यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्। यद्वन-खतयोभीता लताश्चोषधिभिः सह। स्वे स्वे कालेऽ-भिगृह्णन्ति पुष्पाणि च फलानि च। स्रवन्ति सरितो भी-तानोत्सर्पत्युदधिर्यतः। अग्निरिन्धे सगिरिभिर्भूर्न मज्जतियद्भयात्। अदोददाति श्वसतां पदं यन्नियमान्नमः। लोकंस्वदेहं तनुते महान् सप्तभिरावृतम्। गुणाभिमानिनोदेवाः सर्गादिष्वस्य यद्भयात्। वर्त्तन्तेऽनुयुगं येषां वश एत-च्चरारम्। सोऽमन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः। जनञ्जनेन जनयन् मारयन् मृत्युनान्तकम्” भाग॰

२९ अ॰। ( भगवदवतार एव कपिलः सगरसन्ततीर्हुङ्कारेण भस्मीचकारयथोक्तं रामा॰ आ॰

४० अ॰
“यस्येयं वसुधा कृत्स्ना वा-सुदेवस्य धीमतः। महिषी माधवस्यैषा स एष भगवान्प्रभुः। कापिलं रूपमास्थाय धारयत्यनिशं धराम्। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः। पृथिव्या-श्चापि निर्भेदो दृष्ट एव सनातनः। सगरस्य च पुत्राणांविनाशोऽदीर्घदर्शिनाम्” इति ब्रह्मवाक्यमुपवर्ण्य रामं प्रतिविश्वामित्रेणोक्तम्।
“ततः प्रागुत्तरां गत्वा सागराःप्रथितां दिशम्। रोषादत्यखनन् सर्वे पृथिवीं सगरात्मजाः। ते तु सर्वे महात्म नो भीमवेगाः महावलाः। ददृशुःकपिलं तत्र वासुदेवं सनातनम्। हयञ्च तस्य देवस्य चरन्तसविदूरतः। प्रहर्षमतुलं प्राप्ताः सर्वेते रघुनन्दन!। ते तं यज्ञहनं ज्ञात्वा क्रोधपर्य्याकुलेक्षणाः। खनित्र-लाङ्गलधरा नानावृक्षशिलाधराः। अभ्यधावन्त संक्रुद्धा-स्तिष्ठतिष्ठेति चाव्रुपन्। अन्माकं त्वं हि तुरगं यज्ञियंहृतवानांस। दुर्नेधस्त्रं हि संपाप्तान् धिद्धि नः सगरा-त्मजान्। श्रुत्वा तद्वचनं तेषां कपिलो रधुनन्दन!। रोषेण महताविष्टो हुङ्कारमकरोम्भुनिः। ततस्तेनाप्रमेयेण[Page1668-b+ 38] कपिलेन महात्मना। भस्मराशीकृताः सर्वे काकुत्स्थ! स-गरात्मजाः”। अत्र प्रागुत्तरामिति भूमध्यस्थलङ्कापेक्षया त-त्स्थानस्य तथात्वात्। वस्तुतः सिद्धेशः कपिलोऽपि भ-गवदवतारसवः।
“पञ्चमे कपिलो नाम सिद्धेशः काल-विप्लुतम्। प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्ण्णयम्” भा॰

१ ,

३ ,

११ उक्तेः
“सिद्धानां कपिलो मुनिः” गी-तोक्तेश्च अग्न्यवतारकथनन्तु कल्पभेदाभिप्रायमित्य-विरोधः। स च प्रत्यहं तपेणियर्षिभेदः
“सनकश्चसनन्दश्च तृतीयश्च सनातनः। कपिलश्चासुरिश्चैववोढुः पञ्चशिखस्तथा” ब्रह्मपु॰ तर्पणमन्त्रलिङ्गात्।
“कपिलः पिङ्गलः पिङ्गः” इत्यमरे पिङ्गलक-पिलयोः पर्य्यायत्वेऽपि तयोरीषद्भेदोऽस्त्येव अत-एव सुश्रुते
“अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्याम् इत्यु-पक्रम्य नीलः पीतः हरितः श्यामः कर्वुरः कृष्णःरक्तः कपिलः पिङ्गलः इति कपिलपिङ्गलयोर्भे-देन निर्देशः।
“वाताय कपिला विद्युत्” सि॰ कौ॰।

८ सुश्रुतोक्ते भूषिकभेदे
“पूर्व्वमुक्ताः शुक्रविषा मू-षिका ये समासतः। नामलक्षणभैषज्यैरष्टादश निबोधमे। लालनः पुत्रक इत्यादिना
“श्वेतेन महता सार्धंकपिलेनाखुना तथेति विभज्य! तद्दंशोपद्रवचिकित्सातत्रोक्ता यथा
“कपिलेन व्रणकोथो ज्वरो ग्रन्थ्युद्गमस्तथा। क्षौद्रेण लिह्यात्त्रिफलां श्वेतां चापि पुनर्णवाम्” सुश्रुतोक्ते

९ लूताभेदे स्त्री यथा।
“विश्वामित्रो नृपवरः कदाविदृषिसत्तमम्। वशिष्ठं को-पयामास गत्वाश्रमपदं किल। कुपितस्य मुनेस्तस्य ल-लाटात्स्वेदविन्दवः। अपतन्दर्शनादेवमधस्तात्तीत्त्स्णवर्च्चसः। लूने तृणे महर्षीणां धेन्वर्थं सम्भृतेऽपि च। ततोजातास्त्विमा घोरा नानारूपा महाविषाः। अपका-राय वर्त्तन्ते नृपसाधनवाहने। यस्माल्लूनंतृणं प्राप्तामुनेः प्रस्वेदविन्दवः। तस्नाल्लूतेति भाव्यन्ते सङ्ख्ययाताश्च षोडश। कृच्छ्रसाध्यास्तथाऽसाध्या लूताश्च द्विविधाःस्मृताः। तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु। त्रिमण्डला तथा श्वेता कपिला पीतिका तथा। आ-लमूत्रविषा रक्ता कसना चाष्टमी स्मृता। ताभिर्दष्टेशिरोदुः खं कण्डूर्दंशे च वेदना। भवन्ति च विशेषेणगदाः श्लैष्मिकयातिकाः। सौवर्णिका स्वाजावर्णा जालिन्ये-णीपदी तथा। कृष्णाग्निवर्णा काकाण्डा मालागुणाष्टमोस्मृता। ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च। ज्वरो-[Page1669-a+ 38] दाहोऽतिसारश्च गदाःस्युश्च त्रिदोषजाः। पिडका विवि-धाकारा मण्डलानि महान्ति च। शोफा महान्तो मृदवोरक्ताःश्यावाश्चलास्तथा। सामान्यं सर्वलूतानामेतदादंश-लक्षणम्। विशेषणक्षणं तासां वक्ष्यामि सचिकित्सितम्” इत्युपक्रम्य
“आदंशे पिडका ताम्रा कपिलायाः स्थिराभवेत्। शिरसो गौरवं दाहस्तिमिरं भयमेव च”

१० गोवि-शेषे स्त्री कपिलादानशब्दे विवृतिः। कपिलानां नरश्रेष्ठ। शतस्य फलमश्नुते” भा॰ व॰

८३ अ॰।
“क्षत्रियश्चैव वृत्त-स्थो वैश्यः शूद्रोऽथ वा पुनः। यः पिबेत् कपिलाक्षीरंन ततोऽन्योऽस्त्यपुण्यकृत्” प्रा॰ वि॰ आप॰।
“कापिलं यःपिबेच्छूद्रो नरकेण विपच्यते” प्रा॰ वि॰ भवि॰ पु॰ तत्र शू-द्रस्य कपिलाक्षीरपाणं महापातकं तत्पाननिषेधस्तुक्षत्रियवैश्ययोपीति भेदः।

११ नदीभेदे स्त्रो
“कज्जला-चलशैलात्तु पूर्वस्मिन् शुभपर्वतः। शच्या सह पुरा रेमेयत्र शक्रः सुरेश्वरः। तत्पूर्वस्यां महादेवि! नदीकपिलसंज्ञिता। तां च स्नात्वा नरोगङ्गास्नानजं फल-माप्नुयात्” कालिपु॰

८१ अ॰

१२ कपिलपुष्मायां शिंश-पायां स्त्री राजनि॰।

१३ रेणुकाणामगन्धद्रव्ये

१४ पुण्ड-रीकदिग्गजस्त्रियाञ्च हारा॰

१५ गृहकन्यायां

१६ शिंशपा-मात्रे

१७ राजनीतो च स्त्री राजनि॰। कपिलवर्ण्णायांस्त्रियां तु टाबेव वर्ण्णवाचित्वेऽपि अनुदात्तत्वाभावात्
“नोद्वहेत कपिलां कन्याम्” मनुः कुक्कुरजातिस्त्रियान्तुजातित्वात् ङीष्। कूर्म्मविभागे नैरृतदिक्स्थे

१८ देश-भेदे पु॰
“नैरृत्यां दिशि देशाः” इत्युपक्रन्य
“कपिलना-रेमुखानर्त्ताः” इति वृह॰ सं॰। अत्र कपिलनारीमुखइत्येकं नाम इत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिल¦ mfn. (-लः-ला-लं) Tawny. m. (-लः)
1. KAPILA, a celebrated Muni or saint, the founder of the Sankhya system of phlilosophy: the son of KERDDAMA by DEVAHUTI, and according to some, an avatar of VISHNU.
2. A title of AGNI the deity of fire.
3. A dog.
4. Tawny, (in colour.) f. (-ला)
1. The female elephant of the south-east.
2. A kind of Sisu, or timber tree so called: see शिंशपा।
3. A sort of per- fume: see रेणुका
4. The aloe plant.
5. A fabulous cow, celebrated in the Puranas.
6. The common leech. E. कम् to desire, इलच् Unadi affix, and प substituted for म; or कपि a monkey, and ल to take, &c. being of such a colour.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिल [kapila], a. [कपि-लच्]

Tawny, reddish; वाताय कपिला विद्युत् Mbh. on P.II.3.13.

Having tawny hairs; नोद्वेहेत्कपिलां कन्याम् Ms.3.8. (Kull. = कपिलकेशा).

लः N. of a great sage. [He reduced to ashes 6 sons of Sagara, who while searching for the sacrificial horse of their father taken away by Indra, fell in with him and accused him of having stolen it (see U.1.23.). He is also said to have been the founder of the Sāṅkhya system of philosophy.] ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति Śāṅk Bhāṣ. on Bād. Sūtras 2.1; सिद्धानां कपिलो मुनिः Bg.1.26.

A dog.

Benzoin.

Incense.

A form or fire.

The tawny colour.

Impure benzoin.

N. of the sun.

N. of a country.

One of the incarnation of Viṣṇu.

ला A brown cow; कपिला चेत्तारयति भूयश्चासप्तमं कुलम् Y.1.25.

A kind of perfume.

A kind of timber.

The common leech.

N. of the female elephant of the south east.-Comp. -अक्षी a kind of deer. -अञ्जनः N. of Śiva.-अश्वः an epithet of Indra. -आचार्यः Viṣṇu. -द्युतिः the sun. -द्राक्षा A vine with brown grapes. -द्रुमः A kind of perfume. -धारा N. of the Ganges.

A holy place. -वस्तु N. of the town in which Buddha was born. (कपिला) षष्ठी The sixth day in the dark half of भाद्रपद. -संहिता N. of an Upa-purāṇa. -स्मृतिः f. Sāṅkhya Sūtras of Kapila.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिल mf( आ)n. ( कम्Un2. i , 56 ; more probably connected with कपिBRD. ) , " monkey-coloured " , brown , tawny , reddish RV. x , 27 , 16 S3Br. R. etc.

कपिल mf( आ)n. red-haired Mn. iii , 8

कपिल m. the brown or tawny or reddish colour Sus3r.

कपिल m. a kind of mouse

कपिल m. a kind of ape Katha1s.

कपिल m. a (brown) dog L.

कपिल m. incense L.

कपिल m. N. of an ancient sage (identified by some with विष्णुand considered as the founder of the सांख्यsystem of philosophy) MBh. Bhag. etc.

कपिल m. N. of several other men

कपिल m. of a दानवHariv. 197 BhP.

कपिल m. of a नागMBh. iii , 8010 Hariv. etc.

कपिल m. of a वर्षin कुश-द्वीपVP. ii , 4 , 37

कपिल m. of several mountains

कपिल m. a form of fire MBh. iii , 14197

कपिल m. N. of the sun MBh. iii , 154

कपिल m. pl. N. of a people VarBr2S.

कपिल m. of the Brahmans in शाल्मल-द्वीपVP. ii , 4 , 31

कपिल m. a fabulous cow celebrated in the पुराणs W.

कपिल m. a kind of leech Sus3r. i , 40 , 20

कपिल m. a kind of ant Sus3r. ii , 296 , 12

कपिल m. Dalbergia Sissoo L.

कपिल m. Aloe Perfoliata L.

कपिल m. a sort of perfume L.

कपिल m. a kind of medicinal substance L.

कपिल m. a kind of brass L.

कपिल m. N. of a daughter of दक्षMBh.

कपिल m. of a किंनरwoman Ka1ran2d2.

कपिल m. of a river MBh. iii , 14233 VP.

कपिल m. N. of the female of the elephant पुण्डरीक(See. ) L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the fifth अवतार् of Hari. Born of Kardama and देवहूति. Had nine sisters. Taught the knowledge of Brahman to his mother. फलकम्:F1:  भा. I. 3. १०; II. 7. 3; VIII. 1. 6; Br. III. ६३. १४५ and १४८.फलकम्:/F A सिद्ध। फलकम्:F2:  भा. VI. १५. १३; III. २४. १६-17.फलकम्:/F Propounder of तत्त्वस्। Imparted to आसुरि the साङ्ख्य obscured by time. After Kardama left the family, Kapila lived with his mother at Bindusaras and instructed her on साङ्ख्य तत्त्वस्, तत्त्व- लक्षण, the distinction of प्रकृति and पुरुष, अष्टाङ्ग योग, भक्ति योग, काल, attachment and consequent hell, गर्भ and attachment to women and evils attending thereon, काम्य कर्म and ज्ञान योग; left his mother for north. Being worshipped by Samudra (sea) with अर्घ्य and resi- dence, he devoted his mind to योग। फलकम्:F3:  Ib. III. chapters २४-33; Br. IV. ४०. ६६; M. 3. २९; १०२. १८; १७१. 4 and १९.फलकम्:/F Knew वासुदेव's glory but could not comprehend His माया। फलकम्:F4:  भा. I. 9. १९; IX. 4. ५७.फलकम्:/F Served as calf for Vidyadharas to milk सिद्धि and विद्या। फलकम्:F5:  Ib. IV. १८. १९.फलकम्:/F Attended पृथु's sacrifice. फलकम्:F6:  Ib. IV. १९. 6.फलकम्:/F प्राचीनबर्हिस् who retired from kingly duties came to his hermitage to perform तपस्। फलकम्:F7:  Ib. IV. २९. ८१.फलकम्:/F One of the twelve who knew the धर्म ordained by Hari. फलकम्:F8:  Ib. VI. 3. २०; 8. १६.फलकम्:/F A sage who went about the world imparting knowledge; फलकम्:F9:  Ib. VI. १५. १३.फलकम्:/F would find no fault with Hara's violation of धर्म। फलकम्:F१०:  Ib. VI. १७. १२.फलकम्:/F King रहूगण went to visit him. फलकम्:F११:  Ib. V. १०. 1 and १६.फलकम्:/F Near by his आश्रम was the consecrated horse of Sagara. The ६०,000 सागरस् who searched for it imputed the theft to the sage and attacked him, who in wrath burnt them down. Met by अम्शुमान्, he gave back the horse and said that the सागरस् would get redemption by the Ganges waters. फलकम्:F१२:  Ib. IX. 8. १०-29; XI. १६. १५; Br. III. १५. १५-43; ५३. १७-52; chap. ५४; Vi. IV. 4. १२-28.फलकम्:/F The [page१-312+ २४] four who were not victims to the sage's curse were Barhi- ketu, Saketu, Dharmarata, and पञ्चवन. फलकम्:F१३:  वा. ८८. १४७-53.फलकम्:/F
(II)--a son of Danu. Followed वृत्र in his battle with Indra. Took part in देवासुर war between Bali and Indra. भा. VI. 6. ३०; १०[20]; VIII. १०. २१; Br. III. 6. 5; Vi. I. २१. 4.
(III)--a son of ज्योतिष्मन्, after whom came कपिलवर्ष. Br. II. १४. २८ and ३०; वा. ३३. २४.
(IV)--a काद्रवेय Na1ga in the third talam. (Vitalam, वा। प्।). Br. II. २०. ३०; III. 7. ३६; M. 6. ४१; वा. ५०. २९; ६९. ७३, २१९.
(V)--an यक्ष who married the राक्षसि Kes4ini1. Br. III. 7. १४६; वा. ६९. १२.
(VI)--a chief of the वानरस् Br. III. 7. २३३.
(VII)--a son of Vasudeva and सुगन्धी; took to penance. Br. III. ७१. १८६; M. ४६. २१; वा. ९६. १८२-183.
(VIII)--a son of भद्राश्व. M. ५०. 3.
(IX)--a son of मही (Earth ?) M. १६३. ९०. [page१-313+ ३३]
(X)--a Gandharva. वा. ६९. २६.
(XI)--a son of ब्रह्मा; फलकम्:F1:  वा. १०१. ३३८.फलकम्:/F of the eighth द्वापर। फलकम्:F2:  Ib. २३. १४१.फलकम्:/F
(XII)--a sage; फलकम्:F1:  Vi. I. २२. 8.फलकम्:/F hermitage of, on the इक्षुमती banks; फलकम्:F2:  Ib. II. १३. ५३.फलकम्:/F King सौवीर went to him for consultation on the end of life; फलकम्:F3:  Ib. II. १४. 7.फलकम्:/F a part of विष्णु; फलकम्:F4:  Ib. II. १४. 9.फलकम्:/F विष्णु; in त्रेतायुग to impart knowledge. फलकम्:F5:  Ib. III. 2. ५६.फलकम्:/F
(XIII)--Mt. of कुशद्वीप surrounding the base of Meru. भा. V. १६. २६; २०. १५.
(XIV)--a Mt. west of the Sitoda (Meru-वि। प्।). वा. ३६. २७; ४२. ५०; Vi. II. 2. २९.
(XV)--a Mt. north of the महाभद्र lake. वा. ३६. ३१.
(XVI)--an elephant born of the Rathantara. Br. III. 7. ३३५; वा. ६९. २१९.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapila : m.: A mythical king of serpents.

Called high-spirited (mahātman); a nāgatīrtha, sacred to him, famous in the three worlds 3. 82 28-29.


_______________________________
*1st word in right half of page p10_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapila : m.: A mythical king of serpents.

Called high-spirited (mahātman); a nāgatīrtha, sacred to him, famous in the three worlds 3. 82 28-29.


_______________________________
*1st word in right half of page p10_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapila appears in the Śvetāśvatara Upaniṣad[१] as a teacher, according to Weber[२] and Garbe,[३] who think that the expression kapila ṛṣiḥ there refers to the founder of the Sāṅkhya philosophy. But this is doubtful.[४]

  1. v. 2.
  2. Indische Studien, 1, 24 et seq.;
    5, 412;
    Indian Literature, 236.
  3. Sāṅkhya Philosophie, 27 et seq.;
    Translation of the Śāṅkhyatattvakaumudī, 531.
  4. Max Müller, Sacred Books of the East, 2, xli, and Deussen, in his translation (Sechzig Upanishads, 304), do not take the word as a teacher's name. The latter renders kapila ṛṣiḥ, by ‘the red sage,’ as referring to Hiraṇyagarbha.
"https://sa.wiktionary.org/w/index.php?title=कपिल&oldid=494812" इत्यस्माद् पुनः प्राप्तिः