कबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्धम्, क्ली, (कस्य प्राणवायोः बन्धः आश्रयः । जल- पानमेव प्राणधारणकारणम् । कदापि प्राण- स्थितिः जलं विना नैव स्यात् । यथा, श्रुतिः । “पञ्चदशाहानि माऽशीः काममपः पिनापोमयः प्राणो न पिबतस्ते विच्छेत्स्यते” ।) जलम् । इत्य- मरः । १ । १० । ४ ॥ (यथा, ऋग्वेदे ५ । ८५ । ३ । “नीचीनवारं वरुणः कबन्धं प्रससर्ज रोदसी अन्त- रीक्षम्” ॥)

कबन्धः पुं, (कं सुखं बध्यते रुध्यतेऽस्मात् । क + बन्ध + घञ् ।) राहुः । रक्षोविशेषः । (यथा, रघुः १२ । ५७ । “बधनिर्द्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्च्छसख्यं रामस्य समानव्यसने हरौ” ॥ अस्य विवरणादिकमुच्यते । पुरा किल दनुनामा कश्चिद्दानवः उग्रेण तपसा पितामहं सन्तोषयन् दीर्घमायुः प्राप्तवान् । प्राप्तदीर्घायुरतिगर्व्वः सुर- राजेन सह योद्धुं सुरपुरमगच्छत् । शक्रस्तु रण- भूमिगतः प्रमुक्तेन वज्रेणास्य सक्थिनी शिरश्च शरीरमध्येप्रावेशयत् । न त्वसौ पितामहवरप्रभा- वतया प्राणान् मुमोच । अथ स एवं विकृत- विग्रहोऽनाहारादितया क्लिश्यमानो बहुधा या- चमानः सुरपतिं प्रसादयामास । इन्द्रस्तु प्रसन्नो यो- जनमायतौ बाहू तीक्ष्णदंष्ट्रञ्च वदनमस्मै वक्षसि प्रादात् । तदा प्रभृत्येवासौ वने विचरन् सुदीर्घ- बाहुभ्यां वनजादीन् प्राणिनो गृहीत्वा भक्षयन् विचचार । अथ गच्छति काले दशरथात्मजो रामः ससीतालक्ष्मणः पितृसत्यपालनार्थं वने भ्रम- न्नमुना कबन्धेन सम्प्राप्तः । प्रभूतबलशालिनानेन गृहीतोऽपि रामः स्वखङ्गेनैनं व्यापादयामास । अथ रामहस्तनाशात् प्राप्तशापमोचनसमयो- ऽयं कबन्धः विकृतरूपं विहाय दिव्यमूर्त्तिधरः स्वर्लोकं ययौ । इति वाल्मीकियरामायणमतम् । महाभारतमते तु अयं विश्वावसुनामा गन्धर्व्व आसीत् ब्राह्मणशापेन राक्षसयोनिं प्राप्तवान् । यदुक्तं तत्रैव ३ । २७८ । ४२ । “तस्याचचक्षे गन्धर्व्वो विश्वावसुरहं नृप ! । प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम्” ॥) उदरम् । इति मेदिनी ॥ (केन वायुना बध्यते संबध्यते वा । धूमकेतुः । प्रवहवायुनोपचीयमान- त्वात् तथात्वंतस्य च लोकसुखनाशकत्वं प्रसिद्धम् ॥)

कबन्धः, पुं, क्ली, (केन प्राणवायुना पुनर्बध्यते सम्ब- ध्यते मस्तकहीनस्यापि दैवेन प्राणावेशात् जीव- तो नरस्येव क्रियाकारित्वशक्तित्वात्तथात्वम् । क + बन्ध + घञ् ।) क्रियायुक्तापमूर्द्धकलेवरम् । इत्य- मरः २ । ८ । ११८ ॥ यथा, मार्कण्डेये ८२ । ६३ । “कबन्धाश्छिन्नशिरसः खङ्गशक्त्यृष्टिपाणयः” ॥ अपि च । “नागानामयुतं तुरङ्गनियुतं सार्द्धं रथानां शतं पत्तीनां दशकोटयो निपतिता एकः कबन्धो रणे । तादृक्कोटिकबन्धनर्त्तनविधौ खेलच्चलत् खे शिरस्तेषां कोटिनिपातने रघुपतेः कोदण्डघण्टारवः” ॥ इति प्राचीनाः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्ध नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।1।1

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

कबन्ध पुं-नपुं।

छिन्नशिरसः_शरीरम्

समानार्थक:कबन्ध

2।8।118।1।1

कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्. श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्ध¦ पु॰ कं जलं बध्नाति बन्ध--अण्, केन वायुना बध्यते,बन्ध--कर्म्मणि घञ्, कोवायुः प्राणकयुर्बध्यते संबध्यतेऽत्राधारे घञ् वा यथायथं वाक्यम्।

१ उदरे तस्यपीतजलनिरोधनात् तथात्वम्।

२ धूमकेतौ, प्रवहवा-युना निचीयमानत्वात्तस्य तथात्वम्

३ राहौ, तस्यच्छिन्नमस्तकत्वेऽपि अमृतपानात् जीवनसत्त्वेन क्रिया-वत्त्वात् तथात्वम्

४ राक्षसभेदे च मेदि॰

५ जलेअमरः तस्य प्राणवायुधारकत्वात् तथात्वम्
“आ-पोमयः प्राणः” इति छा॰ उ॰ श्रुतेस्तस्य प्राणधारणकरत्वम्
“पञ्चदशाहानि माऽशीः काममपः पिबापोमयःप्राणो न पिबतस्ते विच्छेत्स्यते” छा॰ उ॰ जनपानं विनाप्राणविच्छेदस्योक्तेस्तथात्वम्।
“मनुष्याणां सहस्रेषुंहतेषुहृतमूर्द्धसु। तदावेशात् कबन्धः स्यादेकोऽमूर्द्धाक्रियान्वितः” इत्युक्तलक्षणे शिरःशून्ये

६ क्रियायुक्तदेहे अस्त्री अमरः।
“कबन्धाश्छिन्नशिरसः खड्गशक्त्तृष्टिपाणयः” देवीमा॰।
“नागानामयुतं तुरङ्गनियुतं सार्द्धं रथानां शतं पत्तीनांदश कोटयो निपतिता एकः कबन्धोरणे। तादृक्कोटिकबन्धनर्त्तनविधौ खेलच्चलत् खे शिरस्तेषां कोटिनिपातनेरघुपतेः कीदण्डघण्टारवः” प्राचीनगाथा।
“यस्यनेष्यति वपुः कबन्धताम्” चलितोर्द्धकबन्धसस्पदः” माघः।
“कश्चित् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुता-मुपेत्य। वामाङ्गसं सक्तसुराङ्गनः स्वं नृत्यत् कबन्धं समरेददर्श”।
“उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन” रघुः। तद्देहस्य शिरःशून्यत्वेऽपि वायोः सम्यग्निःसर-णाभावेन वायुना सम्बन्धसत्त्वात् क्रियासम्भव इति बोध्यम[Page1679-b+ 38]

७ मेघे निरुक्ते

५ ,


“निचीनवारं वरुणंकबन्धम्” इत्यृचम-धिकृत्योक्तम्
“कबन्धं मेघम् कमुदकं भवति तदस्मिन् धीयते,उदकमपि कबन्धमुच्यते बन्धिरनिभृतत्वे कमनिभृतञ्च इति” तत्रोक्तेः तत्र पृषो॰ साधुत्वम्। कबन्धराक्षसकथा च भा॰ य॰

२३

७ अ॰ यथा।
“दुःखशोकसमाविष्टौ वैदेहीहरणार्द्दितौ। जम्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ। वने महति त-स्मिंस्तु रामः सौमित्रिणा सह। ददर्श मृगयूथानि द्रव-माणानि सर्व्वशः। शब्दञ्च घोरं सत्वानां दावाग्नेरिववर्द्धतः। अपश्यतां मुहूर्त्ताच्च कबन्धं घोरदर्शनम्। मेघ-पर्व्वतसङ्काशं सालस्कन्धं महाभुजम्। उरोगतविशालाक्षंमहोदरमहामुखम्। यदृच्छयाथ तद्रक्षः करे जग्राहलक्ष्मणम्। विषादमगमत् सद्यः सौमित्रिरथ भारत!। स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्। विषण्णश्चा-ब्रवीद्रामं पश्यावस्थामिमां मम। हरणञ्चैव वैदेह्या ममचायमुपप्लवः। राज्यम्रंशश्च भवतस्तातस्य मरणं तथा। नाहं त्वां सह वैदेह्या समेतं कोशलागतम्। द्रक्ष्याभिपृथिवीराज्ये पितृपैतामहे स्थितम्। द्रक्ष्यन्त्यार्य्यस्यधन्या ये कुशलाजशमीजलैः। अभिषिक्तस्य वदनं सोमंशान्तघनं यथा। एवं बहुविधं धीमान् विललाप सलक्ष्मणः। तमवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः। मा विषीद नरव्याघ्र! नैष कश्चिन्मयि स्थिते। छिन्ध्यस्यदक्षिणं बाहुं छिन्नः सव्यो मया भुजः। इत्येवं वदतानस्य भुजो रामेण पातितः। खड्गेन भृशतीक्ष्णेन नि-त्तिस्तिलकाण्डवत्। ततोऽस्य दक्षिणं बाहुं खड्गेननघ्निबान् बली। सौमित्रिरपि संप्रेक्ष्य म्रातरं राघवंस्थितम्। पुनर्जघान पार्श्वेवै तद्रक्षो लक्षणो भृशम्। गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः। तस्य देहाद्विनिः-सृत्य पुरुषो दिव्यदर्शनः। ददृशे दिवमास्थाय दिविसूर्य्य इव ज्वलन्। पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रव्रूपिपृच्छतः। का माया किमिदं चित्रमाश्चर्य्यं प्रतिभाति मेतस्याचचक्षे गन्धर्व्वोविश्वावसुरहं नृप!। प्राप्तो ब्राह्मणशा-पेन योनिं राक्षससेविताम्। रावणेन हृता सीता राम। लङ्काधिवासिना। सुग्रीवमभिगच्छ त्वं स ते सह्यं करि-ष्यति। एषा पम्पा शिवजला हंसकारण्डवैर्युता। ऋष्यमूकस्य शैलस्य सन्निकर्षे तडागिनी। वसते तत्र सु-ग्रीवश्चतुर्भिः सचिवैः सह। भ्राता वानरराजस्य वालि-नो हेममालिनः। तेन त्वं सह सङ्गम्य दुःखमूलं निवे-दय। समानशीलो भवतः साहाय्यस करिष्यति। [Page1680-a+ 38] एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्। ध्रुवंवानरराजस्य विदितो रावणालयः। इत्युक्त्वान्तर्हितोदिव्यः पुरुषः स महाप्रभः। विस्मितं जग्मतुश्चोभौ प्रवीरौरामलक्ष्मणौ”।
“बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्ध¦ mn. (-न्धः-न्धं) A headless trunk, especially retaining vitality. n. (-न्धं) Water. m. (-न्धः)
1. A name of RAHU.
2. Also of a demon de- stroyed by RAMA.
3. The belly. E. कं the head, and बध् to injure, to lop, affix अच्; also कं water, and बन्ध binding, attaching.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्धः [kabandhḥ] न्धम् [ndham], न्धम् A headless trunk (especially when it retains life); (स्वं) नृत्यत्कबन्धं समरे ददर्श R.7.51, 12.49; शिवातूर्यनृत्यत्कबन्धे Ve.1.27. यस्य नेष्यति वपुः कबन्धताम् Śi.

न्धः The belly; a large belly-like vessel; वसोः कबन्धमृषभो बिभर्ति Av.9.4.3.

A cloud.

A comet.

N. of Rāhu.

Water (said to be n. also in this sense); Śi.16.67.

N. of a mighty demon mentioned in the Rāmāyana. [While Rāma and Lakṣmaṇa lived in the Dandkā forest, Kabandha attacked them and was slain by them. It is said that, though at first a heavenly being, he was cursed by Indra to assume the form of a demon and to be in that state till killed by Rāma and Laksmaṇa. He advised Rāma to form friendship with Sugrīva; see Rām.3.69.27 ff.; वधनिर्धूतशापस्य कबन्धस्योपदेशतः । मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥ R.12.57].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्ध mn. (sometimes written कवन्ध)a big barrel or cask , a large-bellied vessel (metaphorically applied to a cloud) RV. AV. ix , 4 , 3 ; x , 2 , 3

कबन्ध mn. ( ep. ) the clouds which obscure the sun at sunset and sunrise (sometimes personified) MBh.

कबन्ध mn. the belly Nir.

कबन्ध mn. a headless trunk (shaped like a barrel ; esp. one retaining vitality W. ) R. Pan5cat. Ragh. etc.

कबन्ध m. N. of the राक्षसदनु(son of श्री; punished by इन्द्रfor insolently challenging him to combat ; his head and thighs were forced into his body by a blow from the god's thunderbolt , leaving him with long arms and a huge mouth in his belly ; it was predicted that he would not recover his original shape until his arms were cut off by रामand लक्ष्मण). R. iii , 69 , 27ff. Hariv. Ragh. etc.

कबन्ध m. N. of राहुL.

कबन्ध m. N. of certain केतुs (96 in number) VarBr2S.

कबन्ध m. N. of an आथर्वणand गन्धर्वS3Br. xiv ( कबन्ध) VP. etc.

कबन्ध n. water Sa1y. and L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--killed by श्री Ra1ma; an Asura in Tat- valam. भा. IX. १०. १२; Br. II. २०. १६; Vi. IV. 4. ९६.
(II)--a pupil of Sumantu of Atharvan fame. He imparted the Veda to two disciples Pathya and Deva- दर्श (वेदस्पर्श,-वा। प्।) dividing it into two. Br. II. ३५. ५६; वा. ६१. ५०; Vi. III. 6. 9.
(III)--an Asura chief in Atalam. वा. ५०. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kabandha : m.: See Rāhu.

p. 239. 1. 18 read 3. 186. 22; and add: Mārkaṇḍeya told Yudhiṣṭhira that when Candra, Sūrya, Tiṣya (Puṣya) and Bṛhaspati will come together in one rāśi, the Kṛtayuga will commence 3. 188. 87 (for citation and Nī.'s commentary on Bom. Ed. 3. 190. 90 see Puṣya^1 below p 257. 1-2).

p. 244. 2 last line after Āgneya add: [See Vahnidaivata ].

p. 245. 1 before the entry Kaumuda add the following entry:


_______________________________
*1st word in right half of page p283_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kabandha : m.: See Rāhu.

p. 239. 1. 18 read 3. 186. 22; and add: Mārkaṇḍeya told Yudhiṣṭhira that when Candra, Sūrya, Tiṣya (Puṣya) and Bṛhaspati will come together in one rāśi, the Kṛtayuga will commence 3. 188. 87 (for citation and Nī.'s commentary on Bom. Ed. 3. 190. 90 see Puṣya^1 below p 257. 1-2).

p. 244. 2 last line after Āgneya add: [See Vahnidaivata ].

p. 245. 1 before the entry Kaumuda add the following entry:


_______________________________
*1st word in right half of page p283_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कबन्ध पु.
(न) शिरोविहीन धड़ ‘अपः कबन्धानि अभ्य- वहरन्ति’, आप.श्रौ.सू. 16.8.1 (अगिन्वेदि का चयन)। कमण्डलु (पु.) न. यजमान की पत्नी के द्वारा अनुष्ठित एक कृत्य के लिए प्रयुक्त जल के वहन के निमित्त एक कमण्डल, आप.श्रौ.सू. 3.8.1 (दर्श); 2०.22.1; बौ.श्रौ.सू. 15.15.7; 2०.27.2०; वाधू.श्रौ.सू. 3.76ः24; द्रष्टव्य-श्रौ.को. (सं.) 11.54०।

"https://sa.wiktionary.org/w/index.php?title=कबन्ध&oldid=494868" इत्यस्माद् प्रतिप्राप्तम्