कम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम, उ क ङ स्पृ हि । इति कविकल्पद्रुमः ॥ (चुरां --आत्मं--सकं--सेट् ।) उ कमित्वा कान्त्वा । क ङ कामयते । अन्यैर्भ्वादौ पठ्यमानस्याप्यस्य कित्क- रणं कम ऋत इत्यादिना विहितस्य ञिङो ज्ञापनार्थं तेन अरे ञिङोऽप्राप्तिपक्षे अचकमत । चकमे कमिता इत्यादि सिद्धम् । इति दुर्गा- दासः ॥

कम, उ ङ कान्तौ । इति मुग्धबोधव्याकरणम् । (भ्वां-आत्मं-अकं-सेट् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम¦ वाञ्छायां भ्वा॰ आ॰ सक॰ सेट्। अतः स्वार्थे णिङ् आ-र्द्धधातुके वा। कामयते कामयीत कामयताम् अकामयत। अचीकमत। णिङभावपक्षेऽपि चञ् अचकमत। कामयाम्बभूव आस चके चकमे। कामयिता--कमिता कामयिषीष्ट-कमिषोष्ट। कामयिष्यते--कमिष्यते। कामनीयः कमनीयःकाम्यः। कामयितव्यः--कमितव्यः। कामी। कामयिता-कमिता कानितः कान्तः। कान्तिः। कर्त्तरि अच् कमः कर्म-ण्युपपदे अण्। स्वर्गकामः। उदित् कामयित्वा कामत्वा का-न्त्वा। कामुकः कम्रः कमनः कामयमानः नि॰ काम-यानः। काम्यते काम्यमानः। घञ् कामः मुच का-[Page1680-b+ 38] मना।
“नरपतिश्चकमे मृगयारतिम्”
“निष्क्रष्टेमर्थं चकमेकुवेरात्”
“भीमकान्तैर्नृपगुणैः”
“नवं वयः कान्तमिदंवपुश्च” रघुः।
“सोऽकामत बहु स्यां प्रजायेय” श्रुतिः
“रमणीकमनीयकपीलतले” सा॰ द॰ टी॰।
“स चेत् कामयतेदातुं तव मामरिसूदन!” भा॰ आ॰

१७

२ ।
“सर्वान्कामयते यस्मात्” कत्याशब्दे उक्तम्।
“प्रीत्या युक्तः का-मितं सर्वशस्ते” भा॰ आ॰

५८
“कामयाञ्चक्रिरे कान्ता-स्ततस्तुष्टानिशाचराः”
“अकम्पनस्ततो योद्धु चकमेरावणाज्ञया” भाट्टः। आर्वे क्वचिन् पर॰।
“एवं रूपनलं यो वै कामयेच्छपितुं कले। ” भा॰ व॰

५८ अ॰।
“न च सीता दशग्रीवं मनसापि हि कामयेत्”
“अकामोऽपि बलात् कामं दर्शनादेव कामयेत्” रामा॰। अनु + कामनानुरूपकामनायाम्। अनुकामयते। षभि + आप्रिमुख्येम कामनायाम्।
“दासीं कन्यासहस्रेणशर्म्मिष्ठामभिकामये” भा॰ आ॰

१८ । नि + निःशेषकामनायाम्।
“या तस्य ते पादसरोरुहार्हणं नि-कामयेत् साऽखिलकामलम्पटा” भाग॰

५ स्क॰

१८ ,

२२ । अतिशये च
“निकामतप्ता{??}विधेन बह्निना” कुमा॰प्र + प्रकर्षेण कामनायां अतिशये। प्रकामः।

कम¦ वाञ्छायां चुरा॰ आ॰ सक॰ सेट् उदित् कविकल्पद्रुमः। णिङन्तकमवत् सर्वंम्। किन्तु तत्र उदित्प्रयोजनं चिन्त्यम।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम(उ)कमु¦ r. 1st cl. (कामयति) To desire: this root is irregular.

"https://sa.wiktionary.org/w/index.php?title=कम&oldid=494875" इत्यस्माद् प्रतिप्राप्तम्