कमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमलम्, क्ली, (कमेः णिङ् भावे वृषादित्वात् कलच् । कम् जलं अलति अलंकरोति वा । अल् + अच् । अन्तणिजन्तो वा ।) जलजपुष्पविशेषः । तत्पर्य्यायः । पद्मम् २ पाथोजम् ३ नलम् ४ नलिनम् ५ अम्भो- जभ् ६ अम्बुजन्म ७ अम्बुजम् ८ श्रीः ९ अम्बुरु- हम् १० अम्बुपद्मम् ११ सुजलम् १२ अम्भोरु- हम् १३ सारसम् १४ पङ्कजम् १५ सरसीरुहम् १६ कुटपम् १७ पाथोरुहम् १८ पुष्करम् १९ वार्ज्जम् २० तामरसम् २१ कुशेशयम् २२ कञ्जम् २३ कजम् २४ अरविन्दम् २५ शतपत्रम् २६ विसकुसुमम् २७ सहस्रपत्रम् २८ महोत्पलम् २९ वारिरुहम् ३० सरसिजम् ३१ सलिलजम् ३२ पङ्केरुहम् ३३ राजीवम् ३४ । (यथा रघुः । ३ । ३६ । “अगच्छदंशेन गुणाभिलाषिणी नवावतार कमलादिवोत्पलम्” ॥) अस्य गुणाः शीतलत्वम् । स्वादुत्वम् । रक्तपित्त- भ्रमार्त्तिनाशित्वम् । सुगन्धित्वम् । भ्रान्तिसन्ताप- शान्तिपरमतृप्तिकारित्वञ्च । इति राजनिर्घण्टः ॥ (तथाच भावप्रकाशः । “कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् । तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम् ॥ विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् । रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥ धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम्” ॥) जलम् । ताम्रम् । क्लोम । औषधम् । इति मे- दिनी ॥ सारसपक्षी । इत्यमरः । १ । १० । ४० ॥

कमलः, पुं, (कमेः + कलच् । यद्वा को वायुः तस्य अमः गतिः तं लाति आदत्ते । क + अम + ला + कः ।) मृगविशेषः । इति मेदिनी ॥ ध्रुवकभेदः । यथा, सङ्गीतदामोदरः ॥ “उक्तो मलयतालेन लघुमध्ये स्फुरेद्गुरुः । सप्तदशाक्षरैर्युक्तः कमलोऽयं भयानके” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमल नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।5

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

कमल नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।40।1।2

सहस्रपत्रं कमलं शतपत्रं कुशेशयम्. पङ्केरुहं तामरसं सारसं सरसीरुहम्.।

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

कमल पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

3।3।195।1।1

स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः। करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्.।

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमल¦ न॰ कम--वृषादि॰ कलच्।

१ पद्मे तद्भेदस्त्य त-दवयवभेदस्य च गुणादि भावप्र॰ उक्तं यथा(
“कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित्। तृष्णा-दाहास्रविस्फोटविषवीसपनाशनम्। विशेषतः सितंपद्मं पुण्डरीकमिति स्मृतम्। रक्तं कोकनदं ज्ञेयंनीलमिन्दीवरं स्मृतम्। धवलं कमलं शीतं मधुरंकफपित्तजित्। तस्मादल्पगुणं किञ्चिदन्यद् रक्तो-त्पलादिकम्। भूलनालदलोत्फुल्लफलैः समु-दिता पुनः। पद्मिनी प्रोच्यते प्राज्ञैर्विसिन्यादिश्चसा स्मृता। आदिशब्दान्नलिनी कमलिनीत्यादि। [Page1681-b+ 38] पद्मिनी शीतला गुर्व्वी मधुरा लवणा च सा। पित्तासृक्वफनुद्रूक्षा वातविष्टम्भकारिणी। अथ नवपत्रादि। संवर्त्तिका नवदलं वीजकोषस्तु कर्णिका। किञ्जल्कः केश-रः प्रोक्तः मकरन्दो रसः स्मृतः। मृणालं पद्मनालंस्यात्तथा विसमिति स्मृतम्। संवर्त्तिकाहिमा तिक्ताकवाया दाहतृट्प्रणुत्। मूत्रकृच्छ्रगुदव्याधिरक्तपित्तविनाशिनी। पद्मस्य कर्णिका तिक्ता कषाया मधुराहिमा। मुखवैशद्य कृल्लव्वी तृष्णास्रकफपित्तनुत्। किञ्जल्कशोतलो वृष्यः कषायो ग्राहकोऽपि सः। कफपित्ततृ-षादाहरक्तार्शोविषशोथजित्। मृणालं वृष्यमधुरंपित्तदाहास्रजिद्गुरु। दुर्ज्जरं स्वदुपाकञ्च स्तन्यानिल-कफप्रदम्। संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम्”।
“नवावतारं कमलादिवोत्पलम्” रघुः।
“प्रत्यूषेषुस्फटितकमलामोदमैत्रीकषायः”
“धारापातैस्त्वमिव कम-लान्यभ्यवर्षन्मुखानि” मेघ॰
“अमलकमलराशेः” लीला॰
“न कमलं कमलम्भयदम्भसि” माघः। कमलयोनिः कम-लासनः।

२ क्लोम्नि

३ भेषजे

४ सलिले

५ ताम्रे हेम॰

६ मृगभेदे पुंस्त्री स्त्रियां ङीष्

७ लक्ष्म्यां

८ वरनाय्यांस्त्री मेदि॰।

९ सारसपक्षिणि अमरः कमलनामनामत्वा-त्तस्य स्त्रियां ङीष्।

१० स्वनामख्याते जग्वीरभेदेस्त्री
“रम्भाफलं तिन्तिडीकं कमलानागरङ्गकम्। फला-न्येतानि भोज्यानि एभ्योऽन्यानि विवर्जयेत्” तन्त्रसा॰पुरश्चरणनियमे। तद्गुणाश्च भावप्र॰ उक्ता यथा।
“मि-ष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत्। गररोगविषध्वं-सि कफोत्क्लेशि च रक्तहृत्। शोषारुचितृषाच्छर्द्दिहरंबल्यञ्च वृंहणम्”

११ मिथिलास्थे नदीभेदेस्त्री।

१२ छन्दो-भेदे स्त्री। तल्लक्षणं वृत्तरत्नावल्यां द्विधोक्तम् यथा
“द्विगुण-नगणसहितः सगणैह हि विहितः। फणिपतिमति-विमला क्षितिप! भवति कमलेति”
“वमुभिः प्रमिता सग-णाविहिताः पुनरेकमितोनिहितोगुरुरन्ते। यदि सत्-कवयोविलसन्मतयोऽभिधया कमलेति तदाकलयन्ते” (गोलापी)

१३ पाटलवर्णे

१४ तद्वति त्रि॰।
“शवलाय स्वाहाकमलाय स्वाहा पृश्नवे स्वाहा तैत्ति॰

७ ,

३ ,

१८ ,

१ । अस्य गुणवचनत्वात् स्त्रियां बह्वादि॰ वा ङीष्। कमलीकमलानां संघः खण्ड। कमण्डलखण्ड पद्मसंघे न॰तस्य देशः पुस्क॰ इनि। कमलिनी भावप्र॰ उक्ते वीज-कोषादौ स्त्री
“कमलिनीमलिना दिवसात्यये” उद्भटः।
“उक्तोमलयतालेन लघुमध्ये स्फुरेद्गुरुः। सप्तदशाक्षरै-[Page1682-a+ 38] र्युक्तः कमलोऽयं भयानके” सङ्गीतशास्त्रोक्ते

१५ घ्रुबभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमल¦ n. (-लं)
1. A lotus, (Nelumbium speciosum or Nymphæa nelum- bo.)
2. Water.
3. Copper.
4. A medicament, a drug.
5. The blad- der. m. (-लः) A species of deer. f. (-ला)
1. A name of LAKSHMI.
2. An excellent woman. E. कम् water, and अल what adorns, or कम् to desire, with कलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमल [kamala], a.

Desirous.

Palered.

लः The &Sārasa bird.

A kind of deer.

N. of Brahmā. -ली A collection of lotuses. -लम् [कम्-कलच्]

A lotus; कमल- मनम्भसि कमले च कुवलये तानि कनकललतिकायाम् K. P.1; so हस्त˚, नेत्र˚, चरण˚, &c.

Water; N.1.13; सकमलं कमलम् Ki.5.25. कमलासन-कमलेक्षण-कमलारिकिरीट-कमलभृद्वाहैः Subhās. (लक्ष्मीप्रशंसा).

Copper.

A medicament, drug.

The Sārasa bird.

The bladder, the right lobe of the lungs.

Comp. अक्षः The lotus-seed.

Viṣṇu; कमलाक्षः पद्मबीजे विष्णावपि पुमान् भवेत् Nm.-अक्षी a lotus-eyed lady.

आकरः an assemblage of lotuses. हरिदश्वः कमलाकरान्.

a lake full of lotuses.-आलया an epithet of Lakṣmī; Mu.2. -आसनः 'lotus-seated' N. of Brahmā; क्रान्तानि पूर्वं कमलासनेन Ku.7.7. -ईक्षणः N. of Viṣṇu. -ईक्षणा a lotus-eyed lady. -उत्तरम् safflower. -खण्डम् an assemblage of lotuses.

जम् an epithet of Brahmā.

the lunar asterism called Rohiṇī. -जन्मन् -m., -पत्त्राक्ष N. of Kṛiṣṇa त्वत्तः कमलपत्त्राक्ष Bg.11.2. -भवः, -योनिः, -संभवः 'lotus-born', epithet of Brahmā. -भृत् A cloud. Hence कमलभृद्वाहः (= मेघवाहनः = इन्द्रः) cf. कमलासन-कमलेक्षण- कमलारिकिरीट-कमलभृद्वाहैः । नुतपदकमला कमला करधृतकमला करोतु मे कमलम् ॥ Subhās.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमल mfn. (Comm. on Un2. i , 106 )pale-red , rose-coloured TS. vii , 3 , 18 , 1

कमल mfn. ( कमल) AV. viii , 6 , 9 (desirous , lustful BRD. )

कमल m. a species of deer L.

कमल m. the Indian crane (Ardea Sibirica) L.

कमल m. N. of ब्रह्माL.

कमल m. of a pupil of वैशम्पायनKa1s3.

कमल m. of an असुरGan2P.

कमल m. (in mus.) a particular ध्रुवक(See. )

कमल mn. a lotus , lotus-flower , Nelumbium Sus3r. S3ak. Bhartr2. etc.

कमल mn. wealth , prosperity Subh.

कमल f( ई)n. N. of a metre (four times three short syllables)

कमल n. a particular constellation VarBr2.

कमल n. water Kir. v , 25

कमल n. copper L.

कमल n. the bladder L.

कमल n. a medicament , drug L.

कमल n. N. of a town built by कमलाRa1jat.

कमल n. a particular number Buddh.

कमल See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=कमल&oldid=494884" इत्यस्माद् प्रतिप्राप्तम्