कर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
करः, पुं, (कं सुस्वं राति ददातीति । रा + कः ।) राज- स्वम् । खाजाना इति पारस्यभाषा । तत्पर्य्यायः । भागधेयः २ बलिः ३ । इत्यमरः । २ । ८ । २७ ॥ कारः ४ । इति तट्टीका ॥ प्रत्यायः ५ । इति मेदिनी ॥ * ॥ अथ राज्ञां करग्रहणप्रकारः । क्रयविक्रयादिना लाभादीन् संप्रेक्ष्य राज्ञा करो ग्रहीतव्यः । यथा, मनुः । ७ । १२७-१३३ । “क्रयविक्रयमध्वानं भक्तञ्च सपरिव्ययम् । योगक्षेमञ्च संप्रेक्ष्य बणिजो दापयेत् करान् ॥ यथा फलेन युज्येत राजा कर्त्ता च कर्म्मणां । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान्” ॥ * ॥ राज्ञा राज्यात् वार्षिकः करोऽल्पाल्पं कृत्वा ग्रहीतव्यः । यथा, -- “यथाल्पाल्पमदन्त्याद्यं वार्य्योकोवत्सषट्पदाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः” ॥ मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागरूपः करो ग्राह्यः ॥ धान्यानां भूम्युत्कर्षापेक्षया कर्ष- काणां क्लेशलाघवगौरवापेक्षया च षष्ठोऽष्टमो द्वादशो वा भागो राज्ञा ग्रहीतव्यः । यथा, -- “पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा” ॥ * ॥ द्रुमाश्ममधुसर्पिरादीनां षड्भागो लाभात् ग्रहणीयः । यथा, -- “आददीताथ षड्भागं द्रुमाश्ममधुसर्पिषाम् । गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥ पत्रशाकतृणानाञ्च चर्म्मणां वैदलस्य च । मृ मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य च” ॥ * ॥ अतिक्षीणधनोऽपि राजा श्रोत्रियब्राह्मणात् करं न गृह्णीयात् । यथा, -- “म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् । न च क्षुधास्य संसीदेच्छोत्रियो विषये वसन्” ॥ * ॥ (कीर्य्यते विक्षिप्यतेऽसौ कर्म्मणि + अप् । हस्त- करिशुण्डयोस्तु करणेऽपि अप् ॥) वर्षोपलः । किरणः । (यथा रामायणे ६ । ११ । ४४ । “तीक्ष्णः पटुर्दिनकरः करैस्तापयते जगत्” ॥) हस्तः । (अमरः । ३ । ३ । १६३ ॥) हस्तिशुण्डः । इति मेदिनी ॥ (यथा, महाभारते ३ । ११ । २८ । “एवन्तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते । ऊरुं गजकराकारं करेणाभिजघान सः” ॥) कर्म्मोपपदे कर्त्तृवाचकः । यथा । सुखकर इत्यादि ॥ (यथा, रामायणे ६ । ११ । ४४ । “तीक्ष्णः पटुर्दिनकरः करैस्तापयते जगत् । प्रतिलोमश्च ते वायुस्त्वत्परामवलक्षणम्” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर पुं।
किरणः
समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु
1।3।33।2।2
किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।
: ज्योत्स्ना, रवेरर्चिः
पदार्थ-विभागः : , द्रव्यम्, तेजः
कर पुं।
बलिः
समानार्थक:भागधेय,कर,बलि
2।8।27।1।3
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः। घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम्.।
पदार्थ-विभागः : धनम्
कर पुं।
हस्तः
समानार्थक:पञ्चशाख,शय,पाणि,हस्त,कर
3।3।164।2।2
अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ। ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥
अवयव : करबहिर्भागः,अङ्गुष्ठसमीपाङ्गुली,अङ्गुली,प्रथमाङ्गुली,तर्जनी,मध्याङ्गुली,कनिष्ठिकासमीपवर्त्यङ्गुली,कनिष्ठाङ्गुली,वामदक्षिणपाण्यौ_मिलितविस्तृताङ्गुली,विस्तृतकरः,मुद्रिताङ्गुली
: तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः, मध्यमासहिताङ्गुष्ठविस्तृतहस्तः, अनामिकासहिताङ्गुष्ठविस्तृतहस्तः, कनिष्ठासहिताङ्गुष्टविस्तृतः, विस्तृताङ्गुलपाणिः, अञ्जलिः, बद्धमुष्टिहस्तः, कनिष्ठिकायुक्तबद्धमुष्टिहस्तः
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर¦ पु॰ कीर्य्यते विक्षिम्यतेऽनेन कॄ--करणे अप्।
१ हस्तेहस्तिशुण्डे च तयोर्जलादिक्षेपसाधनत्वात् तथात्वम्
२ कर्म्मणि अप्।
३ किरणे मेदिनिः। तत्र हस्तकिरणयोः
“प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाध-नता। अवलम्बनाय दिनभर्त्तुरभूपन्न पतिष्यतः करसह-स्रमपि”
“स्थितः कराग्रैरसमग्रपातिभिः” माघः। हस्ते
“के-शान्नीवीमधः कायं संस्पृशेत् धरणीमपि। यदि स्पृशतिचैतानि भूयःप्रक्षलयेत् करम्” आ॰ त॰ देवलः नेत्यनु-[Page1685-b+ 38] वृत्तिः
“वामः काञ्चनपिञ्जरे नृपकराग्भोजैन्तनूमार्जनम्” उद्भटः।
“तथा वामकरे दश” मनुः। कंसुखं राठिरा क।
४ राजग्राह्ये राजस्ये तत्र राजग्राह्यहस्तयोः
“असम्भवद्घनरसा शतालिपरिषेविता। करं न सहतेराजन्! भूभिर्नवबधूरिव”।
“तन्वि तव कुचावेतौ नियतंचक्रवर्त्तिनौ। आसमुद्रक्षितीशोऽपि भवान् यत्र करप्रदः” उद्भटः। यथा च राज्ञा करनिवेशनं राष्ट्रे करणीयंतथा मनुनोक्तम् यथा
“क्रयविक्रयभध्वानं भक्तञ्च सपरिव्ययम्। योगक्षेमञ्चसम्प्रेक्ष्य बणिजो दापयेत् करान्। याथा फलेन युज्येतराजा कर्त्ता च कर्म्मणाम्। तथावेक्ष्य नृपो राष्ट्रेकल्पयेत् सततं करान्। यथाल्पाल्पमदन्त्याद्यं वार्य्यो-कोवत्सषट्पदाः। तथाल्पाल्पो ग्रहीतव्यो राष्ट्रा-द्राज्ञाव्दिकः करः। पञ्चाशद्भाग आदेयो राज्ञा पशु-हिरण्ड्ययोः। धान्यानामष्टमो भागः षष्ठो द्वादश एववा। आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्। ग-न्धौषधिरसानाञ्च पुष्पमूलफलस्य च। पत्रशाकतृणा-नाञ्च वैदलस्य च चर्म्मणाम्। मृण्मयानाञ्च भाण्डा-नां सर्व्वस्याश्ममयस्य च। म्रियमाणोऽप्याददीत न-राजा श्रोत्रियात् करम्। न च क्षुधाऽस्य संसीदेच्छ्रो-त्रियो विषये वसन्। यस्य राज्ञस्तु विषये श्रोत्रियःसीदति क्षुधा। तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति। श्रुतवृत्ते विदत्वाऽस्य वृत्तिं धर्म्म्यां प्रकल्पयेत्। संरक्षेत्सर्व्वतश्चैनं पिता पुत्त्रामिवौरसम्। संरक्ष्यमाणो राज्ञायं कुरुते धर्म्ममन्वहम्। तेनायुर्वर्द्धते राज्ञो द्रविणंराष्ट्रमेव च। यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम्। व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्। कारु-कान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः। एकैकं कार-येत् कर्म्म मासि मासि महीपतिः। नोच्छिन्द्यादात्मनो-मूलं परेषाञ्चातितृष्णया। उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च प्रीडयेत्” व्याख्यातञ्चेदं कुल्लूकभट्टेन
“क्रयविक्रयमित्यादि। कियता मूल्येन क्रीतमिदं वस्त्र-लवणादि द्रव्यं विक्रीयमाणञ्चात्र कियल्लभ्यते किय-द्दूरादानीतं किमस्य बणिजो भक्तव्ययेन शाकसूपादिनापरिव्ययेन लग्नं किमस्यारण्य दौ चौरादिभ्योरक्षयःरूपेण क्षेमप्रतिविधानेन गतं, कोऽस्य इदानीं लाभयोग-इत्येतदवेक्ष्य बणिजः करान् दापयेत्। यथेति। यथाराजाऽवेक्षणादिकर्म्मणः फलेन, यथा च कार्षिकबणिगादा-[Page1686-a+ 38] कृषिबाणिज्यादिकर्म्मणां फलेन सम्वध्यते। तथा निरूप्यराजा सर्व्वदा राष्ट्रात् करान् गृह्णीयात्। अत्र दृष्टान्तमाहयथेथादि। यथा जलौकोवत्सभ्रमराः स्तोकस्तोकानिरक्ततीरलधूनि अदन्त्येवं राजा मूलधनमनुच्छिन्दताऽ-ल्पोऽल्पोराष्ट्रादाव्दिकः करो ग्राह्यः। तमाह पञ्चाशद्भा-गो राज्ञा ग्रहीतव्यः। एव धान्यानां षष्ठोऽष्टमो द्वा-दशो वा भागी ग्राह्यः भूम्यु त्कर्षापकर्षापेक्षया कर्षणादिक्लेशलाघवगौरवापेक्षोऽयं बह्वल्पग्रहणविकल्पः। आद-दीतेत्यादि। पत्रशाकतृणानामित्यादि। द्रुशब्दोऽत्रवृक्षवाचकः वृक्षादीनां अश्ममयान्तानां षष्ठोभागो ला-भाद्ग्रहीतव्यः। म्रियासाणैति। क्षीणधनोऽपि राजाश्रोत्रियब्राह्मणात् करं न गृह्णीयात् न च तदीयदेशेवसन् श्रोत्रियः बुभुक्षया अवसादं गच्छेत्। यस्मात्यस्येत्यादि। यस्य राज्ञो देशे श्रोत्रियः क्षुधाऽवसन्नो भवतितस्यराष्ट्रमपि दुर्भिक्षादिभिः क्षुधा शीघ्रमवमादं गच्छति। यत एवमतः श्रुतेति। शास्तज्ञानानुष्ठाने ज्ञात्वा अस्यतदनुरूपां धर्म्मादनपेतां जीविकामुपकल्पयेत् चौरादि-भ्यश्चैनम् औरसं पुत्त्रमिव पिता रक्षेत्। यस्मात् संरक्ष्य-माणैत्यादि। स च श्रोत्रियो राज्ञा सम्यग्रक्ष्यमाणोयं धर्म्मं प्रत्यहं करोति तेन राज्ञ आयुर्द्धनराष्ट्राणि व-र्द्धन्ते। यदिति। राजा स्वदेशशाकपर्णादिस्वल्पमूल्य-वस्तुक्रयविक्रयादिना जीवन्तं निकृष्टजनं स्वल्पमपिकराख्यं वर्षेण दापयेत्। कारुकानिति। कारुकान् सू-पकारादीन् शिल्पिभ्य ईषदुत्कृष्टान् शिल्पिनश्च लोहकारा-दीन् शूद्रांश्च देहक्लेशोपजीविनो भारिकादीन् मासिमास्येकं दिनं कर्म्म कारयेत्। नोच्छिन्द्यादिति। प्रजा-स्नेहात् करशुल्कादेरग्रहणमात्मनो मूलोच्छेदः अति-लोभेन प्रचुरकरादिग्रहणे परेषां सूलोच्छेदः एतदुभयंन कुर्य्यात् यस्मात् आत्मनो मूलमुच्छिद्य कोषक्षयादात्मानंपीडयेत्। पूर्ब्बार्द्धात् परेषाञ्चेत्यपि संबध्यते परेषांमूलमुच्छिद्य तांश्च पीडयेत्”। भार॰ शा॰
८७ अ॰ विस्तरेणोक्तं यथा
“विक्रयं क्रयमध्वानं भक्तञ्च सपरिच्छदम्। योगक्षेमञ्चसम्प्रेक्ष्य बणिजां कारयेत करान्। उत्पत्तिं दानवृ-त्तिञ्च शिल्पं संप्रेक्ष्य चासकृत्। शिल्पं प्रति करानेवं शि-ल्पिनः प्रति कारयेत्। उच्चावचकरा दाप्याः महाराज्ञायुधिष्ठिर। यथा यथा न सीदेरंस्तथा कुर्य्यान्महीपतिः। फलं कर्म्म च सम्प्रेक्ष्य ततः सर्व्वं प्रकल्पयेत्। फलं[Page1686-b+ 38] कर्म्म च निर्हेतु न कश्चित् संप्रवर्त्तते। यथा राजाच कर्त्ता च स्यातां कर्म्मणि भागिनौ। समवेक्ष्य तथाराज्ञा प्रणेयाः सततं कराः। नोच्छिद्यादात्मनो मूलंपरेषाञ्चापि तृष्णया। ईहाद्वाराणि संरुध्य राजासम्प्रतिदर्शनः। प्रद्विषन्ति परिख्यातं राजानमतिखा-दिनम्। प्रद्विष्टस्य कुतः श्रेयो नाप्रियो लभते फलम्। वत्सौपम्येन दीग्धब्यं राष्ट्रमक्षीणबुज्द्धिना। भूतो वत्सो-जातबलः पीडां सहति भारत!। निकायं कुरुते वत्सोभृशं दुग्धो युधिष्ठिर!। राष्ट्रमप्यतिदुग्धं हि न कर्म्मकुरुते महत्। यो राष्ट्रमनुगृह्णाति परिरक्षन् स्वयंनृपः। सञ्जातमुपजीवन् स लभते न महत् फलम्। आपदर्थञ्च निर्यातं राजा न इह विन्दते। राष्ट्रञ्च को-षभूतं स्यात् कोषो बेश्मगतस्तथा। पौरजानपदान् स-र्व्वान् संश्रितोपाश्रितांस्तथा। यथाशक्त्यनुकम्पेत सर्व्वान्स्वल्पधनानपि। बाह्यं जनं भेदयित्वा भोक्तव्यो भध्यमःसुखम्। एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः। प्रागेव तु धनादानमनुभाष्य ततः पुनः। सन्निपत्य स वि-षये भयं राष्ट्रेषु दर्शयेत्। इयमापत् समुत्पन्ना पर-चक्रभयं महत्। अपि चान्ताय कल्पन्ते वेणोरिव फला-गमः। अरयो मे समुत्याय बहुभिर्दस्युभिः सह। इद-मात्मबघायैव राष्ट्रमिच्छन्ति बाधितुम्। अस्यामापदिघोरायां सम्पाप्ते दारुणे भये। परित्राणाय भवतःप्रार्थयिष्ये धनानि वः। प्रतिदास्ये च भवतां सर्व्वञ्चाहभयक्षये। नारयः प्रतिदास्यन्ति यद्धरेयुर्ब्बलादितः। कलत्रमादितः कृत्वा सर्व्वं वो विनशेदिति। अपि चेत्पुत्त्रदारार्यमर्थसञ्चय इष्यते। नन्दामि वः प्रभावेण पुत्त्राणामिव चोदये। यथाशक्त्यु पगृह्णामि राष्ट्रस्यापीडयच वः। आपत्स्वेव हि वोढव्यं भवद्भिः पुङ्गवैरित। न प्रियं सततं कार्य्यं धनं कस्याञ्चिदापि। इति वाचामधुरया श्लक्ष्णया सोपचारया। स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित्। प्राकारं भृत्यभरणं व्ययं सङ्ग्रामतो भयम्। योगक्षेमञ्च सम्प्रेक्ष्य गोमिनः कारयेत् करम्। उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः। त-स्मात्तेषु विशेषेण मृदुपूर्व्वं समाचरेत्। सान्त्वनं रक्षणंदानमवस्था चाप्यभीक्ष्णशः। गोमिनां पार्थ! कर्त्तव्यः सं-भागश्च प्रियाणि च। अजस्रमुपयोक्तव्यं फलं गोमिषुभारत!। प्रभावयन्ति राष्ट्रञ्च व्यवहारं कृषिन्तथा। त-स्माद्गोमिषु यत्नेन प्रीतिं कुर्य्याद्विचक्षणः। दयावानप्रमत्तश्च[Page1687-a+ 38] करान् सम्प्रणयेन्मृदून्। सर्व्वत्र क्षेमचरणं सुलभं नामगोमिषु। न ह्यतः सदृशं किञ्चिद्वरमस्ति युधिष्ठिर!”।
“मधुदीहं दुहेद्राष्ट्रं भ्रमरा इव पादपम्। वत्सापेक्षोदुहेच्चैव स्तनांश्च न विकुट्टयेत्। जलौकावत् पिबेद्राष्ट्रं मृ-दुनैव नराधिपः। व्याघ्रीव च हरेत् पुत्त्रान् सन्दंशेन्न चपीडयेत्। यथा शल्यकवानाखुः पदं धूनयते सदा। अतीक्ष्णेनाप्यायेन तथा राष्ट्रं समापिबेत्। अल्पेनाल्पेनदेयेन वर्द्वमानं प्रदापयेत्। ततो भूयस्ततो भूयः क्रयवृद्धिंसमाचरेत्। दमयन्निव दम्यानि शश्वम्भारं विवर्द्धयेत्। पृदुपूर्व्वं प्रयत्नन पाशान्भ्यवहारयेत्। सकृत्पाशावकी-र्णास्तेन भविष्यन्ति दुर्द्दमाः। उचितेनैव भोक्तव्या नभविष्यन्ति यत्नतः। तस्मात् सर्वसमारम्भो दुर्लभः पुरुषंप्रति। यथामुख्याम् सान्त्वयित्वा भोक्तव्य इतरो जनः। ततस्तान् भेदयित्वा तु परस्परविवक्षितान्। भुञ्जीत सान्त्व-यंश्चैव यथासुखमयत्नतः। न चास्थाने न चाकाले करां-स्तेभ्यो निपातयेत्। आनुपूर्व्येण सान्त्वेन यथाकालंयथाविधि”
९० अ॰। प्रजाभ्यः करादानप्रकारः रक्षाशब्दवक्ष्यमाणप्रकारवत् मनूक्तोऽनुसन्धेयः। अत-एव सा॰ कौ॰
“यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्यकरमादाय विषयाध्यक्षाय प्रमच्छन्ति विषयाध्याक्षश्चसर्व्वाध्यक्षाय स च भूपतये” इत्युक्तम्।
६ हस्ताकारे हस्तनक्षत्रे। हेत्वादौ कर्म्मोपपदे कृ--कर्त्तरिट। तत्तत्कर्मकारके त्रि॰ यथा कर्म्मकरः श्रेयस्करःयशस्करः स्त्रियां ङीप् कर्म्मकरी दासी यशस्करीविद्येत्यादि। दिवाविभादिपूर्वात् अहेत्वादावपिट। तत्त-दुपपदार्थकारके त्रि॰ तानि च
“दिवाविभानिशाप्रभा-भास्करान्तानन्तादिबहुनान्दीकिमलिपिलिबिलिभक्तिकर्त्तृ-चित्रनक्षत्रसंख्याजङ्घाबह्वहर्द्धनुररुषषु” पा॰ दर्शितानिदिवाकरः निशाकरः। अहेत्वादावितोऽन्यत्र अण्। कुम्भ-कार इत्यादि।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर¦ mfn. (-रः-रा-री-रं) Who or what does, makes or causes, as किङ्करः a servant, who does anything; भयङ्करः frightful, what causes fear; उपकरः who gives aid: अपकरः who does ill, &c. m. (-रः)
1. A ray of light, a sun or moonbeams.
2. Royal revenue toll, tax, impost, &c.
3. The hand.
4. Hail.
5. An elephant's trunk. E. कृञ् to do, &c. ट or अप् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर [kara], a. (-रा or -री) [करोति, कीर्यते अनेन इति, कृ-कॄ-अप्] (Mostly at the end of comp.) Who or what does, makes or causes &c.; दुःख˚, सुख˚, भय˚ &c.
रः A hand; करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् Ś.1.24.
A ray of light, beam; यमुद्धर्तुं पूषा व्यवसित इवालम्बितकरः V.4.34; also प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्ब- नाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि Śi.9.6 (where the word is used in sense 1 also).
The trunk of an elephant; सेकः सीकरिणा करेण विहितः U.3.16; Bh.3.2.
A tax, toll, tribute; युवा कराक्रान्तमहीमृदुच्चकैरसंशयं संप्रति तेजसा रविः Śi.1.7; (where कर means 'ray' also) (ददौ) perhaps in this sense the word is used in neuter gender also. निर्ल्लज्जो मम च करः कराणि भुङ्क्ते Pañch.2.3. अपरान्तमहीपालव्याजेन रघवे करम् R.4.58; Ms.7.128.
Hail.
A particular measure of length equal to 24 thumbs.
The asterism called हस्त.
A means or expedient.
A doer.
Comp. अग्रम् the forepart of the hand; कराग्रे वसते लक्ष्मीः.
the tip of an elephant's trunk. -आघातः a stroke or blow with the hand.-आमर्दः, -आमलकः Myrobalan (Mar. करवंद). -आरोटः a finger-ring. -आलम्बः supporting with the hand, giving a helping hand.
आस्फोटः the chest.
a blow with the hand.
slapping the hands together.-ऋद्धिः f.
a cymbal.
a small musical instrument.-कच्छपिका f. कूर्ममुद्रा in yoga. -कण्टकः, -कम् a finger-nail. -कमलम्, -पङ्कजम्, -पद्मम् a lotus-like hand, beautiful hand; करकमलवितीर्णैरम्बुनीवारशष्पैः U.3.25.
कलशः, शम् the hollow of the hand (to receive water).
किसलयः, यम् 'sprout-like hand', a tender hand; करकिसलयतालैर्मुग्धया नर्त्यमानम् U.3.19; Ṛs.6.3.
a finger. -कुड्मलम् the finger. -कृतात्मन् (Living from hand to mouth) destitute; Mb.13. -कोषः the cavity of the palms, hands hollowed to receive water; ˚पेयमम्बु Ghaṭ.22.
ग्रहः, ग्रहणम् levying a tax.
taking the hand in marriage.
marriage.
ग्राहः a husband.
a tax-collector. -घर्षणः, -घर्षिन् m. the churning-stick. -च्छदः the teak tree. -च्छदा N. of a tree (सिन्दूरपुष्पी; Mar. शेंद्री). -जः a fingernail; तीक्ष्णकरजक्षु- ण्णात् Ve.4.1; Śi.11.37; Bv.1.15; Amaru.85. (-जम्) a kind of perfume. -जालम् a stream of light.-तलः the palm of the hand; वनदेवताकरतलैः Ś.4.5; करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति Pt.2.128. ˚आमलकम् (lit.) an āmalaka fruit (fruit of the Myrobalan) placed on the palm of the hand; (fig.) ease and clearness of perception, such as is natural in the case of a fruit placed on the palm of the hand; करतलामलकफलवदखिलं जगदालोकयताम् K.43. ˚स्थ a. resting on the palm of the hand; -तलीकृ To take in the palm of the hand; ततः करतलीकृत्य व्यापि हालाहलं विषम् Bhāg.8.7.43.
तालः, तालकम् clapping the hands; स जहास दत्तकरतालमुच्चकैः Śi.15.39.
a kind of musical instrument, perhaps a cymbal.
तालिका, ताली clapping the hands; उच्चाटनीयः करता- लिकानां दानादिदानीं भवतीभिरेषः N.3.7.
beating time by clapping the hands. -तोया N. of a river. -द a.
paying taxes.
tributary; करदीकृताखिलनृपां मेदिनीम् Ve. 6.18.
giving the hand to help &c. -दक्ष a. handy, dexterous.
पत्रम् a saw; तत्क्रूरदन्तकरपत्रनिकृत्तसत्त्वम् Mv.5. 29.
playing in water. ˚वत् m. the palm tree. -पत्रकम् a saw. -पत्रिका splashing water about while bathing or sporting in it.
पल्लवः a tender hand.
a finger. cf. ˚किसलय.
पालः, पालिका a sword.
a cudgel.
पात्रम् splashing water about while bathing.
the hand hollowed to hold anything. -पात्री A cup made of leather. -पीडनम् marriage; cf. पाणिपीडन.
पुटः the hands joined and hollowed to receive anything.
A box, chest with a lid; तेषां रक्षणमप्यासीन्महान्करपुट- स्तथा Mb.14.65.16. -पृष्ठम् the back of the hand.
बालः, वालः sword; अघोरघण्टः करवालपाणिर्व्यापादितः Māl.9; म्लेच्छनिवहनिधने कलयसि करवालम् Gīt.1, Śi.13.6.
a finger-nail. -भारः a large amount of tribute.-भूः a finger-nail. -भूषणम् an ornament worn round the wrist, such as a bracelet. -मर्दः, -मर्दी, -मर्दकः N. of a plant (Carissa carandus; Mar. करवंद) -मालः smoke. -मुक्तम् a kind of weapon; see आयुध.
रुहः a finger-nail; अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः Ś.2.11; Me.98.
a sword. -वालिका a small club.
वीरः, वीरकः a sword or scimitar.
a cemetery.
N. of a town in the S. M. country.
a kind of tree. (Mar. कण्हेर, अर्जुनसादडा); Rām.5.2.1. Māna.18.242.3. (-रा) red arsenic.
(री) a woman who has borne a son, a mother.
N. of Aditi.
a good cow. (-रम्) the flower of the tree. मल्लिका, करवीरम्, बिसम्, मृणालम् Mbh. on P.IV.3.166. -शाखा a finger. -शीकरः water thrown out by an elephant's trunk. -शूकः a finger-nail.-शोथः swelling of the hands.
सादः weakness of the hand.
the fading of rays. -सूत्रम् a marriage string worn round the wrist. -स्थालिन् m. an epithet of Śiva. -स्वनः clapping of the hands.
कर [kara] रे [rē] टुः [ṭuḥ], (रे) टुः A kind of bird (crane).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर mf( ई, rarely आ)n. (for 2. See. p. 254 , col. 3)(1. कृ) , a doer , maker , causer , doing , making , causing , producing ( esp. ifc. ; cf. दुःखकर, भयं-क्, सम्पत्-क्, etc. ; cf. Lat. चेरुस्, " creator ") AV. xii , 2 , 2 Mn. Pan5cat. etc.
कर mf( ई, rarely आ)n. helping , promoting RV. i , 116 , 13
कर m. the act of doing , making etc. ( ifc. ; See. ईषत्कर, सु-क्, दुष्-क्, etc. )
कर m. " the doer " , the hand RV. x , 67 , 6 MBh. Mn. etc.
कर m. a measure (the breadth of twenty-four thumbs)
कर m. an elephant's trunk MBh. Pan5cat. etc.
कर m. the claws of a crab Hit.
कर m. symbolical expression for the number two
कर m. the lunar mansion हस्तVarBr2S.
कर m. (for 1. See. p. 253 , col. 1)( कॄ) , a ray of light , sunbeam , moonbeam R. Megh. Pan5cat. etc.
कर m. hail L.
कर m. royal revenue , toll , tax , tribute , duty Mn. Ya1jn5. MBh. etc.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--(tax) not levied in शाकद्वीप; फलकम्:F1: वा. ४९. १०३; ५९. १२४; १०८. ७०; Br. II. १९. १०६.फलकम्:/F levied by Sagara over the conquered; फलकम्:F2: Br. III. ४९. 7; ५२. ४१.फलकम्:/F to be levied and taken in instal- ments; fresh taxes lead to discontent among peoples. फलकम्:F3: M. २१७. 3; २२६. ११; २३८. १४.फलकम्:/F [page१-320+ २४]
(II)--a measurement of length. M. २७४. २५.