करः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करः, पुं, (कं सुस्वं राति ददातीति । रा + कः ।) राज- स्वम् । खाजाना इति पारस्यभाषा । तत्पर्य्यायः । भागधेयः २ बलिः ३ । इत्यमरः । २ । ८ । २७ ॥ कारः ४ । इति तट्टीका ॥ प्रत्यायः ५ । इति मेदिनी ॥ * ॥ अथ राज्ञां करग्रहणप्रकारः । क्रयविक्रयादिना लाभादीन् संप्रेक्ष्य राज्ञा करो ग्रहीतव्यः । यथा, मनुः । ७ । १२७-१३३ । “क्रयविक्रयमध्वानं भक्तञ्च सपरिव्ययम् । योगक्षेमञ्च संप्रेक्ष्य बणिजो दापयेत् करान् ॥ यथा फलेन युज्येत राजा कर्त्ता च कर्म्मणां । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान्” ॥ * ॥ राज्ञा राज्यात् वार्षिकः करोऽल्पाल्पं कृत्वा ग्रहीतव्यः । यथा, -- “यथाल्पाल्पमदन्त्याद्यं वार्य्योकोवत्सषट्पदाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः” ॥ मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागरूपः करो ग्राह्यः ॥ धान्यानां भूम्युत्कर्षापेक्षया कर्ष- काणां क्लेशलाघवगौरवापेक्षया च षष्ठोऽष्टमो द्वादशो वा भागो राज्ञा ग्रहीतव्यः । यथा, -- “पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा” ॥ * ॥ द्रुमाश्ममधुसर्पिरादीनां षड्भागो लाभात् ग्रहणीयः । यथा, -- “आददीताथ षड्भागं द्रुमाश्ममधुसर्पिषाम् । गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥ पत्रशाकतृणानाञ्च चर्म्मणां वैदलस्य च । मृ मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य च” ॥ * ॥ अतिक्षीणधनोऽपि राजा श्रोत्रियब्राह्मणात् करं न गृह्णीयात् । यथा, -- “म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् । न च क्षुधास्य संसीदेच्छोत्रियो विषये वसन्” ॥ * ॥ (कीर्य्यते विक्षिप्यतेऽसौ कर्म्मणि + अप् । हस्त- करिशुण्डयोस्तु करणेऽपि अप् ॥) वर्षोपलः । किरणः । (यथा रामायणे ६ । ११ । ४४ । “तीक्ष्णः पटुर्दिनकरः करैस्तापयते जगत्” ॥) हस्तः । (अमरः । ३ । ३ । १६३ ॥) हस्तिशुण्डः । इति मेदिनी ॥ (यथा, महाभारते ३ । ११ । २८ । “एवन्तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते । ऊरुं गजकराकारं करेणाभिजघान सः” ॥) कर्म्मोपपदे कर्त्तृवाचकः । यथा । सुखकर इत्यादि ॥ (यथा, रामायणे ६ । ११ । ४४ । “तीक्ष्णः पटुर्दिनकरः करैस्तापयते जगत् । प्रतिलोमश्च ते वायुस्त्वत्परामवलक्षणम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=करः&oldid=494948" इत्यस्माद् प्रतिप्राप्तम्