सामग्री पर जाएँ

करवीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करवीरः, पुं, (करं वोरयति । वीर + विकान्तौ + कर्म्म ण्यण् ।) खड्गः । देत्यविशेषः । इति मेदिनी ॥ श्मशानम् । इति हेमचन्द्रः ॥ ब्रह्मावर्त्ते दृशद्वती- नदीतीरे चन्द्रशेखरराजपुरम् । इति कालिका- पुराणे ४६ अध्यायः ॥ (पर्ब्बतविशेषः । यथा, भागवते ५ । १६ । २८ । “एवमपरेण पवनपारियात्रौ दक्षिणेन कैलास करवीरौ प्रगायतौ” ॥ नागविशेषः । यथा, महाभारते १ । ३५ । १२ । “करवीरः पुष्पदंष्ट्रो विल्वको विल्वपाण्डरः” ॥) वृक्षविशेषः । करवी इति भाषा ॥ (यथा रामायणे ३ । १७ । १० । “दाडिमान् करवीरांश्च अशोकांस्तिलकांस्तथा” ॥) तत्पर्य्यायः । प्रतिहासः २ शतप्रासः ३ चण्डातः ४ हयमारकः ५ । इत्यमरः । २ । ४ । ७६ ॥ प्रतीहासः ६ । इति तट्टीका ॥ अश्वघ्नः ७ हयारिः ८ अश्व- मारकः ९ शीतकुम्भः १० तुरङ्गारिः ११ । इति रत्नमाला ॥ अश्वहा १२ वीरः १३ हयमारः १४ हयघ्नः १५ शतकुन्दः १६ अश्वरोधकः १७ वीरकः १८ कुन्दः १९ शकुन्दः २० श्वेतपुष्पकः २१ अश्वा- न्तकः २२ नखराह्वः २३ अश्वनाशनः २४ स्थल- कुमुदः २५ दिव्यपुष्पः २६ हरिप्रियः २७ गौरी- पुष्पः २८ सिद्धपुष्पः २९ । अस्य गुणाः । कटु- त्वम् । तीक्ष्णत्वम् । कुष्ठकण्डूतिनाशित्वम् । व्रणा- र्त्तिविषविस्फोटकशमनत्वम् । अश्वमृतिप्रदत्वञ्च । इति राजनिर्घण्टः ॥ (श्वेतरक्तभेदेन यथा, -- “करवीरः श्वेतपुष्पः शीतकुम्भोऽश्वमारकः । द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥ करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् । व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् । वीर्य्योष्णं क्रिमिकण्डूघ्नं भक्षितं विषवन्मतम्” ॥ इति भावप्रकाशः ॥ नागविशेषः । इति भारतम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करवीर पुं।

करवीरः

समानार्थक:प्रतिहास,शतप्रास,चण्डात,हयमारक,करवीर

2।4।77।1।1

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करवीर¦ पु॰ करं वोरयति चु॰ वीर विक्रान्तौ अण्।

१ कृपाणेखड्गे,

२ स्वनामख्याते

३ वृक्षे,

४ देशभेदे च मेदि॰।

५ शमशाने,हेम॰। ब्रह्मावर्त्ते

६ दृशद्वतीनदीतीरस्थचन्द्रशेखरराजपुरे च। करवीरवृक्षभेदगुणाश्च भाव॰ उक्ता यथा।
“करवीरःश्वेतपुष्पः शतकुम्भोऽश्वमारकः। द्वितीयोरक्तपुष्यश्चचण्डद्रोणः शुभस्तथा। करवीरद्वयं तिक्तं कषायं कटु-कञ्च तत्। व्रणलाघवकृन्नेत्रकोपकुष्टव्रणापहम्। वी-र्य्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम्!।

७ तीर्थभेदे।
“करवीरपुरे स्नात्वा विशालायां कृतोदकः। देवह्रदउपस्पृश्य ब्रह्मभूतो विराजते” भा॰ अनु॰

२५ अ॰। करवीरपुरञ्च चेदिदेशसन्निकृष्टं गोमन्तपर्ब्बर्तात् त्रिदिनगम्यमार्गे स्थितम्। यथोक्तं हरिवं॰

१०

० अ॰
“राज्ञां प-राजयं युद्धे गोमन्तेऽचलसत्तमे। श्रवणाद्धारणाच्चास्य स्वर्ग-लोकं व्रजन्ति ते। तत्गच्छाम महाराज! करवीरं पुरोत्तमम्त्वयादिष्टेन मार्गेण चेदिराज! शिवाय च। ते स्यन्दनगताःसर्व्वे पवनोत्पातिभिर्हयैः। भेजिरे दीर्घमध्वानं मूर्त्ति-मन्त इवाग्नयः। ते त्रिरात्रोषिताः प्राप्नाः करवीरं पुरो-त्तमम्। शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः” तत्-पुराधीशश्च शृगालनामा भृपतिस्तदप्याह तत्रैव

१०

१ अ॰
“तानागतान् विदित्वाऽथ शृगालो युद्धदुर्म्मदः। पुरस्य ध-र्षणं मत्वा निर्जगामेन्द्रविक्रमः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करवीर¦ m. (-रः)
1. A fragrant plant, (Oleander or Nerium odorum.)
2. The name of a demon.
3. A sword or scymitar.
4. A cemetary, a place for burning or interring the dead. f. (-रा) Red arsenic. f. (-री)
1. A name of ADITI, the mother of the gods.
2. A good cow.
3. A wo- man who has borne a son, a mother. E. कर here said to mean a root, वीर to become evident, and अच् affix; or कर hand, वि prefixed to ईर् to go, &c. affix क।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

करवीर/ कर--वीर m. Oleander (Nerium Odorum) MBh. Sus3r. Mr2icch. VarBr2S.

करवीर/ कर--वीर m. a species of सोमSus3r. ii , 164 , 15

करवीर/ कर--वीर m. a sword L.

करवीर/ कर--वीर m. a particular spell (for recovering a missile of mystic properties after its discharge) R.

करवीर/ कर--वीर m. the thumb

करवीर/ कर--वीर m. a cemetery L.

करवीर/ कर--वीर m. N. of a नागMBh. i , 1557

करवीर/ कर--वीर m. of a दैत्यL.

करवीर/ कर--वीर m. of a town on the river Venva (founded by पद्म-वर्ण) Hariv. 5230 (See. कर-वीर-पुरbelow)

करवीर/ कर--वीर m. of a town on the river दृषद्वती(the residence of चन्द्रशेखर) KapS.

करवीर/ कर--वीर m. of a mountain BhP.

करवीर/ कर--वीर n. the flower of Oleander L.

करवीर/ कर-वीर See. p. 253 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a काद्रवेय Na1ga. Br. III. 7. ३५.
(II)--a Mt. on the south of Meru. भा. V. १६. २७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Karavīra  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 14, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; name occurs also among the sons of Kadrū, listed by Sūta at the request of Śaunaka 1. 31. 12, 2.

_______________________________
*4th word in right half of page p10_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=करवीर&oldid=444768" इत्यस्माद् प्रतिप्राप्तम्