करुणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणः, पुं, (करोति मनः आनुकूल्याय । कृ + “कृ वृदारिभ्य उनन्” । उणां । ३ । ५३ । इति उनन् ।) वृक्षविशेषः । करुणा लेवुर गाछ इति भाषा । तत्फलगुणः । कफवाय्वाममेदोनाशित्वम् । पित्त- प्रकोपकत्वञ्च । इति राजवल्लभः ॥ बुद्धभेदः । इति त्रिकाण्डशेषः ॥ शृङ्गाराद्यष्टरसान्तर्गततृतीय- रसः । इत्यमरः । १ । ७ । १७ ॥ तस्य लक्षणादि । “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ अनुभावा दैवनिन्दा भूपातक्रन्दितादयः । वैवर्णोच्छ्वासनिश्वासस्तम्भप्रलपनानि च ॥ निर्व्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ शोच्यं विनष्टबन्धुप्रभृति । यथा राघवविलासे । विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम् ॥

"https://sa.wiktionary.org/w/index.php?title=करुणः&oldid=124218" इत्यस्माद् प्रतिप्राप्तम्