कर्कट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटः, पुं, (कर्क + अटन् प्रत्ययः ।) वृक्षविशेषः । तत्पर्य्यायः । कर्कः २ क्षुद्रधात्री ३ क्षुद्रामलक- संज्ञः ४ कर्कफलम् ५ ॥ * ॥ जलजन्तुविशेषः । का~कडा इति भाषा । तत्पर्य्यायः । कर्कटकः २ कुलीरः ३ कुलीरकः ४ सदंशकः ५ पङ्कवासः ६ तिर्य्यग्गामी ७ । (यथाह आर्य्याशप्तती । ३२२ । “अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः” ॥) अस्य गुणाः । सृष्टविण्मूत्रत्वम् । भग्नसन्धातृत्वम् । वायुपित्तनाशित्वच्च ॥ कृष्णकर्कटगुणाः । बलका- रित्वम् । ईषदुष्णत्वम् । अनिलापहत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ पक्षिविशेषः । इति मेदिनी करकटिया इति भाषा ॥ पद्मकन्दः । तुम्बी । इति जटाधरः ॥ * ॥ मेषादिद्वादशराश्यन्तर्गत- चतुर्थराशिः । स तु पुनर्व्वसुशेष पादेन सह पुष्या- श्लेषाभ्यां भवति । अस्य देवता कुलीराकृतिः । स तु पृष्ठोदयः । श्वेतवर्णः । कफप्रकृतिः । स्निग्धः । जलचरः । विप्रवर्णः । उत्तरदिक्स्वामी । बहु- स्त्रीसङ्गः । बहुसन्तानश्च । अत्र जातस्य फलम् । कपटमनस्त्वं मृदुभाषित्वं मन्त्रित्वं अप्रवासित्वं अऋणित्वञ्च । इति ज्योतिषम् ॥ * ॥ जन्मकालीनचन्द्राश्रितैतद्राशिफलम् । “श्रुतकलामलनिर्म्मलवृत्तयः सुकृशगन्धजलाशयकेलयः । किल नरास्तु कुलीरगते विधौ वसुमतः सुमतोऽर्थिलब्धयः” ॥ इति कोष्ठीप्रदीपः ॥ ० ॥ तस्योदये तन्नामकलग्नं भवति । तस्य गणितप्राप्तपरिमाणं यथा । दश- व्यङ्गुलाधिकपञ्चाङ्गुलप्रभे कलिकाताख्यदेशे वर्त्त- मानोनविंशायनांश चत्वारिंशदधिकपञ्चदण्डाः । इति ज्योतिषम् ॥ तत्र जातफलम् । “कर्किलग्ने समुत्पन्नो भोगी सर्व्वजनप्रियः ॥ मिष्टान्नपानभोगी च जायते स्वजनप्रियः” ॥ इति कोष्ठीप्रदीपः ॥ (नागविशेषः । यथा पुराणम् । “अनन्तो वासुकीः पद्मो महापद्मस्तु तक्षकः । कुलीरः कर्कटः शङ्खश्चाष्टौ नागाः प्रकीर्त्तिताः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कट¦ पु॰ सौ॰ कर्क--अटन्। क्षद्रामलकवत्क्षुद्रफलके

१ वृक्ष-भेदे

२ जलजन्तुभेदे कुलीरे। (काकं डा)
“गणनाटत्करकर्कटोत्करम्” नैष॰ राजान॰। (करकटिया)

३ पक्षिभेदे।

४ अलाबूवृक्षे च मेदि॰।

५ पद्मकन्देजटा॰ मेषादितश्चतुर्थे

६ राशौ
“पादः पुनर्वसोरन्त्यः पुष्योऽश्लेषा च कर्कटः” ज्यो॰ त॰ उक्तसपादनक्षत्रद्वयात्मकः। तथा च

३६

० अंशात्मके राशिचक्रे

९० अंशोत्तरम्

३० त्रिंशदंशात्मकः स राशिः।
“शेषाः स्वनामसदृशाकृ-तयो भवन्ति” ज्यो॰ त॰ उक्तेस्तस्य कुलीराकृतित्वम्। अस्यवर्ण्णाद्युक्तं नील॰ ता॰
“बहुप्रजासङ्गपदः कुलीरश्चरो-ऽङ्गना पाटलहीनशब्दः। शुभः कफी स्निन्धजनोऽम्बु-चारी समोदयी विप्रनिशोत्तरेशः” तथा च अस्य बहु-प्रजासङ्गिता बहुपदता चरराशित्वं स्त्रीरूपतापाटलवर्ण्णता हीनशब्दता शुभत्वं शुभस्वामिकता च। कफप्रकृतित्वं स्निग्धजनत्वम् जलचरत्वम् समराशित्वम्विप्रवर्ण्णत्वम् निशाबलित्वम् उत्तरदिग्मुखत्वञ्च। अयंच कोटराशिः
“कर्कटवृश्चिकमीना धनुषश्चान्त्यार्द्धञ्चकीटसंज्ञाःस्युः” इत्युक्तेः तत्र समत्वं युग्मराशित्वं सम-[Page1702-b+ 38] परिमाणञ्च।
“ओजोऽथ युग्मं विषमः समश्च”
“क्रू-रोऽथ सोम्यः पुरुषोऽङ्गना च” इत्युक्तेः
“ह्रस्वास्तिनिगोऽविघटा मिथुनघनुःकर्किमृगमुखाश्च समाः” इत्युक्तेश्च।
“पृष्ठोदयाविमिथुना दिवा शीर्षोदयाः परे” इत्युक्तेः अस्यशीर्षोदयत्वम्। अस्याधिपः चन्द्रः। कुजशुक्रबुधेन्द्वर्क सौम्यशुक्रावनीभुवाम्। --क्षेत्राणि स्युरजादयः इत्युक्तेः
“मेषकर्कटयोर्मध्ये गाढं तपति भास्करः” तिथि॰ पु॰।
“कर्कटे प्रथमं देवी त्र्यहं गङ्गा रजस्वला” स्मृतिः। (कां कुड)

७ एर्वारौ स्त्री गौरा॰ ङीष् भावप्र॰। तस्याः गुणाः भावप्र॰ उक्तायया।
“एर्वारुः कर्कटीप्रोक्ता कथ्यन्ते तद्गुणा अथ। कर्कटी शीतला रूक्षाग्राहिणी मधुरा गुरुः। रुच्या पित्तहरा साऽमा पक्वातृष्णाग्निपित्तकृत्”। अस्याः पाकप्रकारस्तु।
“त्वग्वी-जरहिता प्रौढा गुलिकाकारखण्डिता। तलितासुघृते तप्ते कर्कटी वावलेहिता। विपाण्डु खण्डंधृतदुग्धसार्द्धं विभावितं वल्लजशर्कराभ्याम्। कृतैलवा-सञ्च कदुष्णमेतत् प्रतिक्षणं रोचनमातनोति”। ङी-षन्तः।

८ शाल्मलौ मेदि॰।

९ सर्पे शब्दरत्ना॰।

१० देव-दालीलतायां

१२ घोषिका

१३ वृक्षे राजनि॰।

१४ कर्कट-{??}तिस्त्रियाञ्च।
“यथा च कर्कटी गर्भमाधत्ते मृत्युमात्म-” भा॰ विरा॰

२७

२ श्लो॰। कर्कटस्य कोषस्थता तन्मांसगु-णाश्च भावप्रका॰ उक्ता यथा।
“शङ्खः शङ्खनखश्चापिशुक्तिसम्बूककर्कटाः। जीवा एवंविधाश्चान्ये काषस्थाःपरिकीर्त्तिताः। कोषस्था मषुराः स्निग्धा वातापत्तहराहिमाः।
“ताम्रचूडकर्कटकृष्णमत्स्यशिशुमार वराहवशाः” सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिवेत्” सुश्रु॰। स्मृतौचास्याभक्ष्यातोक्ता तच्चाभक्ष्यशब्दे दर्शितम्। कर्कटस्तच्छृङ्गाकारोऽस्त्यस्य अर्श॰ अच्। तुलाप्रान्तनिखेये कर्कटशृङ्गाकारे आयसे

१५ कीलकभेदे” पु॰ मिता॰

१६ कण्टके पु॰च। तत्पादाग्रतुल्याग्रत्वात्तस्य तथात्वम्।

१७ कर्कट-शृङ्ग्याम् स्त्री ङीष् भाव॰ प्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कट¦ m. (-टः)
1. A crab.
2. The sign of the zodiac, (Cancer.)
3. A kind of bird, the numidian crane.
4. A long gourd: see तुम्बी।
5. The fibrous root of the lotus.
6. The curved end of the beam of a balance, to which the strings supporting the scale are attached.
7. A compass.
8. The radius of a circle. f. (-टा) A plant, common- ly Kurkavali, (Momordica mixta.) f. (-टी)
1. A kind of cucumber, (Cucumis utilatissimus, Rox.)
2. The fruit of the silk cotton tree.
3. A snake.
4. A water jar. E. कर्क a Sautra root, to laugh or smile, and अटन् affix, fem. affix टाप् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटः [karkaṭḥ], 1 A crab.

Cancer, the fourth sign of the zodiac.

A kind of crane.

The fibrous root of a lotus.

A thorn.

The curved end of the beam of a balance.

A kind of coitus (रतिबन्ध).

The radius of a circle.

Compass, circuit.

A kind of pin or wedge.

टी A female crab.

A kind of cucumber.

The curved end of a balance.

A small water-pot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कट m. a crab Sus3r. Pan5cat. etc.

कर्कट m. the sign Cancer VarBr2S. VarBr2. etc.

कर्कट m. a particular bird L.

कर्कट m. N. of several plants

कर्कट m. the fibrous root of a plant L.

कर्कट m. the curved end of the beam of a balance (to which the strings supporting the scale are attached) , Mit.

कर्कट m. a pair of compasses in a particular position

कर्कट m. a particular position of the hands

कर्कट m. a kind of fever Bhpr.

कर्कट m. a kind of coitus L.

"https://sa.wiktionary.org/w/index.php?title=कर्कट&oldid=495084" इत्यस्माद् प्रतिप्राप्तम्