कर्कन्धुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कन्धुः, पुं स्त्री, (कर्कं कण्टकं दधातीति । धा + निपातनात् कुः नुम् च ।) कोलिवृक्षः । इत्यमर- टीकायां स्वामी ॥ (वदरीफलम् । अस्य पर्य्याय- गुणा यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ मभागे ॥ “पुंसि स्त्रियाञ्च कर्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुबलं घोटा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमोभयकण्टका” ॥ तत्र वदरविशेषाणां लक्षणानि गुणाश्च । “पच्यमानं सुमधुरं सौवीरं वदरं महत् । सौवीरं वदरं शीतं भेदनं गुरुशीतलम् ॥ वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् । सौवीरं लघु सम्पक्वं मधुरं कोलसुच्यते ॥ कोलन्तु वदरं ग्राहि रुच्यसुष्णञ्च वातलम् । कफपित्तकरञ्चापि गुरु सारकमीरितम् ॥ कर्कन्धुः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत्सर्व्वं लघुतृष्णाक्लमास्रजित्” ॥ क्वचित् क्लीवेऽपि दृश्यते यथा, “कर्कन्धुकोलवदरमामं पित्तकफावहम् । पक्वं पित्तानिलहरं स्निग्धं संमधुरं सरम् ॥ पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु । सौवीरं वदरं स्निग्धं मधुरं वातपित्तजित्” ॥ इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कन्धुः [karkandhuḥ] न्धूः [ndhūḥ], न्धूः f. [कर्कं कण्टकं दधाति धा-कू Uṇ.1.93.]

The jujube tree; अलावुकर्कन्धुट्टन्भुफलमिति Mbh. on P.IV.3.61. कर्कन्धूफलपाकमिश्रपचनामोदः परिस्तीर्यते U.4.1; कर्कन्धूनामुपरि तुहिनं रञ्जयत्यग्रसंध्या Ś.4. v.1; कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाशङ्क्या S. D.

The fruit of this tree, यजेत दधिकर्कन्धूमिश्रान्पिण्डान्यवैः क्रियाः Y.1.25.

A term applied to a fetus of ten days old; दशाहेन तु कर्कन्धूः Bhāg.3.31.2. -m. (न्धुः) A well without water; comm. on. Uṇ.1.28.

"https://sa.wiktionary.org/w/index.php?title=कर्कन्धुः&oldid=263366" इत्यस्माद् प्रतिप्राप्तम्