कर्कश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कशः, पुं, (कर्कशब्दात् मत्वर्थे लोमादित्वात् शः ।) काम्पिल्यवृक्षः । इत्यमरः । २ । ४ । १४६ । गु~डा रोचनी इति भाषा ॥ (व्यवहारोऽस्य यथा, चरके विमाने ८ अध्याये ॥ “कर्कोढकवार्त्ताकुकर्कश- काकमाचीकारवल्लीत्यादिषु” ॥) कासमर्दः । इक्षुः । (कृणोति हिनस्ति शत्रुं कृञ् हिंसायां + अन्येभ्यी- ऽपीति विच् । कशति कश्शब्दे इति पचाद्यच्- कर्चासौ कशश्चेति । करे कशति वा ।) खड्गः ॥ इति हेमचन्द्रः ॥
कर्कशः, त्रि, (कर्कात् लोमादित्वात् शः । ततः प्राग्- वत् कृञादिधातोर्निष्पादितार्थे च ।) साहसिकः । कठोरः । (यथा भागवते । ३ । १७ । ११ । “खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्” ॥) अमसृणः । (यथा रघौ । ३ । ४५ । “हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ” ॥) दुष्पर्शः । इत्यमरः । ३ । ३ । २१६ ॥ क्रूरः । निर्दयः । इति मेदिनी ॥ (यथा रामायणे । ५ । ४९ । ५ । “तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः” ॥) कृपणः । इति विश्वः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कश पुं।
रोचनी
समानार्थक:काम्पिल्य,कर्कश,चन्द्र,रक्ताङ्ग,रोचनी
2।4।146।2।2
अव्यथातिचरा पद्मा चारटी पद्मचारिणी। काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
कर्कश पुं।
अमसृणः
समानार्थक:कर्कश
3।3।218।1।1
स्यात्कर्कशः साहसिकः कठोरामसृणावपि। प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
कर्कश पुं।
कठिनम्
समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश
3।3।218।1।1
स्यात्कर्कशः साहसिकः कठोरामसृणावपि। प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥
पदार्थ-विभागः : , द्रव्यम्
कर्कश पुं।
साहसिकः
समानार्थक:कर्कश
3।3।218।1।1
स्यात्कर्कशः साहसिकः कठोरामसृणावपि। प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कश¦ पु॰ कृञ् हिंसायां विच् कः सन् + कशति--कर्क--अच्कर्क + लोमादि॰ शं, करे कशति कश--शब्दे अच् शक॰वा।
१ काम्पिल्लवृक्षे (गुडारोचनी) अमरः।
२ कासमर्दे। (काल्कासेन्दा)
३ इक्षुवृक्षे
४ खड्गे च हेम॰।
५ साहसिकेकठोरे च त्रि॰ अमरः
“वेणुकर्कशपर्वया” रघुः।
“ऐराव-तास्फालनकर्कशेन” कुमा॰।
“कृष्णा स्तब्धावलिप्ता वाजिह्वा शूना च यस्य वै। कर्कशा वा भवेद्यस्य सोऽचितरा-द्विजहाअसून्” सुश्रु॰। कर्कशं परिजीर्णञ्च कृमिजुष्टम-देशजम्। वर्जयेत् पत्रशाकन्तत्” सुश्रु॰
“सुरद्विपास्फालन-[Page1704-a+ 38] कर्कशाङ्गुलौ” रघुः।
६ कठिनम्पर्शवति त्रि॰ अमरः
७ क्रूरे
८ निर्दये च त्रि॰ मेदि॰।
९ दुर्बोधे च
“तर्केवा भृशकर्कशेमम ममं लीलायते भारती” प्रसन्न॰।
१० अत्यन्ते च
“तस्यकर्कशविहारमम्भवम्” रघुः कर्कशस्य भावः त्व। क-शत्व न॰ तल्कर्कशता स्त्री। ष्यञ्। कार्कश्य न॰ इमन्कर्कशिमन् पु॰ कर्कशभावे
“नागेन्द्रहस्तास्त्वचि कर्कश-त्वात्” कुमा॰।
“आश्लेषलोलुपबधूस्तनकार्कश्यसाक्षिणीम्” माघः। कार्कश्यञ्च स्पर्शभेदः।
“स्पर्शनेन्द्रियविज्ञेयाः शी-तोष्णश्लक्ष्णकर्कशभृदकठिना{??}” इत्यादिसुश्रुतोक्तेस्तस्य स्पर्शे-न्द्रियग्राह्यता। स च पार्थिवगुणभेदः। अन्यद्रव्ये तुकार्कश्यव्यवहारोभाक्तः। सुश्रुतोक्तेषु चिकित्सोपयोगिविं-शतिगुणेषु
११ गुणभेदे ते च गुणा यथा(
“अत ऊर्द्ध्वं प्रवक्ष्यामि गुणानां कर्म्मविस्तरम्। कर्म्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः। ह्लादनः स्तम्भनः शीतो मूर्च्छातृट्स्वेददाहजित्। उष्णस्तद्विपरीतःस्यात्पाचनश्च विशेषतः। स्नेर्हमार्दवकृत् स्निग्धो बलवर्ण-करस्तथा। रूक्षस्तद्विपरीतः स्याद्विशेषात्स्तम्भनः खरः। पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः। विशदीविपरीतोऽस्मात् क्लेदादूषणरोपणः। दाहपाककरस्त क्ष्णःस्रावणो मृदुरन्यथा। सादोपलेपबलकृद्गुरुस्तपर्णवृंहणः। लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा। दशाद्याः कर्म्मतःप्रोक्तास्तेषां कर्मविशेषणैः। दशैवान्यान् प्रवक्ष्यामि द्र-वादींस्तान्निबोध मे। द्रवः प्रक्लेदनः सान्द्रः स्थूलःस्याद्बन्धकारकः। श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो वि-शदो यथा। सुखानुबन्धी सूक्ष्मश्च सुमन्धो रोचनोमृदुः। दुर्गंन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः। सरोऽनुलोमनः प्रोक्तो मदो यात्राकरः स्मृतः। व्यवायीचाखिलं देहं व्याप्य पाकाय कल्पते। विकासी विक-सन्नेवं धातुबन्धान् विमोक्षयेत्। आशुकारं तथाशु-त्वाद्धावत्यम्भसि तैलवत्। सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषुस्रोतस्स्वनुसरः स्मृतः। गुणा विशतिरित्येवं यथावत्परि-कीत्तिताः”।
११ वृश्चिकालीवृक्षे स्त्री राजनि॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कश¦ mfn. (-शः-शा-शं)
1. Violent.
2. Hard.
3. Intangible.
4. Cruel.
5. Unfeeling, unmerciful.
6. Harsh, unkind.
7. Miserly. m. (-शः)
1. A plant, commonly Sunda rochani, (Crinum?)
2. A kind of cassia, (Cassia esculenta.)
3. Sugar-cane.
4. A sword, a scymitar. f. (-शी) Wild jujube; also कर्कशिका। E. कॄ to injure, विच् affix, कश with the same meaning, and अच्, highly injurious: or कर्क a Sautra root, and श aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कश [karkaśa], a. [कर्क-श]
Hard, rough (opp. कोमल or मृदु); सुरद्विपास्फालनकर्कशाङ्गुलौ R.3.55,12.41,13.73; ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः Ku.3.22,1.36; Śi.15.1,16.18,63.
Harsh, cruel, merciless (words, conduct &c.); तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः Rām.3.53.6.
Violent, strong, excessive; तस्य कर्कशविहारसंभवम् R.9.68.
Hardy, strong, muscular, robust.
Strict, imperative, peremptory; प्रभुरिव पुनः कार्ये कार्ये भवत्यतिकर्कशः Mv.2.11.
Desperate.
Illconducted, unchaste, unfaithful (as a woman).
Incomprehensible, difficult to comprehend; तर्के वा भृशकर्कशे मम समं लीलायते भारती P. R.
Niggardly.
Greatly addicted to (अत्यासक्त); नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः Rām. 4.67.45.
शः A sword.
A substance in आयुर्वेद.
A black sugarcane; cf. Nm. -Comp. -वेदन a. of harsh sensitivity (Mātaṅga L.8.24.)
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्कश mf( आ)n. (perhaps connected with कर्कand कर्कर)hard , firm , rough , harsh( lit. and metaph.) Sus3r. Mr2icch. Bhartr2. etc.
कर्कश m. a sword , scymitar L.
कर्कश m. Cassia or Sennia Esculenta
कर्कश m. a species of sugar-cane
कर्कश m. = गुण्डोरोचनीL.
कर्कश m. N. of an अप्सरस्Ma1rkP.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a commander of भण्ड. Br. IV. २१. ७९.