कर्केतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्केतनम्, क्ली पुं, (कर्के हास्यादो तनोतीति । कर्के + तन् + अच् । सप्तम्या अलुक् ।) रत्नविशेषः । तदु- त्पत्त्यादि यथा, गारुडे ७५ अध्यायः ॥ सूत उवाच । “वायुर्नखान् दैत्यपतेर्गृहीत्वा चिक्षेप सम्पद्य वनेषु हृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ॥ वर्णेन तद्रुधिरसोममधुप्रकाश- माताम्रपीतदहनोज्ज्वलितं विभाति । नीलं पुनः खलसितं परुषं विभिन्नं व्याध्यादिदोषकरणेन न तद्विभाति ॥ स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः । त्रासव्रणव्याधिविवर्जिताश्च कर्केतनास्ते परमाः पवित्राः ॥ पत्रेण काञ्चनमयेन तु वेष्टयित्वा हस्ते गलेऽथ घृतमेतदतिप्रकाशम् । रोगप्रणाशनकरं कलिनाशनञ्च आयुष्करं कुलकरञ्च सुखप्रदञ्च ॥ एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभमलं कृतये नरा ये । ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपि ते भवन्ति । एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः । तेजोऽतिदीप्तिकुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रमास्वरदिवाकरसुप्रकाशम् । तस्योत्तमस्य मणिशास्त्रविदा महिम्ना तुल्यन्तुमूल्यमुदितं तुलितस्य काय्यम्” ॥ हस्ते गलेऽथधृतमेतदतिप्रकाशमित्यत्र वप्तं यदा हुतवहे भवति प्रकाशमिति पुस्तकान्तरे पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्केतन¦ पु॰ न॰ रत्नविशेषे।
“रत्नान्याह गरुडपुराणे” आ॰ त॰
“तेषुरक्षोविषव्यालव्याधिघ्नान्यघहानि च। प्रादुर्भवन्ति र-त्नानि तथैव विगुणानि च। घज्रं मुक्तामणयः पद्मरागाःस मरकताः प्रोक्ताः। अपि चेन्द्रचीलमणयोवैदूर्य्याः पुष्परा-गाश्च। कर्केतनकुरुविल्वौ रुधिराक्षसमन्वितं तथा स्फटिकम्। विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः इत्युद्दिश्य।
“वायुर्नखान् दैत्यपते र्गृहीत्वा विक्षेप मासाद्य वनेषु हृष्टः। ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम्। वर्णेनतद्रुधिरशोभमधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति। नीलं पुनः सुलसितं परुषं विभिन्न” व्याध्यादिदोष-हरणेन न तद्विभाति। स्निग्धा विशुद्धाः समरागिणश्चआपीतवर्ण्णा गुरुवो विचित्राः। त्रासव्रणव्याघिविवर्जिता-श्च कर्केतनास्ते परमाः पवित्राः। पत्रेण काञ्चनम-येन तु वेष्टयित्वा हस्ते गलेऽथ धृतमेतदतिप्रकाशम। रोगप्रणाशनकरं कलिनाशनञ्च आयुष्करं कुलकरञ्च सु-खप्रदञ्च। एवंविधं बहुगुणं मणिमावहन्ति कर्केतनंशुभमलं कतरे वरा ये। ते पूजिता बहुघना बहुवान्धवा-श्च नित्योज्ज्वलाः प्रमुदित अपि ते भवन्ति। एके पिनह्य-[Page1705-a+ 38] विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरू-पाः। तेजोऽतिदीप्रिकुलपुष्टिविहीनवर्ण्णाः कर्केतनस्यसदृशं वपुरुद्वहन्ति। कर्केतनं यदि परीक्षितवर्ण्णरूपं प्रत्य-ग्रभास्वरदिवाकरसुप्रकाशम्। तस्योत्तमस्य मणिशास्त्रविदामहिम्ना तुल्यन्तु मूल्यमुदितं तुलितस्य कार्य्यम्”

७५ अ॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्केतनः [karkētanḥ] नम् [nam], नम् A kind of gem or precious stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्केतन m. id. L.

"https://sa.wiktionary.org/w/index.php?title=कर्केतन&oldid=495106" इत्यस्माद् प्रतिप्राप्तम्