सामग्री पर जाएँ

कर्त्तरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्त्तरी, स्त्री, (कृन्ततीति । कृति छेदने + बाहुलका- दरप्रत्ययः ततो ङीष् । यद्वा कृत् + घञ् । कर्त्तं रातीति । “आतोनुपेति” । ३ । २ । ३ । कः । गौरादित्वात् ङीष् ।) कृपाणी । इत्यमरः । २ । १० । ३४ ॥ पत्रीकृतस्वर्णादेः कर्त्तनास्त्रम् । काति इति ख्यातः ॥ केशकर्त्तनिका । इति भरतः । का~चि इति भाषा । काटारी इति ख्याता च ॥ (योगविशेषः । यथा, ज्योतिषशास्त्रे । “क्रूरमध्यगतश्चन्द्रो लग्नं वा क्रूरमध्यगम् । कर्त्तरी नाम योगोऽयं कन्या निधनकारकः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्त्तरी¦ स्त्री कृत--घञ् कर्त्तं राति रा--क गौरा॰ ङीष्। कृपा-ण्याम् पत्रीकृतहिरण्यादेः छेदनसाधने (कातारी)

२ अस्त्रभेदे
“ददर्शं कर्त्तरीयन्त्रममृतोपरिसंस्थितम्। मनःपवनवेगेनभ्रममाणं महारयम्। अपि स्पृशन्तं मशकं यत् खण्डयतिकोटिशः” काशी॰। केशादिकर्त्तनसाधने (कां चि)

३ अस्त्रे,
“क्रूरमध्यगतश्चन्द्री लग्नं वा क्रूरमध्यगन्। कर्तरो नाम योगोऽयम्” इति ज्योतिषोक्ते

४ योगभेदेच। कर्त्तरोयोग उपयमशब्दे

१२

५९ ,

६० तत्प्रति-प्रसविशेषोऽपि उक्तः। कृत--अरि--कर्त्तरिरित्यप्यत्र स्त्री।
“क्षरकर्त्तरिसंदशैस्तस्य रोमाणि निर्हरेत्” सुश्रु॰।
“पापोकर्त्तरिकारकौ” मूहु॰ चि॰। अत्र
“ङ्यपोरिति” पा॰ह्रस्वः” पीयू॰। वस्तुतः क्षुरकर्त्तरिसदंशैरित्यत्र द्वन्द्वेह्रस्वाप्रसक्तेः ह्रस्वान्तोऽपि कर्त्तरिशब्दोऽस्तीति गम्यते। स्वार्थे कन्। कर्त्तरिकाप्यत्र स्त्री।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्त्तरी¦ f. (-री)
1. A scissors or shears.
2. A knife.
3. A small sword or cutlass. E. कृत् to cut, अरन् affix, and ङीप् fem. do.

"https://sa.wiktionary.org/w/index.php?title=कर्त्तरी&oldid=264657" इत्यस्माद् प्रतिप्राप्तम्