कर्पट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पटः, पुं, (कीर्य्यते क्षिप्यते इति । कॄ + कर्म्मणि विच् । कर् चासौ पटश्च इति कर्म्मधारयः । यद्वा करस्थः पटः । शकन्ध्वादित्वात् अलोपे साधुः ।) मलिनत्वादिदुष्टजीर्णवस्त्रखण्डम् । नेकडा इति ख्याता । (यथा कथासरित्सागरे ४ । ६१ । “चीरखण्डैककर्पटः” ॥) तत्पर्य्यायः । लक्तकः २ । इत्यमरः । ३ । ५ । ३३ ॥ नक्तकः ३ । इति भरतः ॥ पर्व्वतविशेषः । यथा, कालिकापुराणे ८१ अध्यायः ॥ “नीलशैलस्य पूर्ब्बस्मिन् स्वरूपं प्रतिपादितम् । नाभिमण्डलपूर्ब्बस्यां भस्मकूटस्य दक्षिणे ॥ पूर्ब्बस्यां कर्पटो नाम पर्व्वतो यमरूपधृक् । तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा ॥ अधित्यकायां राजेन्द्र व्यामपञ्चसु विस्तृता । पूजयेत्तत्र शमनं पाणौ दण्डं सदैव यः ॥ धत्ते तु प्राणिनां नित्यं प्राणदण्डस्य साधनम् । कृष्णवर्णन्तु द्विभुजं किरीटमुकुटोज्ज्वलम् ॥ दधतञ्चासिपुत्त्रीञ्च वामपाणौ सदैव हि । कृष्णवस्त्रं स्थूलपदं वहिर्निःसृतदन्तकम् ॥ वराभयकरं नित्यं नृणां महिषवाहनम् । पूजयेत् परया भक्त्या याम्यवीजेन साधकः ॥ उपान्त्यवर्गस्यादिर्यो वर्णो विन्द्विन्दुसंयुतः । यमवीजमिति ख्यातं यमस्य प्रीतिकारकम् ॥ अनेनैव तु मन्त्रेण शमनं यस्तु पूजयेत् । कर्पटाख्येऽचलवरे नापमृत्युं समाप्नुयात्” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट पुं।

जीर्णवस्त्रखण्डः

समानार्थक:नक्तक,कर्पट

2।6।115।1।4

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट¦ पुंन॰ कॄ--कर्म्मणि विच्--कर्--पटः कर्म्म॰।

१ लक्तकेजीर्ण्णवस्त्रखण्डे (लाताकानि),

२ मलिनवस्त्रे। करस्थःपटः शक॰। घर्म्मादिमार्ज्जनार्थं हस्तन्यस्त्रे।

३ वस्त्रखण्डे।

४ कषायरक्ते वस्त्रे च।
“नीलशैलस्य पूर्बस्मिन् स्वरूपंप्रतिपादितम्। नाभिमण्डलपूर्वस्यां भस्मकूटस्य द-क्षिणे। पूर्वस्यां कर्पटो नाम पर्वतोयमरूपधृक्” कालि-का

८१ अ॰ उक्त।

५ पर्वतभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट¦ m. (-टः) Old and patched or ragged garments. E. कृप् to be able, and अटन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पटः [karpaṭḥ] टम् [ṭam], टम् 1 Old, ragged or patched garment.

A piece of cloth, strip.

A soiled garment; or a red coloured garment.

A cloth; Pt.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पट n. ( अस्m. L. )old or patched or ragged garments , a patch , rag Pan5cat. Katha1s. etc.

कर्पट n. N. of a mountain Ka1lP.

"https://sa.wiktionary.org/w/index.php?title=कर्पट&oldid=495196" इत्यस्माद् प्रतिप्राप्तम्