कर्मफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मफल¦ न॰ कर्मणां शास्त्रविहितानां निषिद्धानां वा फलम्। शुभाशुभकर्मणां

१ सुखदुःखादिरूपे। फले तत्र विहितकर्मणांफलाभिसन्धौ तत्तत्फलप्राप्तिः अनभिसन्धाने परम्परयाचित्तशुद्ध्या मुक्तिप्राप्तिरिति भेदः। यथाह मल॰ त॰ विष्णु-पु॰
“विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः” गीतापि
“युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्अयुक्तः कामकारण फले सक्तोनिबध्यते”। युक्तः ईश्वरायकर्माणि न फलायेत्येवं समाहितः, फलं त्यक्त्वा फल-मनभिसन्धाय कर्म्माणि कुर्व्वन्नपीतिशेषः। शान्तिमाप्नोतिसत्वशुद्धिपापक्षयसंन्यासनिष्ठां क्रमेण प्राप्नोतीत्यर्थः। अयु-क्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतःप्रवृत्तेरितियावत्। फले सक्तः मम फलायेदं कर्म तत्करो-मीत्येवं फले सक्तोनिबध्यते” म॰ त॰ रघु॰।
“विष्णुपुराणे।
“कर्म्माण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्म-रूपे। अवाप्य तां कर्ममहोमनन्ते तस्मिल्लं यं ते त्वमलाःप्रयान्ति”। तां कर्ममहीं भारतवर्षरूपाम्
“पितॄन्नमस्ये दिविये च मूर्साः कामप्रदाः काम्यफलाभिसन्धौ--विमुक्तिदायेऽनभिसंहितेषु” प्रा॰ त॰ रुचिस्तवः अधिकं कर्म-योगशब्दे वक्ष्यते। कर्मफलानामीश्वरस्यैव दातृत्व-मिति वेदान्तिनः। मीमासकमते धर्मादेव फलमिति भेदः। तच्च ईश्वरशब्दे दर्शिते
“फलमत उपपत्तेः” इत्यादिकेशा॰ सूत्रभाष्ये दर्शितम्
“यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते”
“न मे कर्मफले स्पृहा” गीता। कर्मरङ्गस्यफलम् शा॰ मध्यपदलोपः। (कामराङ्गा)

२ फले मेदि॰। ( अथ कर्मणां फलमस्ति न वेति सन्देहे निरूप्यते, तत्रकर्म्मणः प्ररोचनार्थतया न फलमस्तीति श्रीभागवतवचनंश्रीधरव्याख्यानञ्चोपजीव्य म॰ त॰ निर्ण्णीतं यथा-(
“वेदोक्तमेव कुर्वाणोनिःसङ्गोऽर्पितमीश्वरे। नैष्कर्म्यांलभते सिद्धिं रोचनार्था फलश्रुतिः” भाग॰

११ ,

३ ,

४८ ।
“वेदोक्तमेव कुर्वाणो न तु निषिद्धम्। ननु कर्म्मणि[Page1738-b+ 38] क्रियमाणे तस्मिन्नासत्तिस्तत्फलञ्च स्यात्, न तु नैषकर्मारूपा फलसिद्धिः। अतएवाह
“निसःङ्ग इति अन-भिनिवेशितवान् ईश्वरेऽर्पितं न फलोद्देशेन। फलस्यश्रुतत्वात् कर्मणि कृते फलं भवत्येवेत्यत आह
“रोच-नार्थां इति कर्मणि रुच्युतपादनार्था। अतएव तत्रैव
“फलश्रुतिरियं नॄणां न श्रयोरोचनं परम्। श्रेयो-विवक्षया प्रोक्ता यथा भैषज्यरोचनम्। उत्पत्त्यैव हिकामेषु प्राणेषु स्वजनेषु च। आसक्तमनसोमर्त्या आत्मनो-ऽनथहेतुषु। न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि। कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः। एवं व्यव-स्थितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कसुमितां नवेदज्ञा वदन्ति हि”।
“इयं फलश्रुतिर्न श्रेय, परमपुरुषा-र्थपरा भवति किन्तु बाहर्मुखानां मोक्षविवक्षयाअवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम्। यथाभैषज्ये औषधे रुच्युत्पादनम्। यथा
“पिब निम्बं प्रदा-स्यामि खलु ते खण्डलडडुकान्। पित्रैवमुक्तः पिबतितिक्तमप्यतिवालकः”। अत्र तिक्तनिम्बादिपानस्य न खलुखण्डादिलाभ एव प्रयोजनम्, किन्त्वारोग्यम्। तथावेदोप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते। ननु कर्मकाण्डे मोक्षस्य नाभापि न श्रूयते, कुत एवंव्याख्यायते, यथाश्रुतस्यैवाघटनादित्याह उत्पत्त्येति,द्वाभ्याम्। उत्पत्त्या स्वभावत एव कामेषु पश्वादिषुप्राणेषु आयुरिन्द्रियबलवीर्य्यादिषु स्वजनेषु पुतृदारा-दिषु परिणामतोदुःखहेतुषु अतस्तान् स्वार्थं परम-सुखमविदुषः अजानतः अतो नतान् प्रह्वीभूतान् बुधो-वेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः। तानेयंभूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ वाभ्राम्यतः पुनस्तमोभूतवृक्षादियोनौ विशतः,
“पशुकाम” इतिचायुरिन्द्रियादिकाम इति च पुत्रादिकाम” इति च कथपुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात्। तथासत्यनाप्तः स्यादितिभावः। कथं तहि कर्म्ममीमांसकाः कर्म्मफलपरां वदन्तितत्राह एवमिति व्यवस्थितम्। वेदस्याभिप्रायमविज्ञायकुसुमिताम् अवान्तरफलरोचनतया रमणीयां परं फलश्रुतिंवदन्ति कुतस्ते कुबुद्धयः? तदाह--हि यस्मात् वेदज्ञाव्यासादयः तथा न वदन्तीति अतएव निष्कामकर्म्मणात्म-ज्ञानमित्युक्तम्। यथा--
“अयमेव क्रियायोगो ज्ञानयो-गस्य साधकः। कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते”। सोऽपि दुरितक्षयद्वारा न साक्षात्। तथा च
“ज्ञानमुत्[Page1739-a+ 38] पद्यते पुंसां क्षयात् पापस्य कर्मणः। श्रुतिः
“तमेतमात्मानंब्राह्मणा विविदिषन्ति वेदानुवचनेन ब्रह्मचर्य्येण तपसादानेन श्रद्धया यज्ञेनानशनेन चे” ति
“अतएव यज्ञादीनांज्ञानशेषताञ्चावधार्य निष्कामेषु कर्मसु प्रवर्त्तयते। पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यःइत्याह षष्ठस्कन्धे--
“स्वयं निःश्रेयसं विद्वान् नवक्त्यज्ञाय कर्म हि। न राति रोगिणेऽपथ्यं वाञ्छतेऽपिभिषक्तमः”। राति ददाति”। म॰ त॰ रघु॰। इदमपि ज्ञाननिष्ठाप्रशंसामात्रम् अन्यथा संसारस्य धर्म्मा-धर्म्ममूलकतया धर्म्मकार्य्यस्य फलाभावे कथं सुखादिभोगः,कथं वा संसारप्रवृत्तिः। किञ्च ईश्वरशब्दे दर्शिते
“फलमतउपपत्तेः” इत्यादिके शा॰ सूत्रभाष्ये धर्म्मस्य फलदातृत्व-मतनिवारणेनेश्वरस्यैव फलदातृत्वं यदुक्तं तद्विरुद्धं स्यात्। एकान्ततोऽसति कर्मणः फले कथमीश्वरस्य तद्दातृत्वोक्तिःसङ्गच्छते। ( अतएव तत्रैव भाग॰

११ ,

३ ,

४६ ।
“परोक्षवादोवेदोऽसौ बालानामनुशासनम्। कर्ममोक्षाय कर्माणिविधत्ते त्वगदं यथा” इति पूर्व्वतरवाक्ये कर्मणां कर्म-मोक्षस्यैव मुख्यफलत्वमुक्तं न तु फलाभावः। व्याकृत-ञ्चैतत् श्रीधरेण यथा--
“ननु स्वर्गाद्यर्थं कर्माणि विधत्तेन कर्ममोक्षार्थं तत्राह बालानामनुशासनं यथा भवति तथातत्र दृष्टान्तः अगदम् औषध यथा पिता बालमगदं पाययन्खण्डलड्डकादिभिः प्रलोभयन् पाययति ददाति च तानि,नैतावताऽगदपानस्य तल्लाभः प्रयोजनं अपि चारोग्यं तथावेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्माणिविधत्ते”। तत्र दृष्टान्ते ददाति च तानीति वदता दार्ष्टा-न्तिकेऽपि खण्डलड्डुकादिदानवत् फलवत्त्वं सूचितंकिन्तु तस्य न मुख्योद्देश्यत्वम् तच्चारोग्यस्थानीयमोक्ष-स्यैवेति सुस्थितं कर्म्मणः फलवत्त्वमिति दिक्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मफल/ कर्म--फल n. the fruit or recompense of actions (as pain , pleasure etc. , resulting from previous acts or acts in a former life) A1p.

कर्मफल/ कर्म--फल n. the fruit of Averrhoa Carambola L.

"https://sa.wiktionary.org/w/index.php?title=कर्मफल&oldid=495243" इत्यस्माद् प्रतिप्राप्तम्