कर्म्मकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्म्मकारः, पुं, (कर्म्म वेतनं गृहीत्वा लोहादिभिः खड्गकर्त्तरिकादिकं करोति निर्म्मातीति । कर्म्म + कृ + उपपदे “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) वर्णसङ्करविशेषः । लौहकारः । कामार इति भाषा । स तु शूद्रायां विश्वकर्म्मणो जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ वृषः । इति शब्दचन्द्रिका ॥

कर्म्मकारः, त्रि, (कर्म्म करोति मृतिमृते । कर्म्म + कृ + अण् ।) वेतनं विना भारवहनादिकर्म्मकारकः । वेगार इति भाषा ॥ तत्पर्य्यायः । कर्म्मक्रियः २ । इत्यमरः । ३ । १ । १९ ॥

"https://sa.wiktionary.org/w/index.php?title=कर्म्मकारः&oldid=124792" इत्यस्माद् प्रतिप्राप्तम्