कलकल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलकलः, पुं, (कलादपि कलः । युगपत्सममुत्थित- बहुलशब्दानामेकीभूततया तुमुलत्वात्तथात्वम् । कलशब्दे + घञ् । वृद्ध्यभावः । यद्वा कलः प्रकारः गुणवचनत्वात् प्रकारे द्वित्वम् ॥) कोलाहलः । (यथा, गीतगोविन्दे । १ । ३८ । “उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः” ॥) सालनिर्य्यासः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलकल पुं।

बहुभिः_कृतः_महाध्वनिः

समानार्थक:कोलाहल,कलकल

1।6।25।2।2

वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः। कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्.। स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलकल¦ पु॰ कलप्रकारः गुणवचनत्वात् प्रकारेद्वित्वम्। कोलाहले।
“चलितया विदधे कलमेखला-कलकलोऽलकलोलदृशाऽन्यया” माघः। कलस्य शालवृक्षस्यकला यत्र।

२ शालनिर्यासे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलकल¦ m. (-लः)
1. A confused noise, the murmuring or buzz of a crowd.
2. Resin, pitch, the resin of the Sal tree. E. कल् to sound, as above; the root reiterated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलकल/ कल--कल m. any confused noise (as a tinkling or rattling sound , the murmuring of a crowd etc. ) Mr2icch. S3is3. Ratna1v. etc.

कलकल/ कल--कल m. the resinous exudation of Shorea robusta L.

कलकल/ कल--कल m. a N. of शिवMBh. xii , 10378

"https://sa.wiktionary.org/w/index.php?title=कलकल&oldid=495287" इत्यस्माद् प्रतिप्राप्तम्