कलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलनम्, क्ली, (कल्यते लक्ष्यते दुष्यते वा । कल + ल्युट् ।) चिह्नम् । दोषः । इति हलायुधः ॥ (कल्यते शुक्रशोणिताभ्यामन्योन्यं मिश्य्रते ।) गर्भे मिश्रितं शुक्रशोणितम् ॥ यथा, भागवते । ३ । ३१ । २ । “कलनं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् । दशाहेन तु कर्क्कन्धूः पेश्यण्डं वा ततः परम्” ॥ क्वचित् कललं इत्यपि पाठो दृश्यते । कलयति जानात्यनेन । कल गतौ गत्यर्था ज्ञानार्थाश्च । कल + करणे ल्युट् । ज्ञानम् ॥)

कलनः, पुं, (कं जलं लाति । तथा सन् नमति । क + ला + कः ।) वेतसवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलन¦ न॰ कलयत्यनेन कल--गतौ गत्यर्थस्य ज्ञानार्थत्वात् ज्ञाने करणेल्युट्।

१ चिह्ने

२ वातपित्तादिदोषे च तैः स्वरूपानुमानात्तथात्वम्।

३ ग्रहणे

४ ग्रासे।
“कलनात् सर्वभूतानां स कालःपरिकीर्त्तितः” ति॰ त॰ विष्णुध॰ पु॰।

५ ज्ञाने च
“लोका-नामन्तकृत् कालः कालोऽन्यः कलनात्मकः” सू॰ सि॰।
“कल-नात्मकः ज्ञानविषयस्वरूपः ज्ञातुम् शक्य इत्यर्थः” रङ्ग॰।
“न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते” इत्युक्तेःज्ञानमात्रस्य कालविषयकत्वात् तथात्वम्। कं जलं लातिउत्पत्तिसाधनत्वेन तथा सन् नमति नम--बा॰ ड।

६ वेतस-वृक्षे पु॰ राजनि॰। तस्य जलसमीपजातत्वात् तत्स्रोतसा न-मनाच्च तथात्वम्।
“स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकलाश्रयः। कलनं(लं)त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्” भाग॰

३ ,

३० ,

३७ उक्ते

७ एकरात्रेण पच्यमाने गर्भकारणेरेतोविकारभेदे इति शब्दकल्पद्रुभादयः। तच्चिन्त्यम्
“आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि। मासिमासि विवर्द्धेत गर्भिण्या गर्भलक्षणम्। कललं जायतेतस्याः इति” सुश्रुते
“दृष्टाः करणाश्रयिणः कार्याश्रयि-णश्च कललाद्याः” सा॰ कारिकायाम्
“कार्य्यं शरीरं तस्या-वस्थाः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्गव्यूहाः” कौ॰उक्तेश्च तदेकवाक्यतया लकारद्वययुक्तपाठस्यैव भागवतेऽवधृत-त्वेन नकारयुक्तपाठोलिपिकरप्रमादकृतः इति विवेच्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलन¦ n. (-नं)
1. A spot, a stain.
2. An offence, fault, defect.
3. Mur- muring, sounding.
4. An embryo or the first vestige of the fœtus. m. (-नः) A sort of cane. f. (-ना)
1. Subjection, submission.
2. Chat- tering, talking.
3. Shedding, emitting. E. कल् to count, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलन [kalana], a. (at the end of comp.) Causing, effecting. -नः A sort of cane.

नम् A spot, mark.

A defect, an offence, fault.

Taking, seizing, grasping; कलनात्सर्वभूतानां स कालः परिकीर्तितः.

Knowing, understanding, apprehension.

Sounding.

An embryo at the first stage after conception.

ना Taking, seizing, grasping; कालकलना Ā. L.29.

Doing, effecting.

Subjection.

Understanding, comprehension.

Putting on, wearing; also letting loose; चूडाकलनाम् Śi.3.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलन mf( आ)n. ( ifc. )effecting , causing Bhartr2.

कलन m. Calamus Rotang L.

कलन m. doing , making , effecting Comm. on MBh.

कलन m. behaving , behaviour Katha1s.

कलन m. touching , contact VarBr2S.

कलन m. tying on , putting on S3is3. iii , 5

कलन m. (according to Mall. also letting loose , shedding , आमोचनम् अवमोचनं वा)

कलन m. the state of being provided with or having Ba1lar.

कलन m. calculation Jyot.

कलन n. the act of shaking , moving to and fro Prasannar.

कलन n. murmuring , sounding W.

कलन n. an embryo at the first stage after conception L. (See. कलक)

कलन n. a spot , stain , fault , defect L. (See. कलङ्क.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a door-keeper of महाकाल. Br. IV. ३२. १८.

"https://sa.wiktionary.org/w/index.php?title=कलन&oldid=495308" इत्यस्माद् प्रतिप्राप्तम्