कलहंस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहंसः, पुं, (कलेन मधुरास्फुटध्वनिना विशिष्टो हंसः । शाकपार्थिवादित्वात् मध्यपदलोपि समासः ।) हंसविशेषः । बालिहा~स इति भाषा । तत्पर्य्यायः । कादम्बः २ । इत्यमरः । २ । ५ । २३ ॥ कलनादः ३ मरालकः ४ । इति राजनिर्घण्टः ॥ राजहंसः । (यथा भट्टिः । २ । १८ । “कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः” ॥) नृपोत्तमः । इति विश्वमेदिन्यौ ॥ परात्मा । ब्रह्म । इति शब्दरत्नावली ॥ (अतिजगती वृत्तिः । सा च त्रयोदशाक्षरा । लक्षणमुक्तं यथा, छन्दोमञ्ज- र्य्याम् ७ । “सजसाः सगौ च कथितः कलहंसः” । अस्योदाहरणमुक्तं तत्रैव । यथा, “यमुनाविहारकुतुके कलहंसो व्रजकामिनी कमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः” ॥ सिंहनादः क्वापि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहंस पुं।

कलहंसः

समानार्थक:कादम्ब,कलहंस

2।5।23।1।2

कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ। हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहंस¦ पुंस्त्री कलप्रधानो हंसः।

१ (बालहां स) हंसभेदे

२ राजहंसे

३ नृपश्रेष्ठे च मेदि॰।
“कुन्दावदाताः कल-हंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः।
“कलसंजलसंभृतं पुरः कलहंसः कलयाम्बभूव सः” नैष॰
“बधूदुकूलं कलहंसलक्षणम्” कुमा॰। स्त्रियां जाति-त्वात् ङीष्।
“कलहंसीषु मदालसं गतम्” रघुः।

४ पर-मात्मनि ब्रह्मणि च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहंस¦ m. (-सः)
1. A drake, or according to some, a teal.
2. A gander.
3. Another bird, (Gallinula porphyria.)
4. BRAHMA or the Supreme Being.
5. An emperor.
6. A species of the Atijagati metre. E. कल pleasing sound, and हस a goose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहंस/ कल--हंस m. N. of several species of the हंसbird or goose MBh. R. Pan5cat. etc.

कलहंस/ कल--हंस m. an excellent king L.

कलहंस/ कल--हंस m. ब्रह्मor the Supreme Spirit L.

कलहंस/ कल--हंस m. a particular metre (consisting of four lines of thirteen syllables each)

"https://sa.wiktionary.org/w/index.php?title=कलहंस&oldid=495336" इत्यस्माद् प्रतिप्राप्तम्