कलहंसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलहंसः, पुं, (कलेन मधुरास्फुटध्वनिना विशिष्टो हंसः । शाकपार्थिवादित्वात् मध्यपदलोपि समासः ।) हंसविशेषः । बालिहा~स इति भाषा । तत्पर्य्यायः । कादम्बः २ । इत्यमरः । २ । ५ । २३ ॥ कलनादः ३ मरालकः ४ । इति राजनिर्घण्टः ॥ राजहंसः । (यथा भट्टिः । २ । १८ । “कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः” ॥) नृपोत्तमः । इति विश्वमेदिन्यौ ॥ परात्मा । ब्रह्म । इति शब्दरत्नावली ॥ (अतिजगती वृत्तिः । सा च त्रयोदशाक्षरा । लक्षणमुक्तं यथा, छन्दोमञ्ज- र्य्याम् ७ । “सजसाः सगौ च कथितः कलहंसः” । अस्योदाहरणमुक्तं तत्रैव । यथा, “यमुनाविहारकुतुके कलहंसो व्रजकामिनी कमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः” ॥ सिंहनादः क्वापि ॥)

"https://sa.wiktionary.org/w/index.php?title=कलहंसः&oldid=125152" इत्यस्माद् प्रतिप्राप्तम्