कलायः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलायः, पुं, (कलां अयते । “कर्म्मण्यण्” । ३ । २ १ । इति अण् ।) शमीधान्यविशेषः । मटर वा~- टुला इति भाषा । तत्पर्य्यायः । सतीलकः २ हरेणुः ३ खण्डिकः ४ । इत्यमरः । २ । ९ । १६ ॥ त्रिपुटः ५ अतिवर्त्तुलः ६ । इति रत्नमाला ॥ मुण्डचणकः ७ शमनः ८ नीलकः ९ कण्टी १० सतीलः ११ हरेणुकः १२ सतीनः १३ सती- नकः १४ । (यथा, माघः । १३ । २१ । “विक- सत्कलायकुसुमासितद्युतेः” ॥) अस्य गुणाः । वात- रुचिपुष्ट्यामदोषकारित्वम् । पित्तदाहकफनाशि- त्वम् । शीतत्वम् । कषायत्वञ्च ॥ (अस्य पर्य्यायो- गुणाश्च यथा, भावप्रकाशस्य पूर्ब्बखण्डे धान्यवर्गे । “कलायो वर्त्तुलः प्रोक्तः सतिलश्च हरेणुकः । कलायो मधुरः स्वादुःपाके रूक्षश्च वातलः” ॥) अस्य शाकगुणाः । मंधुरत्वम् । पित्तश्लेष्महरत्वम् । गुरुत्वम् । कषायानुरसत्वम् । रूक्षत्वम् । मल- भेदित्वम् । बायुकोपनत्वञ्च । इति राजनिर्घण्टः ॥ (“भेदनं मधुरं रूक्षं कषायमतिवातलम्” ॥ इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलायः [kalāyḥ], N. of a leguminous seed (Mar. वाटाणा); कलायपुष्पवर्णास्तु श्वेतलोहितराजयः (हयश्रेष्ठाः) Mb.7.23.62. विकसितकलायकुसुमासितद्युतेः Śi.13.21. कलायं शाकेषु ...... Pratimā.5. -Comp. -पुष्पकः A variety of gems; Kau. A.2.11.

"https://sa.wiktionary.org/w/index.php?title=कलायः&oldid=495363" इत्यस्माद् प्रतिप्राप्तम्