सामग्री पर जाएँ

कलावती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलावती, स्त्री, (कला गान्धर्व्वकलाः संगीतरागा- लापादयः सन्ति अस्याम् । कला + मतुप् मस्य वः स्त्रियां ङीप् ।) तुम्बुरुगन्धर्व्वस्य वीणा । इति हेमचन्द्रः ॥ (यथा माघस्य १ । १० श्लोकस्य टी- कायां मल्लिनाथधृतवैजयन्तीवचनम् । “विश्वावसोस्तु वृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी” ॥ स्वनामख्याता द्रुमिलस्य राज्ञः पत्नी । यथा ब्रह्म- वैवर्त्ते ब्रह्मखण्डे । २० । १२ । “कान्यकुब्जे च देशे च द्रुमिलो नाम राजकः । कलावती तस्य पत्नी बन्ध्या चापि पतिव्रता” ॥) श्रीराधामाता । सा तु वृषभानुपत्नी । इति ब्रह्म- वैवर्त्तपुराणम् ॥ अप्सरोविशेषः । यथा रतिस्तव कलावतीति श्लिष्टकाव्ये जयदेवः । (कलाः चतुःषष्टिकलाः विद्यन्ते यस्याः । गङ्गा । यथा, काशीखण्डे २९ । ४७ । “कूटस्था करुणा कान्ता कूर्म्मयाना कलावती” ॥) दीक्षाविशेषः । तस्याः क्रमो मन्त्रं विना लिख्यते । शिष्यः पूर्ब्बमुपोषितः कृतनित्यक्रियः स्वस्तिवा- चनपूर्ब्बकं सङ्कल्पं कुर्य्यात् । ततो गुरुं वृणुयात् । अथ गुरुराचम्य द्वारदेशे सामान्यार्घ्यं कुर्य्यात् । तदर्घ्यजलेन द्वारमभ्युक्ष्य द्वारपूजां कुर्य्यात् । ततो दक्षिणपादपुरःसरं द्वारवामशाखां स्पृशन् दक्षि- णाङ्गं सङ्कोचयन् मण्डपान्तः प्रविश्य नैरृत्यां वास्तुपुरुषं ब्रह्माणञ्च संपूज्य देयमन्त्रेण दिव्य- दृष्ट्यावलोकनेन दिव्यान् विघ्नानुत्सार्य्य अस्त्रमन्त्रेण जलेनान्तरीक्षगान् विघ्नानुत्सार्य्य वामपार्ष्णिघात- त्रयेण भौमान् विघ्नानुत्सार्य्य सप्तधास्त्रमन्त्राभि- मन्त्रितविकिरानादाय भूतनिवारणार्थमन्त्रेण तान् विकिरेत् । तत आसनशुद्धिं कृत्वा मन्त्रेण स्वस्तिकादिक्रमेणोपविशेत् । उपविश्य वा विघ्ना- नुत्सारयेत् । ततः पञ्चगव्येन मूलेन मण्डपं शोध- येत् । ततः स्वदक्षिणे पूजाद्रव्याणि वामे सुवा- सिताम्बुपूर्णकुम्भं हस्तप्रक्षालनार्थं पात्रमेकं पृष्ठ- देशे स्थापयेत् । सर्व्वदिक्षु घृतप्रदीपांश्च स्थाप- यित्वा पुटाञ्जलिर्भूत्वा वामे गुरुपरमगुरुपरा- परगुरून् प्रणम्य दक्षिणे गणेशं मध्ये स्वेष्टदेवताञ्च ततः कलात्मकं तत्शङ्खस्थं क्वाथं कुम्भेनिःक्षिपेत् । ततोऽश्वत्थपनसचूतपल्लवैरिन्द्रवल्लीवेष्टितैः कल्प- वृक्षबुद्ध्या कुम्भवक्त्रं पिधाय तस्मिन् वक्त्रे सफला- क्षतं चषकं कल्पवृक्षफलबुद्ध्या स्थापयेत् । ततः कुम्भं निर्म्मलेन क्षौमयुग्मेन संवेष्ट्य मूलेन कुम्भे मूर्त्तिं सङ्कल्प्य यथोक्तरूपेण देवतां ध्यात्वा तस्या- मावाहनादिकं कृत्वा पूजयेत् । देवताङ्गे अङ्गन्यासं कृत्वा धेनुमुद्रापरमीकरणमुद्रे प्रदर्श्य प्राणप्रतिष्ठां कृत्वा षोडशोपचारादिभिः पूजयेत् । ततोऽष्टो- त्तरं सहस्रं शतं वा संजप्य जपं समर्पयेत् । ततो मन्त्रस्य दशसंस्कारान् कृत्वा गुरुः शिष्यमानीय मन्त्रेण शिष्यनेत्रं वस्त्रेणाच्छाद्य शिष्याञ्जलिं पुष्पैः पूरयित्वा गुरुः स्वयमेव मन्त्रं जपन् कलसे देव- ताप्रीत्यै क्षिपेत् । ततो नेत्रबन्धनं दूरीकृत्य दर्भा- स्तरे आसीनं शिष्यं स्वकृतपूजाक्रमाद्भूतशुद्ध्या- दिकं विधाय तत्तन्मन्त्रोक्तन्यासान् शिष्यस्य देहे कुर्य्यात् । कुम्भस्थां देवतां पुनः पञ्चोपचारैः संपूज्यालङ्कृतं शिष्यमन्यस्मिन्नुपवेशयेत् । ततो मङ्गलाचारपूर्ब्बकं तत्कुम्भं समुद्धृत्य तन्मुखस्थान् सुरद्रुमरूपान् पल्लवान् शिष्यशिरसि निधाय मातृकां मनसा जपन् मूलेन साधितैस्तोयैर्वशिष्ठ- संहितोक्ताभिषेकमन्त्रैस्तमभिषिञ्चेत् । शिष्योऽव- शिष्टजलेनाचभ्य वाससी परिधाय गुरोः सन्निधा- वुपविशेत् । ततस्तामेव गुरुरात्मनो देवतां शिष्य- संक्रान्तां तयोरैक्यं विभाव्य गन्धादिभिः पूजयेत् । ततो मन्त्रेण शिष्यस्य शिखां बद्ध्वा संरक्ष्य शिष्य- शरीरे कलान्यासं कुर्य्यात् । ततः शिष्यशिरसि हस्तं दत्त्वा अष्टोत्तरशतं जप्त्वा अमुकमन्त्रं तेऽहं ददामीति शिष्यहस्ते जलं दद्यात् । ददस्वेति शिष्यो ब्रूयात् । तत ऋष्यादियुक्तं मन्त्रं गुरु- र्द्विजातीनां दक्षिणकर्णे त्रिः श्रावयेत् वामे सकृत् । स्त्रीशूद्राणां वामकर्णे त्रिः श्रावयेत् दक्षिणे सकृत् । ततः शिष्यो गुरुचरणे पतित एव तिष्ठेत् । ततो गुरुर्म्मन्त्रेण तमुत्थापयेत् । ततः शिष्यो लब्धमन्त्रं अष्टोत्तरशतं जपेत् । ततः शिष्यः कुशतिलजलान्यादाय गुरवे दक्षिणां सुवर्णं काञ्चनं वा दद्यात् । दीक्षाग्रहणसामग्रीश्च निवे दयेत् । अन्यांश्च ब्राह्मणान् परितोषयेत् । गुरुः स्वशक्तिरक्षणार्थाय अष्टाधिकं सहस्रं शतं वा मन्त्रं जपेत् । ततः शिष्यो मिष्टान्नपानादिना व्राह्मणान् परितोष्य स्वयं भुञ्जीत । दीक्षादिवसे गुरुशिष्ययोरुपवासे दोषः । इति तन्त्रसारोक्ता कलावतीदीक्षा समाप्ता ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलावती¦ स्त्री शा॰ ति॰

४ पटलोक्ते दीक्षाभेदे। स च
“अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया। विवाऽनयान लभ्येत सर्व्वमन्त्रफलं ततः। ज्ञानं दिव्यं यतोदद्यात्कुर्य्यात् पापक्षयं यतः। तस्माद्दीक्षेति सा प्रोक्ता देशिकै-स्तन्त्रवेदिभिः। चतुर्विधा सा सन्दिष्टा क्रियावत्यादि-भेदतः। क्रियावती वर्ण्णमयो कलात्मा वेधवत्यपि। ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् सम्पदावहाः” इत्युपक्रम्यदर्शिता। तत्र कलात्मा कलाशब्ददर्शितशारदातिलकोक्त-पञ्चाशत्कलावतीत्यर्थः। कलात्माप्यत्र।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलावती [kalāvatī], A kind of lute.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलावती/ कला--वती f. a mystical ceremony (the initiation of the Tantrika student in which the goddess दुर्गाis supposed to be transferred from the water-jar to the body of the novice) Tantras.

कलावती/ कला--वती f. (in mus.) a particular मूर्छना

कलावती/ कला--वती f. the lute of the गन्धर्वतुम्बुरुL.

कलावती/ कला--वती f. N. of an अप्सरस्

कलावती/ कला--वती f. of a daughter of the अप्सरस्अलम्बुषाKatha1s. cxxi , 111 ff.

कलावती/ कला--वती f. of several other women.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALĀVATĪ I : A daughter of the King of Kāśī. This gem of a woman worshipped the sage Durvāsas and became a saint by obtaining the Śaiva Pañcākṣara (five letters pertaining to Śiva--Sivāya namaḥ). After- wards Dāśārha, King of Mathurā, married her. The King felt very hot whenever he approached her and he questioned her about it. She said she had received the Pañcākṣara Mantra even from childhood and sinners would feel the heat if they touched her. The King was greatly disappointed and Kalāvatī took him to Sage Garga to redeem him from all his sins. The sage dipped the King in the river Kālindī and when the King rose up all his sins flew away from his body as tiny birds. The King reaching the palace, embraced Kalāvatī and then he felt her body very cool and pleasant. They got a son also. (Pañcākṣaramāhātmya, Śiva Purāṇa).


_______________________________
*2nd word in right half of page 373 (+offset) in original book.

KALĀVATĪ II : Mother of Mṛgāvatī, a queen. Mṛgā- vatī was the mother of Udayana. See under Mṛgāvatī).


_______________________________
*3rd word in right half of page 373 (+offset) in original book.

KALĀVATĪ III : A nymph. See under Ṭhiṇṭhākarāla.


_______________________________
*4th word in right half of page 373 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कलावती&oldid=495365" इत्यस्माद् प्रतिप्राप्तम्