कलिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिका, स्त्री, (कलिरेव । स्वार्थे कन् टाप् च ।) अस्फुटितपुष्पम् । तत्पर्य्यायः । कोरकः २ । इत्य- मरः । २ । ४ । १६ ॥ कलिः ३ कली ४ । कोरकम् । ५ इति तट्टीका ॥ (यथा, साहित्यदर्पर्णे ३ । १६८ । “मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः” ॥) वीणामूलम् । इति हेमचन्द्रः ॥ पदसन्ततियुक्त- रचनाविशेषः । तद्विवरणम् यथा, -- “स्युर्म्महाकलिकारम्भे श्लोकास्तु युगशः स्मृताः । अन्यासां कलिकानान्तु भवन्त्येकैकशो हि ते ॥ पूर्त्तौ द्वौ कलिकाभिस्तु विरुदास्तुल्यसङ्ख्यकाः” ॥ * ॥ कलिकालक्षणम् । “कला नाम भवेत्तालनियता पदसन्ततिः । कलाभिः कलिका प्रोक्ता तद्भेदाः षट् समीरिताः । कलिका चण्डवृत्ताख्या द्विगादिगणवृत्तका । तथा त्रिभङ्गी वृत्ताख्या मध्या मिश्रा च केवला” ॥ चण्डवृत्ते दशधा संयुक्तवर्णाः । “अत्र संयुक्तवर्णानां नियमो दशधा च ते । मधुरं श्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी ॥ भिद्यन्ते ह्रस्वदीर्घाभ्यां ते दर्श्यन्ते स्फुटं यथा । ह्रस्वान्मधुरसंयोगाः शङ्कराङ्कुशकिङ्कराः ॥ तस्मात्तु श्लिष्टसंयक्ता दर्पकर्परसर्पवत् । ततो विश्लिष्टसंयुक्ता भल्लकल्याणचिल्लयः ॥ तथा शिथिलसंयुक्ताः पश्य कश्यप वश्यवत् । प्रोक्ता ह्रादियुता मह्यं सह्यं गुह्यं प्रसह्यवत् ॥ गर्हादीन् ह्रादिसंयुक्तमेदान् केचित् ममूचिरे । दीर्घात्तुङ्गाङ्गकार्पामं बाल्यं वैश्यश्च वाह्यकम्” ॥ कलापरिमाणमुक्तम् । “अधिकाश्चेच्चतुःषष्टिर्न्यूना द्वादश ताः कलाः । एताभ्यो नाधिकाः कार्य्या न्यूनाश्चापि न पण्डितैः” ॥ तत्र तावच्चण्डवृत्तकलिका द्विधा । नखो विशिख- श्चेति भेदात् । तत्र रणादि-विंशतिभेदस्य नखस्येह बर्द्धितादयो नव भेदा गृहीताः । “वर्द्धितं वीरभद्रश्च समग्रोऽच्युत उत्पलम् । तुरङ्गः श्रीगुणरतिस्तथा मातङ्गखेलितम् । तिलकश्चेति कलिका नखस्येहोदिता नव” ॥ इत्युक्तेः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिका स्त्री।
अविकसितपुष्पम्
समानार्थक:कलिका,कोरक
2।4।16।1।3
क्षारको जालकं क्लीबे कलिका कोरकः पुमान्. स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्.।
: नूतनकलिका, चम्पककलिका
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिका¦ स्त्री कलिरेव स्वार्थे कन्।
१ कोरके (कडि) अस्फु-टितपुष्पे अमरः।
“वितरसि नः कलिकां किमर्थमेनाम्”
“असकलकलिकाकुलीकृतानि स्खलनविकीर्ण्णविकाशि-[Page1806-b+ 38] केशराणाम्” मावः।
“मुग्धामजातरजसं कलिकामकाले” सा॰ द॰।
“चूतानां चिरनिर्गतापि कलिका वध्नातिन स्वं रजः” शकु॰।
“सकलिका कलिकामजितामपि” रघुः। कलोध्वनिभेदः साध्यतयाऽस्त्यस्य ठन्। वीणामूलेहेमच॰ तस्य कलसाधनत्वात् तथात्वम्। कलैव स्वार्थेकन्।
३ कलाशर्ब्दार्थे।
“तन्यन्ते कलिका यस्मात्तस्मा-त्तास्तिथयः स्मृताः” सि॰ शि॰। कलिकापूर्व्वम्।
“प्रथम-मपरचरणसमुत्थं श्रयति स यदि लक्ष्म। इतरदितरगदि-तमपि यदि च तुर्य्यम्। चरणयुगलकमविकृतमपरमितिकलिका सा” वृत्तर॰ उक्ते
४ छन्दोभेदे च।
५ पदसन्ततियुक्त-रचनाभेदे सा च गोविन्दवीरुदावलीतद्भाष्ययोर्दर्शितायथा
“स्युर्म्महाकलिका{??}म्भे श्लोकस्तु युगशः स्मृता। अन्यासां कलिकानान्तु भवन्त्येकैकशोहि ते। पूर्त्तौ द्वौकलिकाभिस्तु वीरुदस्तुल्यसंख्यकाः। कला नाम भवे-त्तालनियता पदसन्ततिः। कलाभिः कलिका प्रोक्तातत्भेदाः षट् समीरिताः। कलिका चण्डवृत्त्याख्याद्विगादिगणवृत्तका। तथा त्रिभङ्गी वृत्त्याख्यामध्या मिश्रा च केवलेति”। चण्डवृत्ते दशधा संयुक्तवर्णाः। अत्र संयुक्तवर्णानां नियमो दशधा च ते। मधु{??}श्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी। भिद्यन्ते ह्रस्वदीर्घाभ्यां ते दर्श्यन्ते स्फुटं यथा। ह्रस्वान्मधुरसंयोगा-शङ्कराङ्कुशकिङ्कराः। तस्मात्तु श्लिष्टसंयुक्तादर्पकर्परसर्पवत्। ततोविश्लिष्टसंयक्ता भल्लकल्याणवल्लयः। तथा शिथिलसंयक्ताः पश्यकश्यपवश्यवत्। प्रोक्ता ह्रादियुता मह्यं-सह्यंगुहा प्रसह्यवत्। गर्हादीन् ह्रादिसंयुक्तभेदान्केचित् समूचिरे। दीर्घात्तुङ्गाङ्गकार्पासं बाल्यं वैश्यश्चनाह्यकमिति”। कलापरिमाणमुक्तम्।
“अधिकाश्चेच्चतुःषष्टिर्न्यूना द्वादशतः कलाः। एताभ्यो नाधिकाः कार्य्यान्यूना-श्चापि न पण्डितैरिति”। तत्र तावच्चण्डवृत्तकलिका द्विविधानखोविशिखश्चेति भेदात् तत्र रणादिविंशतिभेदस्य नखस्येहवर्द्धितादयोनव भेदा गृहोताः
“वर्द्धितं वीरभद्रश्च सम-ग्रोऽच्युतौत्पलम्। तुरङ्गः श्रीगुणरतिस्तथा मातङ्गखेलितम्। तिलकश्चेति कलिकानखस्येहोदिता नव इत्युक्तेःअथ विशिखः पद्मकुन्दचम्पकवञ्जुलबकुलभेदात्पञ्चविधः तेष्वादिमं पद्मं पङ्केरुहसितकञ्जप्राण्डूत्पलेन्दीवरारुणाम्भोरुहकह्णारभेदात् षड्विधम् अन्तिमंबकुलन्तु भासुरमङ्गलभेदात् द्विविधमित्येकादशभेदोविशिखः पङ्केरुहं सितकञ्जंतथा पाण्डूत्पलं परम्” इन्दी-[Page1807-a+ 38] वरारुणाम्भोजे कह्लारञ्चेति षड्विधम्। ईषद्भेदेन कथितपद्ममेव मनीषिभिः। चम्पकं वञ्जुलं कुन्दं बकुलं द्विविधंतथा। इति पञ्चविधस्यापि विशिखस्येशसंख्यकाः” इत्युक्तेःएवं चण्डवृत्तकलिकाविंशतिधा गृहीताः अथ पञ्चधा द्वि-गादिगणवृत्तका कलिका मञ्जरीत्यभिहिता क्रमात् कोरकगुच्छकसंफुल्लकुसुमगन्धाख्या तस्याश्चात्र कोरकगुच्छकु-सुमानि गृहीतानि” कोरकोगुच्छकुसुमै र्मञ्जरी त्रिविधात्रतु” इत्युक्तेः। त्रिभङ्गी कलिका तु शिखरिण्यादिपूर्ब्बा षोढातस्याश्चात्र दण्डकपूर्व्वा विदग्धपूर्वा च गृहीता
“दण्डकाख्याविदग्धाख्या त्रिम ङ्गीह द्विधा मता” इत्युक्तेः अथ मिश्र-कलिका
“कलिका गद्यसंपृक्ता सप्तविभक्तिका वा अक्षरमयीसर्वलघ्वी चेति द्विभेदा केवला चेत्यष्टौ तदेवं षड्भ्योमहा-कलिकाभ्यः अष्टाविंशतिरिह कलिका गृहीताः। रणादयएकादश नखभेदाः संफुल्लगन्धौ मञ्जरीभेदौ शिखरिण्या-दयः त्रिभङ्गीभेदा मध्यकलिका च त्यक्ताश्चारुताधिक्य-विरहात्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिका¦ f. (-का)
1. An unblown flower.
2. The bottom or peg of a lute. E. कल् to count, इन् affix कलि, and with ङीष्, कली as above; again, कन् pleonastic affix, and टाप् fem. do.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिका [kalikā], 1 A digit of the moon.
A division of time.
कलिका [kalikā] कलिः [kaliḥ], कलिः f.
An unblown flower; a bud; चूतानां चिरनिर्गता$पि कलिका बध्नाति न स्वं रजः Ś.6.4. किमा- म्रकलिकाभङ्गमारभसे Ś.6; Ṛs.6.17; R.9.33.
A digit. streak.
The bottom or peg of the Indian lute.
A king of poetic composition (akin to बिरुद).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिका f. the sixteenth part of the moon Bhartr2.
कलिका f. a division of time(= कलाSee. )
कलिका f. an unblown flower , bud S3ak. Ragh. etc.
कलिका f. the bottom or peg of the Indian lute (made of cane) L.
कलिका f. N. of several metres
कलिका f. a kind of artificial verse(See. कान्त-क्)
कलिका f. N. of wk. on medicine.
कलिका See. p. 261 , col. 3.